"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

(लघु) clean up, added underlinked tag using AWB
(लघु) clean up, replaced: , → , (4) using AWB
पङ्क्तिः २२:
अष्टादशवर्षाणां वयस्येव शिवराजः कोङ्कण-पुरन्दर- प्रतापगृह-राजगृह-चाकणेत्यादिनि चत्वारिंशत् दुर्गाणि स्वायत्तीकृत्य तत्र भगवद्ध्वजं प्रतिष्ठापितवान् । अस्मिन् समये एव देशस्य पश्चिमभागे आंगलेयाः पोर्चगीसजनाः च पदनिक्षेपं कुर्वन्तः आसन् । एते विदेशीयाः यदा कदापि भारतदेशं सङ्कटेषु पातयिष्यन्तीति सः पूर्वमेव समभावयत् । एतेभ्यः देशरक्षणाय समुद्रतीरप्रान्तेषु दुर्गाणां निर्माणम् आरभत । युध्दाय योग्याः नौकाः, नाविकादलं च निरमात् । विदेशीयशक्तिभ्यः सम्भविष्यमाणाम् आपदं पूर्वमेव ज्ञातवान् । तेषाम् आक्रमणानि निरोध्दं योग्यां रक्षणव्यवस्थां व्यरचयत् च एवं शिवराजः बहुदूरदर्शी आसीत् ।
==शत्रूणां स्ंहार:==
शिवराजः स्वराज्यनिर्माणे सफल: भवन्नस्तीति दृष्ट्वा आदिलशाहस्य (बीजपुरसुलतानस्य) मनः व्याकुलितम् अभवत् । निस्पृहता आवृता । 'शिवराजः आस्मिन् दिने एतद् दुर्गं जितवान् , ह्यः तद् दुर्गं जितवान् ’ इत्यादि वार्ताः प्रतिदिनं सः श्रृणोति स्म । राज्ञः सपत्नीमाता उलियाबेगम् नाम्नी शिवराजं नितरां द्वेष्टि स्म। सा प्रख्यातान् सर्वान् वीरानाहूय सभामेकाम् आयोज्य -"शिवराजं बन्धुं यस्य धैर्यसाहसादिकम् अस्ति, सः एतं खड्गं स्वीकरोतु’ इति पन्थाह्वानं कृतवती । सभायाः मध्ये पटवस्त्रेण आवृतः खड्गः आसीत् ।तदा बृहदाकारकः दृढकायः कश्चन सेनापतिः उत्थितवान् । पुरतः आगत्य तं खड्गं गृहीतवान् । तस्य नाम अफजलखानः । आदिलशाहसभायां मुख्यसेनानीषु अयम् एकः ।यथा अयं पराक्रमी, तथा वञ्चकः, क्रूरश्च । पञ्चविंशतिसहस्रयोधै: युक्तं बलिष्ठं सैन्यं स्वीकृत्य सः शिवराजं ग्रहीतुं प्रस्थितवान् ।
आरम्भे अफजलखानः तुलजापुरस्थं देवीमन्दिरं स्वह्स्ताभ्यां ध्वस्तं कृतवान् । तुलजापुरभवानी शिवराजस्य कुलदेवता । एवमेव पण्ढरपुरस्थां मूर्तिमपि ध्वस्तवान् । खानेन क्रीयमाणानां दुष्कृत्यानाम्, अत्याचाराणाञ्च वार्ताः शिवराजं प्राप्नुवन्त्येव । शिवराजः यावत् दुर्गेषु, अरण्येषु तिष्ठति, तावत् तस्य बन्धनं नैव सुकरं भवति इति खानः जानाति स्म । देवालयानां ध्वंसः, स्त्रीणाम् अत्याचारः, गवां हननम् इत्यादि अकृत्यानि कुर्मः चेत् शिवराजः अवश्यं बहिरागमिष्यतीति, विनायासं तं ग्रहीतुं शक्नुमः इति अफजलस्य कुतन्त्र्म् आसीत् ।
