"अल्बर्ट् ऐन्स्टैन्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
(लघु) clean up, replaced: , → , (2) using AWB
पङ्क्तिः ८०:
 
==अल्बर्ट् सिद्धान्तः==
अस्य सापेक्षतासिद्धान्तः सुप्रसिद्धः भवति । एन्स्टैन् प्लाङ्कनस्य शकलसिद्धान्तस्य सारं स्वीकृत्य प्रकाशस्य गुणधर्मान् ज्ञातुं संशोधनं कृतवान् । अनेन स्वसिद्धान्तं निरूपितवान् । "यन्यू डेफिनिशन् आफ् मालिक्टूलर् डैमेन्षन्" इति प्रबन्धमेकं रचितवान् । एन्स्टैन् प्रकाशस्य सञ्चारस्य, वेगस्य च विषये स्व नूतनं सिद्धान्तं निरूपितवान् । "प्रकाशस्य सञ्चाराय माध्यमम् अनपेक्षितम्, सः प्रकाशः निर्वाते सञ्चारसामर्थ्यसहितः शक्तिरूपः भवति । प्रकाशस्य वेगस्य समानः वेगः कस्यापि न भवति। प्रकाशः स्वमूलात् बहिरागत्य समानवेगे प्रसरति ।" इति अस्य निरूपणं भवति। प्रकाशस्य वेगः गरिष्ठः भवति । अतः स्थिरवेगं 'C" इति आङ्ग्लाक्षरेण सूचितवान् । एन्स्टैन् निरूपितं समीकरणम् E = mc2 इति । जडवस्तु त्रिषु रूपेषु घन, द्रव, अनिलादि भेदेन विद्यते । वस्तुने द्रव्यराशिः अस्ति । द्रव्यराशिं m इति सङ्केतेन निरूपितवान् अस्ति । प्रकाशम् , उष्णञ्च भारपरिमाणेन मापयितुं न शक्यते । ईदृशां शक्तीं E इति सङ्केतितवान् । वैज्ञानिकाः शक्तिराशी पृथक् इति चिन्तयन्तः आसन् । उभयोर्मध्ये एन्स्टैन् सम्बन्धं कल्पयित्वा, उभयोः समत्वं च कल्पयित्वा E=mc2 इति सरलं समीकरणं निरूपितवान् । अनेन समीकरणेन परमाणुगोलस्य तत्वं निरूपितम् ।
 
==कृतयः==
एन्स्टैन् न केवलं वैज्ञानिकः , किन्तु प्रसिद्धः लेखकोऽपि । अनेन बहवः ग्रन्थाः रचिताः । अस्य कृतयः [[जर्मनी]]भाषायां विद्यन्ते । कालन्तरे आङ्ग्लभाषायाम् अपि प्रकटिताः। "दि यवुल्यूषन् आफ् फिसिक्स्” इति लीफाल्ड् इन्फेल्डवर्येण सह लिखितः प्रसिद्धकृतिः ।
*दिफैट् एगेन्स्ट् वार्
*इन्वेस्टिगेषन्स् आफ् दि थियरि आफ् दि ब्रौनियन् मूव्मेण्ट्
"https://sa.wikipedia.org/wiki/अल्बर्ट्_ऐन्स्टैन्" इत्यस्माद् प्रतिप्राप्तम्