"ऋग्वेदः" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) clean up using AWB |
|||
पङ्क्तिः १:
{{Dead end|date=फ़ेब्रुवरि २०१४}}
ऋम्वेद संहितायां ऋचाणां संग्रहोऽस्ति । ऋचायाः लक्षणं जैमिनीयन्यायसूत्रे एवं प्रतिपादितं यथा – “पादेनार्थेन चोपेता वृत्तवद्धा मन्त्राः । “ एतेषां ऋचाणामुत्पत्तिः विराटयज्ञपुरुषाद् वभुव इति पुरुषसूक्ते उच्यते । यथा –
:'''तस्माद् यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।'''
:'''छन्दांसि जज्ञिरे तस्मात् यजु- स्तस्मादजायत ॥'''
ऋग् वेदस्य समयः – योरुपीय विदुषां मतानुसारं ऋग् वेदस्य रचनाकालः ४००० वर्ष पूर्वमासीत् । परन्तु अस्य कृते किमपिप्रमाणम् नैवउपलभ्यते ऋग्वेदस्य ऋचः पारसीयाणां अर्वेस्ता पुस्तकेन सह समानाः भवन्ति । पारसीयानां धर्मग्रन्थेन जण्डावेस्ता नामकेन सह अपि ऋचां समानता वर्त्तते । अतः आर्याणां रचितवेदस्य समतः योरुपीयाणां समसामयिकः इति अनुमीयते ।
ऋग्वेदस्य विभागः द्विधा क्रियते । यथा –(१) अष्टक क्रमेण, (२) मण्डल क्रमेण च । तत्र अष्टकक्रमानुसारं समग्र ग्रन्थः अष्ट अष्टकेषु विभक्तो भवति । प्रत्येकेषु अष्टकेषु अष्ट अध्यायाः भवन्ति । एवं सम्पूर्णग्रन्थे चतुः षष्ठी अध्याया भवन्ति । प्रत्येकाध्यायानां अवान्तरभेदाः वर्गनाम्ना व्यपदिश्यन्ते । वर्गानां संख्या २००६ (षडधिकद्विसहस्रं) भवन्ति । मण्डलक्रमानुसारं सम्पूर्णग्रन्थः दश (१०) मण्डलेषु विभक्तः अस्ति । अतः ऋग्वेदः “ द्शतयी” इत्युच्यते । सम्पूर्णऋग्वेदे पञ्चाशीति (८५) अनुवाकाः सप्तदशाधिकैकसहस्रं (१०१७ ) सूक्ताः सन्ति । मण्डलानुसारं क्रमशः एतेषां सूक्तानां व्यवस्था यथा -१९, ४३, ६२, ५८,८७,१०४,९२,११४,१९१-१०१७ । एतेषां सूक्तानां भिन्नमेकादशवालखिल्यसूक्तेषु अशीतिमन्त्राः सन्ति । सम्पूर्णऋग्वेदे सूक्तेषु मन्त्राणां संख्या -१०५८० १/४, ऋक्षु शब्दानां संख्या ४३२००० । यथोच्यते शौनकस्य अनुक्रमणिकायां –
:'''ऋचां दश सहस्राणि, ऋचां पंच शतानि च ।'''
:'''ऋचामशीति पादश्च तत्पारायणमुच्यते ॥'''
==ऋग्वेदस्य शाखाः==
यज्ञस्य आवश्यकतामनुभूय संकलित संहितानां पठनपाठनस्य अक्षुण्णतार्थञ्च व्यासः स्वशिष्यान् वेदान् अपाठयत् । यथोच्यते –तत्रर्गवेदधरः पैलः सामगो जैमिनिः कविः । वैशम्पायन एकैको निष्णातो यजुषामुत ॥ अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः । (भागवत- १/४/२१) एते मुनयः पुनः स्वशिष्यान् संहिताः अध्यापयत् । एवं प्रकारेण संहितानां अनेकाः शाखाः समुपजाताः । शाखा चरणशब्देन सह सम्बन्धिताः भवन्ति । मालतिमाधवस्य टीकाकर्त्ता जगद्धरकथनानुसारं चरणशब्दस्य अर्थः यथा –
:'''चरणशाब्दः शाखाविशेषाध्ययन परैकतापन्नजनसंघवाची ॥'''
तत्र महाभाष्यकारानुसारं ऋग्वेदस्य एकविंशति शाखाः सन्ति । तासु पञ्चशाखाः प्रधानाः भवन्ति । यथा -१. शाकलः , २. वाष्कलः, ३. आश्वलायनः , ४. शांखायनः, ५. माण्डुकायनश्च । एताः शाखाः इदानीं महाराष्ट्रदेशे एव उपलभ्यन्ते ।
[[वर्गः:वैदिकवाङ्मयम्]]
▲==ऋग्वेदस्य क्रमीकरणम्==
|