किन्तु शिवराजः स्वपरिधिम् अतिक्रम्य बहिः नागतवान् । अफजलखानस्य कुतन्त्रं सः ज्ञातवान् । दुर्गं त्यक्त्वा बहि: युध्दं क्रियते चेत् अफजलः अवश्यं जेष्यतीति सः जानाति स्म । अतिगहनारण्ये नूतनतया निर्मितं प्रतापदुर्गं प्राप्य, कथञ्चित् अफजलखानं तत्र आनयामः इति उपायं रचितवान् शिवराजः । अस्मिन्नेव समये भवनीमाता स्वप्ने शिवराजस्य साक्षादभूय ’ निश्चयेन तव विजयो भविष्यति’ इति आशिषो दत्तवती ।
यथाकथञ्चित् शिवराजं प्रतापगढतः भूप्रान्तम् आनेतुम् अफजलखानः एकं दूतं शिवराजस्य समीपे प्रेषितवान् । तस्मै दूताय अनेकाः रहस्यसूचनाः च दत्तवान् । शिवराजं प्राप्तः सः दूतः अतिविनम्रं " खान् महोदयः भवतः पितुः उत्तममित्रम् अस्ति । अतः सः भवन्तं न बाधयति । भवान् आगत्य तेन मिलतु ।" इति सूचितवान् । शिवराजः इतोऽपि विवेकेन एकं पत्रं विलिख्य स्वदूतद्वारा खानं प्रति प्रेषितवान् । " भवान् मम पितृव्येण तुल्यः । मम कारणेन जातान् दोषान् क्षाम्यतु । भवान् प्रतापगढम् आगत्य मां धन्यं कृत्वा, महाराजस्य समीपं नयतु ।" इति लिखितवान् । शिवराजस्य लेखे दृश्यमानं भयं ज्ञात्वा खानः अत्यन्तमानन्दितवान् । शिवराजस्य लेखहारः युक्तिपरः । सः खानस्य धैर्यसाहसादिकम् अत्यन्तं प्रशंसन् शिवराजस्य भीरुतां वर्णीतवान् । खानः अधिकं मोदम् अनुभूतवान् ।
खानः स्वपरिवारेण सह तम् अटवीप्रान्तं प्राप्तवान् । प्रतापदुर्गस्य अधोभागे एकं शिबिरं निरमात् । अफजलखानस्य शिवराजस्य च मध्ये सन्धिरचनाय निर्णयः जातः । शिवराजः अत्यधिकं भीतः इति कारणतः अफजलखानः शिवराजम् एकान्ते मिलेदिति, तयोः अङ्गरक्षकद्वयं द्वारे तिष्ठेदिति च निर्णीतम् ।
सूर्योदयानन्तरं समावेशः भविष्यति । पूर्वदिने रात्रौ शिवराजस्य मित्राणां नेत्राणि न निमीलितानि । नेताजि:, तानाजि:, कन्होजि: इत्यादयः शिवराजस्य अत्यन्तविधेयाः सेनानायकाः स्वस्वसैन्यानि स्वीक्रुत्य दुर्गस्य अधोभागे अरण्ये निः शब्दं स्थितवन्तः । दुर्गात् यदा शतध्नीनां शब्दः श्रूयते तदा खानसैन्यं आक्रान्तव्यम् इति पूर्वमेव सूचना तेभ्यो दत्ता । रात्रिः अतीता । सूर्योदयः जातः । शिवराजः ईश्वरपूजां क्रुत्वा शिरसि शिरस्त्राणं , शरीरे अयः कवचं धृत्वा, भवानीप्रसादितं खड्गं स्वीकृत्य, हस्तयोः व्याघ्रनखानि धृत्वा भवानीमातरं स्मरन् दुर्गस्य अधोभागे स्थितम् अफजलं मेलितुं प्रस्थितः । समावेशस्थानम् अरण्यमध्ये निश्चितम् । अफजलखानशिबिरतः तत् स्थलं न दृश्यते । शिवराजस्य आगमनं अफजलखानः समावेशस्थानतः दृष्टवान् । यदा