"दत्तात्रेय रामचन्द्र बेन्द्रे" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः ३३:
==बेन्द्रेवर्यस्य काव्यवस्तु==
यद्यपि कुणियोण बारा(क्रीडामः तावत्).( ಕುಣೀಯೋಣು ಬಾರಾ) 'मनदन्ने(प्रेमिका)’( ಮನದನ್ನೆ) 'नी हीङ्ग नोड ब्याड नन्न' (ನೀ ಹೀಂಗ ನೋಡಬ್ಯಾಡ ನನ್ನ) (भवती माम् एवं न पश्यतु) कवितानां मूलभावः बेन्द्रेवर्यस्य एव तथापि सामान्यजीवनस्य अविभाज्य-अङ्गभूताः घटनाः एव तत्र प्रतिबिम्बिताः दृश्यते। 'पुट्ट विधवे’ (ಪುಟ್ಟ ವಿಧವೆ)(विधवा बाला), 'हेणद हिन्दे’(ಹೆಣದ ಹಿಂದೆ) (शवस्य पृष्ठभूमिका), अन्नावतारः( ಅನ್ನಾವತಾರ) एतादृशीषु कवितासु हृदयवेदकता अनुभवगोचरा भवति। एतासु कवितासु कवेः सुख-दुःखे, दम्पत्यजीवनस्य सरस-विरसभावौ, सांसारिकक्लेशाः एव काव्यवस्तु भवति। 'जोगी’ कवने तु जीवनस्य काळरात्रेः आविर्भावः वर्णितः अस्ति।
बेन्द्रेमहोदयः कतिचन साङ्केतिकानि असङ्गतानि नाटकानि लिखितवान्। 'सायो आट'(मरणक्रीडा), देव्वद मने(भूतगृहम्), होस संसार(नूतनः संसारः), जात्रे(महाविपणिः) , 'नगेय होगे (हासस्य धूमः) तथा उद्धारः दुरन्तनाटकस्य रूपलक्षणोपेतानि सन्ति। नगेय होगे नाटके यद्यपि हास्यरसः अस्ति तथापि सः करुणरसात् अवरः अस्ति। अत्रत्यः बहिष्कारस्य दुरन्तः वैयक्तिकः। उद्धारनाटके समाजस्य विभिन्नवर्गीयाणां मध्ये प्रचलन् सङ्घर्षः नाटकस्य क्रियायै विशेषां शक्तिं पूरयति।
==इतरभाषासु कृतिरचना==
बेन्द्रेवर्यस्य लेखनशक्तिः कन्नडभाषायाः कृते केवलं सीमिता नासीत्। मराठीभाषया अपि कृतीः रचितवान्। तस्य 'संवाद’नामिकायै माराठीकृत्यै केळकरपारितोषिकं प्राप्तम् अस्ति। आङ्ग्लतः अनूदिते अरविन्दस्य 'भारतीयपुनर्जन्म' तथा रानडेवर्यस्य 'उपनिषद्रहस्यम्’ इत्येतौ अमूल्यग्रन्थौ।
"https://sa.wikipedia.org/wiki/दत्तात्रेय_रामचन्द्र_बेन्द्रे" इत्यस्माद् प्रतिप्राप्तम्