"गेरुसोप्पजलपातः" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) clean up, replaced: , → , using AWB |
|||
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
जोगजलपातः(गेरुसोप्पजलपातः) कर्णाटकराज्यस्य शिवमोग्गामण्डलस्य उत्तरकन्नडमण्डलस्य च सीमायाम् अस्ति| प्रादेशिकभाषया जोग इति पदस्य अर्थः एव जलपातः इति । गेरुसोप्पे जलपातः इत्यपि अस्य नाम । जगति प्रसिद्धेषु जलपातेषु अस्य नाम अपि अस्ति । एषः उत्तरकन्नडशिवमोग्गमण्डलयोः सीमाप्रदेशे शरावततीनद्याः पातः । जोगजलपातः भारतस्य अत्युन्नतः जलपातः इति ख्यातः । जलपातस्य दीर्घता २९२मी. अस्ति । अत्र नदी शारावती राजा,घोषः, वनिता, बाणः इति चतसृषु शाखासु विभक्ता अधः पतति । राजधानी बेङ्गळूरुतः ४०० कि.मी.दूरे गेरुसोप्पे प्रदेशः अस्ति । शिवमोग्गमण्डलस्य सागरपत्तनतः दोड्डमने मार्गे ३०कि.मी. दूरं गच्छति चेत् जोगजलपातः लभ्यते । उत्तरकन्नडमण्डलस्य होन्नावरतः अपि गन्तुं शक्यते । ततः ६०कि.मी.दूरं भवति । बेङ्गळूरुतः सागरपर्यन्तं बस् यानेन गत्वा ततः भाटकयानेन गमनं सुकरम् । रेल् यानप्रवासः आवश्यकः चेत् शिवमोग्गा अथवा ताळगुप्प रेल् निस्थानके समीपे भवतः । वासभोजनादिव्यवस्थाः सागरपत्तने एव भवन्ति । स्वकीययानेनापि बेङ्गलूरुतः गच्छति चेत् दिनद्वयस्य प्रवासः भवति ।यतः समीपे एव लिङ्गनमक्किजलबन्धः, गेरुसोप्पे जलविद्युत्स्थावरः, होसनगर श्रीरामचन्द्रापुरम्, मुर्डेश्वरः, इडगुञ्जी, केळदी, मण्डगद्दे पक्षिधाम
[[वर्गः:कर्णाटकस्य जलपाताः]]
|