शिवराजः प्रविष्टवान् तदा खानः उत्थितवान् । एकक्षणं द्वयो: नेत्रचतुष्टयो: सङ्गम: अभवत् । खानः स्वदीर्घबाहुद्वयं प्रसारितवान् । शिवराजः तस्य बाह्वोः मध्ये गतवान् । खानः शिवराजं हस्तद्वयेन आलिङ्ग्य बद्धवान् । तत् साक्षात् मृत्योः आलिङ्गनम् इव भासते स्म । किन्तु कस्य मृत्युः ? तदैव शिवराजः स्वव्याघ्रनखैः खानस्य उदरम् अच्छिन्त् । तस्य आन्त्राणि बहिरागतानि । खानः प्रतिप्रहरणं कृतवान्, किन्तु तत् प्रहरणं शिवराजस्य शिरस्त्राणेन निरुद्धम् । शिवराजः सपदि उड्डीय स्वखड्गेन खानस्य शिरः कर्तयित्वा भूमौ पातितवान् ।
खङ्गस्योपरि अफजलखानस्य शिरः लम्बयित्वा शिवराजः दुर्गं आरोहति स्म । तत्क्षणे आकाशं मुखरयन् शतध्नीनां नादः आरब्धः । खानस्य सैन्यं मदिरापरवशम् आसीत् । तत्र जायमानां स्थितिं ते न जानन्ति स्म। प्रायः शिवराजं खानः अबध्नात् इत्येव ते चिन्तयन्ति स्म । शिवराजस्य सैन्येन अकस्मात् तेषामुपरि आक्रमणं कृतम् ।तुलजाभवान्याः कृते जातस्य अपमानस्य सम्पूर्णं प्रतीकारं कृतवन्तः सैनिकाः । खानस्य सैन्यं सम्पूर्णतया ध्वस्तम् । पुनः शिवराजमेव विजयलक्ष्मीः वृतवती । शिवराजः स्वमातुः सकाशे एकं पुरस्कारं प्रेषितवान् । तत् किम् ?...अफजलखानस्य शिरः तत् ।
शिवराजस्य कीर्तिः देशे विदेशेषु च व्याप्ता आसीत् । अफजलस्य वधोदन्तं श्रुत्वा सर्वे तं प्रशंसन्ति स्म । बीजपुरसुलतानन्तु दुःखमेघाः आवृण्वन् । एतैः विजयैः शिवराजः न तृप्तः । तप्तम् अयः आवश्यकतानुसारं यथा परिवर्तयामः तथा परितः स्थितानि अनेकानि दुर्गाणि आक्रान्तुं प्रस्थितवान् ।
पङ्क्तिः ३३:
एतादृशसङ्कटस्थितौ जीजाबाई समर्थतया पालनव्यवहारादिकं निर्वहति स्म । यथाकथञ्चित् दुर्गात् बहिः गन्तव्यम् इति शिवराजः प्रणालीं रचयन् आसीत् । किन्तु कथं सम्भवति ? सिद्दीजोहरस्य सैन्यं तु यथाकथञ्चित् परिक्रान्तव्यमेवेति दृढसंकल्पः आसीत् । तदा शिवराजः एकम् उपायम् आलोच्य एकस्य दूतस्य द्वारा सिद्दीजोहराय एकं सन्देशं प्रेषितवान् ।--‘अहं मम पराजयम् अङ्गीकर्तुं सिद्धः अस्मि । यदि भवान् अङ्गीकरोति तर्हि श्वः एव मम दुर्गं भवदधीनं करोमि । कृपया भवान् मम अपराधान् क्षाम्यतु ।’इति
