"अलङ्काराः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
(लघु) clean up, replaced: , → , (5) using AWB
पङ्क्तिः १९:
इति दण्डी अलङ्कारनिर्वचनमकरोत् । अलङ्कृतिरलङ्कारः, अलङ्क्रियतेऽनेन इत्यलङ्कारः, इति अलङ्कारशब्दस्य व्युत्पत्तिद्वयमस्ति । अनयोद्विर्वतीयव्युत्पत्तिरुपमाद्यलङ्काराणां विषयेऽनुगुणतया समन्वेति । ततश्च अलङ्कारो नाम अलङ्करणसाधनमित्येव विभाव्यं न त्वलङ्कार्यमिति । [[जगन्नाथपण्डितः]] स्वयं सुन्दरं सदन्योपस्कारकमलङ्कारशब्दवाच्यमवोचत् । ''सुन्दरत्वे सत्युपस्कारकत्वमलङ्कारत्वम्'' इति जगन्नाथेन प्रतिपादितम् ।
==सङ्ख्याविषयः==
अलङ्काराणां संख्याविषयेमतभेदाः दृश्यन्ते । भरतो यमकाख्यमेकं शब्दालङ्कारं, उपमादीपकरूपकाख्यान् त्रीनर्थालङ्कारांश्च प्रत्यपादयत् । अग्निपुराणेऽष्टौ, [[विष्णुधर्मोत्तरपुराणम्|विष्णुधर्मोत्तरपुराणे]] सप्तदश चालङ्काराः वर्णिताः । दण्डी पञ्चत्रिंशत्, भामहोद्भटौ षट्त्रिंशत्, च अलङ्कारान् कथयामासुः । मम्मटः एकषष्टिसंख्याकान्, [[विद्यानाथः]], षट्षष्टिसंख्याकान् (रसवदादिभिस्सप्तभिर्मेलने त्रिसप्तातिः), [[विश्वनाथः]] नवसप्ततिसंख्याकान् जयदेवः एकाधिकशतसंख्याकान्, [[अप्पय्यदीक्षितः]] एकविंशत्युत्तरशतसंख्याकान् च, अलङ्कारान् पर्यगणयन् । शोभाकरमिश्रोऽलङ्कारसंख्यामितोऽप्यवर्धयत् । भरतप्रोक्तानि भूषणानि, लास्याङ्गानि, नाट्यालङ्काराः , केचित्सन्ध्यङ्गानि चार्वाचीनैरालङ्कारिकैरलङ्कारेषु विन्यस्तानि । किमिमे सर्वेऽप्यलङ्काराः भवन्ति ? केचनालङ्काराः अलङ्कारान्तरेषु, अन्तर्भावयितुं शक्यन्ते वा ? इति विमर्शो रसगङ्गाधरे परिदृश्यते ।
 
==विभागाः==
पङ्क्तिः ३०:
केचिदुभयालङ्काराः इति तृतीयमपि भेदमाहुः । अर्थमनपेक्ष्य शब्दं केवलमाश्रित्य प्रवर्तमानाः अलङ्काराश्शब्दालङ्काराः उच्यन्ते । अर्थं केवलमाश्रित्य प्रवर्तमानाः अलङ्काराः अर्थालङ्काराः भवन्ति । शब्दार्थाश्रयाः अलङ्काराः उभयालङ्काराः कथ्यन्ते ।
 
अनुप्रासयमकादयश्शब्दालङ्काराः उपमारुपकादयोऽर्थालङ्काराः, पुनरुक्तवदाभासलाटानुप्रासादयः , उभयालङ्काराः भवन्ति । भोजः सरस्वतीकण्ठाभरणे शब्दालङ्काराः बाह्याः, अर्थालङ्काराः आभ्यन्तराः इति व्याजहार । जाति- गति- रीति- वृत्ति- च्छाया –मुद्रा –शय्यादयोऽपि शब्दालङ्काराः एवेति निश्चिकाय । औचित्यमनुसृत्य प्रयुक्ताश्शब्दालङ्काराः पाठकानामानन्दमभिवर्धयन्ति । संस्कृतकवयो वनयुध्दवर्णनादि सन्दर्भेषु शब्दालङ्कारान्बहुविधान् समायोजितवन्तः । आन्ध्रभाषाकवयोऽपि वन- जल- क्रिडा- पुष्पापचय-प्रभृति वर्णनेषु शाब्दालङ्कारप्रीतिमदर्शयन् । वस्तुतश्छन्दोयुक्ता रचनैव शब्दालङ्काररुपा इति केचिद्वदन्ति । अर्थालङ्काराणां योजनेन कवेः प्रतिभाकौशलमतीवाऽभिव्यज्यते । आनन्दजनकाः भावरामणीयकचमत्काराः एव मूलमलङ्काराणाम् । यद्यप्यलङ्कारास्समग्रलक्षणलक्षिताः भवन्ति , तथापि तेषामङ्गिसैन्दर्यजनकता यदि न स्यात्तदा तेऽलङ्काराणां प्रधानं कार्यमिति वदन्त्यालङ्कारिकाः । अलङ्काराः यदा ललनाशरीरमधिष्ठाय सौन्दर्यमभिवर्धयन्ति तदैव तेऽलङ्काराः शब्दवाच्या भवन्ति, न तु पेटिकास्थिता अलङ्काराः । एवं रसध्वन्युपरस्कारकाणामेवालङ्काराणामलङ्कारता सिध्यति । अन्यथा ते केवलमर्थचित्रा भवन्ति । केचित् रसमप्यलङ्कारं भावयन्ति । तन्न युक्तम् । यतो रसो न कमप्यलङ्करोति । अपि तु स्वयमलङ्कार्यो भवति । यो हयप्रधानो जायमानः अन्यमलङ्करोति स एवालङ्कारशब्दव्यपदेश्यो भवति । अतो रसः केवलमलङ्कार्यो भवति, न त्वलङ्कारः ।
 
===प्रतापरुद्रीयेऽलङ्काराणां विभागः ===
पङ्क्तिः ६५:
केचित् पुनः शास्त्रीयांशानां प्रवेशमालम्ब्य अलङ्कारान् व्याकरणमूलकाः, मीमांसामूलकाः, न्यायशास्त्रमूलकाः, वेदान्तशास्त्रमूलकाः इति व्यभजन् ।
प्राचीनालङ्कारिकाः केचिदुपमायाः , अन्ये वक्रोक्तेः , अपरे श्लेषस्य च प्राधान्यमदुः । वामनः, उपमालङ्कारं सर्वालङ्कारबीजभूतममन्यत । अतोऽयमुपमागर्भानलङ्कारान् विस्तरेण प्रत्यपादयत् । अर्वाचीनाः आलङ्कारिकाः वामनमतमेवाऽनुसरन्तः, स्वीयग्रन्थेषु उपमायाः प्राथम्यं प्राधान्यं चाकल्पयन् । दण्डी बहून् उपमालङ्कारभेदानकथयत् । अप्पय्यदीक्षितश्चित्रमीमांसायां –
 
:'''उपमैका शैलूषी संप्राप्ता चित्र भूमिका भेदान् ।'''
"https://sa.wikipedia.org/wiki/अलङ्काराः" इत्यस्माद् प्रतिप्राप्तम्