space error.
पङ्क्तिः १२८:
पूर्वापरसकलटीकासु प्रयुक्तां पद्धतिं तदनुरोधेनार्थाविष्करणाय स्वस्वम्प्रदायविशेषानुरोधेन च सिद्धान्तजातं पर्यालोच्यास्माकं मतेनेदं वक्तुं पार्यते यत् यतिवरो मधुसूदनसरस्वतीमहाभागो प्रशास्यतरो व्याख्याता । यतो हि भगावदगीतायाः या समन्वयात्मिकादृष्टिः स तामेवावलम्बते संगृहणाति च सर्वान् स्वोत्प्रेक्षाबलेन व्याख्याति स्वातन्त्रयेण । अतोऽधिकांशतः श्रद्धेयो व्याख्यातेति निष्पक्षपाततो वक्तुमुचितम् ।
 
यः [[उपनिषदां]] [[आत्मविचारः]] [[साङ्ख्यानां]] [[ज्ञनविचारः]] तथा [[सृष्टिक्रमः]], [[उपासनाविवरणम्]] भगवद्विचाराः एतत् सर्वमपि बोधयति स एव भगवद्गीता । येभ्यः [[वेदाध्ययनाधिकारः]] नास्ति तेभ्यः अपि [[वेदान्तस्य]] तथा धर्मस्य सारं पाठयति एषा भगवद्गीता । व्यासरचितं [[महाभारतमेव]] गीतायाः स्रोतः । भगवद्गीतयाः [[प्रस्थानत्रये]] द्वितीयं स्थानं दत्तं वर्तते । परमज्ञानं , परिशुद्धभक्तिः , निष्कामकर्मणः एतेषां त्रयाणामपि मोक्षसाधकत्वं वर्तते इति भगवद्गीता अभिपैति । गीतायाः उपरि अचार्यत्रयाणां भाष्यं वर्तते । आधुनिकाः अपि [[बालगङ्गाधरतिलकः]] , [[मदनमोहनमालवीयः]] ,[[महात्मा गान्धिः]] , [[अरविन्द घोष]] इत्यादयः गीतायाः माहात्म्यं मुक्तकण्ठेन श्लाघितवन्तः । गीतायाः उपरि एतेषां व्याख्यानं अपि उपलभ्यते । एतस्याः काव्यशैली , आध्यात्मिकाकर्षणात् जगति सर्वेपि प्रभाविताः अभूवन् इति कारणादेव सर्वासु भाषासु अद्य अनूदिता वर्तते । [[त्रयाः आचार्याः]] तेषां सिद्धान्तानुसारं गीतायाः [[भाष्यं]] रचितवन्तः।
 
श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन अर्जुनाय ये उपदेशाः प्रदत्ताः, तेषां दिशा सुस्पष्टाऽस्ति । तत्र आचारमीमांसा विशेषेण प्रतिपादिता लक्ष्यते । श्रीमद्भगवद्गीता योगशास्त्रमप्यस्ति । अत्र योगशब्दः आचारव्यवहारयोरर्थे प्रयुक्तोऽस्ति । प्रत्येकम् अध्यायस्य पुष्पिकायां “ ब्रह्मविद्यायां योगशास्त्रे” इत्युल्लेखेन विज्ञायते यद्गीतायाः मुख्यं प्रतिपाद्यं ब्रह्मविद्यायां प्रतिष्ठितस्य व्यवहारस्य प्रतिपादनमस्ति ।
"https://sa.wikipedia.org/wiki/भगवद्गीता" इत्यस्माद् प्रतिप्राप्तम्