"हळेबीडु" इत्यस्य संस्करणे भेदः

(लघु) fixing dead links
पङ्क्तिः ५१:
इदानीं राजधान्यां होय्सळेश्वरदेवालयः शान्तलेश्वरदेवालयः च स्तः । द्वयोः देवालययोः सङ्गमस्थानं नक्षत्राकारके पञ्चपादपरिमितोन्नते आधारप्राङ्गणे अस्ति । देवालयौ पूर्वाभिमुखौ । पुर्वदिशि द्वारद्वयम् । उत्तरे दक्षिणे च एकैकम् द्वारमस्ति । मध्ये भवनमस्ति नवरङ्गादन्तः गर्भगृहे होय्सळेश्वरशान्तलेश्वरयोः लिङ्गे स्तः । नवरङ्गे सुन्दरशिल्पानि सन्ति ।
उपरितन शिल्पाच्छादने भुवनेश्वरीचित्राणि सन्ति । स्तम्भेषु भित्तिषु शिल्पानि सन्ति । प्रशान्तं मन्दिरम् अस्ति एतत् । अत्र शिवलिङ्गयोः दर्शनेनैव हि मनसः सन्तोषः भवति । पुरतः नन्दीश्वरौ विराजेते । विशाले उन्नते सुन्दरे मण्डपे नन्दीश्वरौ स्तः ।
[[Image:HalebiduRelief sculpture of the Hindu god Narayana with his consort Lakshmi (Lakshminarayana) in the Hoysaleshwara temple at Halebidu.jpg|ल्क्ष्मीनारायणयोः विग्रहः|thumb|100px|right]]
अत्र देवालयस्य बहिर्भागे भित्तिषु अनेकस्तराः सन्ति । अष्टपङ्क्तिषु विविधानि शिल्पानि सन्ति । अनेकानि सूक्ष्मसंवेदिचित्राणि अपूर्वाणि शिलासु रूपितानि सन्ति । चित्रपट्टिकासु सिंहपङ्किः गजपङ्क्तिः, लताविन्यासाः, उष्ट्रानां पाड्क्तिः, अश्वानां पाङ्क्तिः , लताः च सन्ति ।
 
"https://sa.wikipedia.org/wiki/हळेबीडु" इत्यस्माद् प्रतिप्राप्तम्