शिवराजः वशीभविष्यतीति वार्तां प्राप्य सिद्दीजोहरस्य सेना तस्यां रात्रौ आनन्दे मग्ना । केवलं तान् वञ्चयितुमेव तत्पत्रं लिखितम् इति ते न ज्ञातवन्तः । तस्यां रात्रौ मेघाः गर्जन्ति स्म । विद्युतः विद्योतन्ते स्म । धारापात इव वृष्टिः भवति स्म । तस्मिन्नेव समये शिवराजः स्वकीयेन अष्टशतसंख्याकेन सेनानिवहेन सह गूढं पन्हालगढतः विशालगढदुर्गं प्रति प्रयातः । सिद्दीजोहरस्य सेनारक्षकाः स्वशिबिरेषु उपविश्य शिवराजः वशीभूत इत्यानन्दे आसन् । तेषां मनसि लेशोऽपि सन्देहः भवति चेत् शिवराजस्य प्रणाली भग्ना भविष्यति । शिवराजः तैः गृहीतो भविष्यति । अतः शिवराजस्य सेना प्रतिपदम् अत्यन्तजागरुकतया पदानि निक्षिपन्ती पुरतो गच्छति स्म । भवानीमातुः कृपाकारणतः शिवराजस्य लघुसेना कस्यापि शत्रोः दृष्टौ न पतिता तस्मात् सेनानिवेशात् बहिरागता च ।
शिवराजेन सह स्थिताः मावलीसैनिकाः स्वमहाराजं शिबिकायाम् उपवेश्य वहन्तः सवेगं धावन्ति स्म । तदा एका विद्युत् लसिता। सर्वोपि प्रदेशः कान्तिमान् जातः । तस्मिन् प्रकाशे सिद्दीजोहरस्य गूढचरः कश्चन धावतः सैनिकान् अपश्यत् । तत्क्षणं धावन् सिद्दीजोहरं प्राप्य 'शिवराजः पलायितवान्" इति वार्ताम् अश्रावयत् । वार्ताश्रवणेन सिद्दीजोहरस्य शिरसि वज्राघात जात: इव । तथापि सः न भीतः । स्वस्य जामातरं सिद्दीमसूदम् अधिकसंख्याकेन आश्विकदलेन सह प्रेषयन् वेगेन शिवराजम् अनुधाव्य बन्धुम् आदिशत् । तेभ्यः पलायनं कष्टमिति शिवराजः ज्ञातवान् । एकम् उपायम् अचिन्तयत् । तत्क्षणं शिबिकां परिवर्तितवान् । सा शिबिका अन्यमार्गेण गता । शिवराजस्य सेनायां शिवराजसदृशः अन्य कश्च्न सैनिकः आसीत् । सः शिवराजस्य वेषं धृत्वा प्रथमशिबिकायाम् आसीनः अभवत् । सिद्दीमसूदः तां शिबिकां, तां सेनां च बद्धवा सिद्दिजोहरस्य समीपम् अनयत् । किन्तु तत्र ज्ञातं यत् तस्य सैनिकस्य नाम् शिवराज एव , किन्तु सः प्रतापदुर्गनिवासी कश्चन क्षौरिक: इति । तत् श्रुत्वा सिद्दीजोहरस्य सेना लज्जया विवर्णा जाता ।
क्रोधावेशैः सिद्दीमसूदः पुनः शिवराजम् अन्वधावत् । तदैव शिवराजः स्वसैनया सह पञ्चविंशतिमीलदूरं गतवान् । गाजापुर -उपत्यकां प्राप्तवान् च । ततः किञ्चिद् दूरे एव विशालदुर्गम् आसीत् । सिद्दीमसूदः दन्तान् घट्टयन पञ्चसहस्रसङ्खाकैः सैनिकैः सह तान् अन्वगच्छत् । शिवराजस्य सेनायां बाजीप्रभुदेशपाण्डे इति पराक्रमी सेनानी आसीत् । सः भीमसदृश-बलशाली । सः शिवराजं प्रार्थितवान् -‘महाराज ! भवान सेनार्धेन सह विशालगढं सुरक्षितं प्राप्नोतु । शिष्टेन सेनार्धेन अस्मिन् प्रदेशे अहं शत्रुसेनां निरुणध्मि । एकं पदमपि ते पुरतः यथा नागच्छेयुः तथा करोमि’ इति । हस्तद्वयेन खङ्ग्द्वयं स्वीकृत्य स्थितस्य बाजीप्रभोः रणावेशः दर्शनीयः आसीत् ।
