"अक्कमहादेवी" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) clean up, replaced: , → , (13) using AWB |
(लघु) clean up, replaced: , → , (5) using AWB |
||
पङ्क्तिः १:
{{हिन्दुधर्मः}}
==जन्म बाल्यं च==
[[कर्णाटक]]स्य वीरशैवजङ्गमभक्ताः शरणाः इति कथ्यन्ते । तादृशेषु शिवशरणेषु सती महादेवी एव अक्कमहदेवी इति प्रसिद्धा । द्वादशे शतके निर्मलशेट्टीसुमत्योः पुत्री, कर्णाटकराज्यस्य [[बनवासी]]प्रदेशस्य बळ्ळीगावे समीपस्थे '''उडुतडी'''ग्रामे जन्म प्राप्तवती । महादेव्याः मातापितरौ जैनमतावलम्बिनौ अनन्तरं शिवशरणौ जातौ आस्ताम् । एतयोः अपत्यानि न आसन्
==वैराग्यम् ==
गुरुलिङगदेवस्य कारणेन महादेवी विरागिणी जाता । आचारमती, शीलवती, विचारवती महादेवी कथं संस्कारेण विना विरागिणी, शिवस्य भक्ता च जाता इत्येव आश्चर्यकरम् । एषः दैवयोगः इति वक्तुं शक्यः ।
[[बसवेश्वरः|बसवेश्वरेण]] कृताः धार्मिककार्यक्रमाः महादेव्याः तारुण्ये बहु प्रभावम् अजनयन् । अतः बसवण्णेन सह तस्याः भ्रातृत्वं,गौरवः प्रीतिश्च आसीत् । शिवशरणानां मर्गदर्शनेन वचनसाहित्यं सृष्ट्वा आन्तरङ्गिकाः भावनाः प्रकटीकरोति स्म । समाजस्य प्रगतिविषये
रतिस्वरूपिणी महादेवी स्वव्यक्तित्वेन बहूनां जनानां मार्गदर्शिणी
==सांसारिकजीवनम्==
जैनमतावलम्बी कौशिकः तस्य प्रान्तस्य राजा आसीत् । रतिस्वरूपिणीं सौन्दर्यवतीं महादेवीं दृष्ट्वा तस्मिन् मोहः उत्पन्नः । कौशिकमहाराजस्य तया सह विवाहः करणीयः इति इच्छा भवति । एतां वार्तां महदेव्याः मातापितरौ ज्ञातवन्तौ । जिनधर्मीयौ तौ न अङगीकृतवन्तौ । किन्तु कौशिकमहाराजः तस्याः पितरौ बलात् कारागृहे स्थापितवान्। इदानीं वा पुत्री मया सह विवाहं कुर्यात् इति तस्य चिन्तनम् आसीत् । राजाज्ञायाः विरुद्धं व्यवहारः कष्टकरः इति विचिन्त्य सा एकम् उपायं विचिन्त्य विवाहार्थम् अङगीकृतवती । तदनुगुणं परिस्थितेः अपि निर्माणम् अभवत् । राज्ञा अपि केचन नियमाः अङगीकरणीयाः अभवन् । प्रथमं,कौशिकमहाराजेन जिनमतं त्यक्त्वा वीरशौव मतं अङ्गीकरणीयं द्वितीयं महादेव्या क्रियमाणायां गुरुलिङगजङगमानां सेवायां विघ्नः न आचरणीयः इति, यदा राजा शिवाराधकः भवति तदा एव महादेव्याः स्पर्शः इति तृतीयः नियमः आसीत् । राज्ञा यदि वचनभङगः क्रियते तर्हि विरागिणी भूत्वा प्रासादं त्यजेयम् इत्यपि महादेवी सूचितवती आसीत् ।
विवाहः सम्पन्नः । राजगृहे कापि न्यूनता न आसीत् । महाराजस्य अन्तरङ्गे बहु आनन्दः जातः । किन्तु लिङगपूजकः भवेत्, अन्यथा महादेव्याः अङगस्पर्शः न करणीयः असीत् । महाराजस्य वीरशैवधर्मंस्य आचरणे इच्छा न भवति स्म । अग्रे कदाचित् महादेव्या सह संसारस्य सुखम् अनुभवेयम् इति सः चिन्तितवान् । महादेवी कठिनव्रतधारिणी भूत्वा महाराजस्य चिन्तनानि नाशितवती । संसारिकजीवने तस्याः आसक्तिः न असीत् । पत्न्याः व्यवहारान् दृष्ट्वा राजा कौशिकः अङगसुखस्य निमित्तं तस्याह् अनुरोधं कृतवान् । एतेन महादेवी रणचण्डी जाता ।
==अनुभवमण्डपे==
शरीरे विद्यमानानि आभरणानि तथा वस्त्राणि निष्कास्य क्षिप्तवती । स्वस्य शरीरस्य विषये अपि न चिन्तितवती
तदा शरणानां कल्याणभूमिः कल्याणनगरम् आसीत् । [[अल्लमप्रभुः]]
बहुकालं शिवानुभावमण्डपे स्थित्वा अक्कमहादेवी परिपूर्णज्ञानं प्राप्य उन्नतस्तरीया साधकी भूत्वा गुरूणाम् अनुग्रहार्थं निरीक्षां कृतवती । प्रभूणाम् अनुग्रहेण श्रीशैलस्य कदलीक्षेत्रं प्रति गतवती । गिरेः उपरितनकदली क्षेत्रे तस्याः जीवने दिव्यज्योतिरूपेन परिणामः अभवत् । सा ज्योतिः प्रज्वलिता अभवत्। अक्कमहादेव्याः तत्र कर्पूरम् इव ज्वलनं भूत्वा दिव्यज्योत्या सह संयुज्य शिवसायुज्यं प्राप्तवती । तस्याः दिव्यस्वरूपम् अनन्ते आकाशे सम्मिल्य स्त्रीकुलस्य मार्गदर्शनम् अकरोत् ।
अक्कमहादेव्याः भक्तिभावः "शरणसती लिङगपतिः” इव जातः । सा स्वरचितेषु वचनेषु लोकानुभावं दृष्टान्तैः सह अत्यन्तं सरलरीत्या विवृतवती अस्ति ।
|