सागरोर्मिवत् पततः आदिलशाहस्य सैनिकान् बाजीप्रभुः गृञ्जनकानीव कर्तयति स्म । घोरः सङ्ग्रामः जातः तस्य ग्रात्रं सर्वमपि व्रणैः रक्तसिक्तम् अभवत् । स्वव्रणान् अगणयित्वा सायं पर्यन्तं सः युद्ध्यन्नेव आसीत् । बाजीप्रभुसैनिकाः बहवः मृताः । अन्ते बाजीप्रभोः प्राणोत्क्रमणं यथा भवेत् तथा शत्रुः कश्चन खड्गेन मारितवान् । बाजीप्रभुः खड्गप्रहारपीडया मृत्युवेदनाम् अनुभवन्न्पि मृत्युं प्रार्थितवान् -‘हे मृत्यो ! मम कर्तव्यसमाप्तिपर्यन्तं किञ्चित् तिष्ठतु ।’ इति । तदा एव विशालदुर्गतः पञ्चवारं शतध्नीनां शब्देन सूचना श्रुता । तस्यार्थः शिवराजः सुरक्षितं विशालदुर्गं प्राप्तवानिति । बाजीप्रभुः अत्यानन्दम् अनुभूतवान् । खड्गं त्यक्त्वा दिवङ्गतः । तस्य मुखे कर्तव्यसमापनतृप्तिः दृश्यते स्म । आत्मार्पणं कृतवतां तेषां वीराणां बलिदानेन सः प्रदेशः पवित्रः जातः । तदारभ्य जनाः तं प्रदेशं पवित्रस्थानम् इति वदन्ति ।
पङ्क्तिः ४६:
सह्याद्रिगिरिशिखरेषु स्वेच्छया विहरन् मृगराजः शिवराजः किमर्थम् एवं हठात् चक्रवर्तिनः वशीभूतः ? इति सर्वे आश्चर्यचकिताः जाताः ।अग्रे कोऽपि गूढार्थः भवतीति सर्वे भावयन्ति स्म । सेवां करोमीति व्याजेन गत्वा औरंगजेबं ह्न्यात् इत्यपि चिन्तयन्ति स्म केचन । एतेन शिवराजस्य धैर्यसाहसादिविषये, समयस्फूर्तिविषये, समयं दृष्ट्वा शत्रुनाशनाय युक्तिप्रयोगविषये च जनाः कथं विश्वासं प्राप्तवन्त: आसन्निति अस्माभिः ज्ञायते । चिन्तनानुसारं शिवराजः स्वपुत्रेण सम्भाजिराजेन सह औरङ्गजेबेन मेलितुं प्रस्थितः । राजकुटुम्बिनः, पौराः च किं भविष्यति इति उत्कण्ठया आसन् । मार्गमध्ये अनेके हिन्दवः सादरं स्वागतं कृतवन्तः । शिवराजः आगरां प्राप्तवान् । तस्य कुटिलोपायविषये औरङ्गजेबः अपि अल्पचिन्तनं न कृतवान् । अत एव शिवराजं कदापि स्वसमीपमागन्तुं नाङ्गीकृतवान् । राजसभायामपि शिवराजस्य स्थानं दूरे एव अस्थापयत् । एतेन शिवराजः स्वचिन्तनाग्नौ दैवेन शीतोदकं सिञ्चितमिति भावितवान् । 'शिवराजं सगौरवं पश्यामि इति’ जयसिंहाय वचनं द्त्तवान् औरङ्गजेबः स्ववचोव्याघातं कुर्वन् शिवराजम् अपमानितवान् । शिवराजः परं क्रोधाग्निना ज्वलितः । औरङ्ग्जेबस्य यथा अपमाननं भवेत् तथा राजसभां त्यक्त्वा गतवान् ।
किन्तु शिवराजः महत्याम् आपदि पतितवान् । हस्तगतं शत्रुं त्यक्तुं मूर्खः न चक्रवर्ती । शिवराजं बद्धवा तस्य शिरश्छेदं कर्तुम् आज्ञप्तवान् ।
एतादृशस्थितावपि शिवराजः स्वधैर्यं न त्यक्तवान् । विपदि स्थितौ शिवराजस्य बुद्धिः, धैर्यं च वेगेन कार्यं करोति स्म । हठात् शिवराजः रुग्णः । तस्य स्वास्थ्यं दिने दिने क्षीयमाणम् अभवत् । 'स्वेन सहागताः महाराष्ट्रसैनिकाः प्रतिगन्तुम् अनुमन्यन्ताम्’ इति सः औरङ्गजेबं प्रार्थितवान् । चक्रवर्ती अनुमतवान् । स्वस्थ्यप्राप्तये साधुभ्यः, सन्यासिभ्यः च मधुरवितरणमारब्धवान् । नगराधिकारिभ्यः अनेकपुरस्कृतीः प्रेषयति स्म । एतेभ्यः सर्वेभ्यः औरङ्गजेबस्य अनुमतिः लब्धा । औरङ्गजेबसदृशस्याऽपि सन्देहः ईषदपि न जातः । मरणदण्डनाय निर्णीतं दिनम् आगतम् । पूर्वदिने शिवराजस्य अस्वास्थ्यम् इतोऽपि प्रवृद्धम् । तस्य शरीरस्मृतिरपि नासीत् । प्रतिदिनम् इव मधुराणां करण्डा: अन्तः आगता: । तावत्पर्यन्तं स्मृतिरहितः शिवराजः हठात् उत्थाय मधुराणां करण्डे उपविष्टवान् , स्वपुत्रं सम्भाजिराजमपि उपवेशितवान् । सेवकाः तत्क्षणं मधुराणां करण्डं शरावेगेण बद्धवा बहिः अनयन् ।
यथापूर्वं मधुराणां करण्डा एव गच्छन्तीति रक्षकभटाः चिन्तितवन्तः तेषां नायकः फौलादखानः कांश्चन् करण्डान् परीक्षितवान् च । तत्र केवलं मधुराण्येव आसन् । दैववशात शिवराज;, सम्भाजिराज:च यत्र आस्ताम् तत्र तस्य हस्तः न आगत: । भवानीमातु: कृपा, शिवराजस्य युक्तिः, फौलादखानस्य गर्वं इति सर्वम् अनुकूलितम् । भगवतः आशयः शिवराजः सजीवो भवेदिति । फौलादखानः? 'त्यजतु’ इत्याज्ञप्तवान् ।
कारावासे शिवराजस्य शय्यायां तस्य मित्रं हीरोजि: शिवराजवत् सुप्तः । शरीरं सर्वं राङ्कवेनाच्छाद्य शिवराजस्य राजमुद्रिकासहितं हस्तं बहिः दृश्यमानं कृत्वा सः निद्राम् अभिनयति स्म अमायक इव मदारिमेहतरनामक: बालकः तस्य पादौ संवहति स्म । फौलादखानः मध्ये मध्ये अन्तः चक्षुः प्रसार्य शिवराजस्य अनामयं पृष्ट्वा गच्छति स्म । द्वितीयदिने सायङ्काले हीरोजि: उत्थितः । प्रायः चतुर्विंशतिघण्टापर्यन्तं सः निद्रितवान् । शय्यायां शय्यावस्त्राणि निद्रायमाणमानववत् विरचय्य स्वस्य साधारणवस्त्राणि धृत्वा शनैः बहिरागत्य हस्तद्वयं मुकुलीकृत्य रक्षकभटान् उदिदश्य "शनैः भाषणं कुर्वन्तु । महाराजस्य अस्वास्थ्यं तीव्रम् अस्ति । इदमिदानीं निद्रां प्राप्तवान् सः । अहम् औषधमानेतुं गच्छन्नस्मि ।" इति उक्तवा हीरोजि: अपि बहिरागतवान् । किञ्चित्कालानन्तरं एवमेव वञ्चयित्वा मदारिः अपि पलायितः । शय्यायां शिवराजः निद्रायमाण एव दृश्यते । बहिः रक्षकभटाः खड्गधारिणः सन्तः दृढं रक्षन्त्येव ।
"https://sa.wikipedia.org/wiki/छत्रपति_शिवाजी" इत्यस्माद् प्रतिप्राप्तम्