"बाल गङ्गाधर तिलक" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १८:
 
==वैयक्तिकजीवनम्==
बालगङ्गाधरतिलकस्य जन्म क्रि.श.१८५६तमे वर्षे जुलै २३तमे दिने भारतस्य महाराष्ट्रराज्ये रत्नगिरिमण्डले मध्यमस्तरीये कुटुम्बे अभवत् <ref>{{cite web | url=http://ratnagiri.nic.in/Tourism/emi_person.aspx | title="EMINENT PERSONALITIES". | accessdate=13 मार्च 2014}}</ref>। पिता गङ्गाधरपन्तः, माता पार्वतीबायी । बाल्ये एव बुद्धिमतः तिलकस्य गणिते अतीव आसक्तिः आसीत् । बालः दशवर्षीयः यदा आसीत् तदा पितुः पुणेनगरं प्रति स्थानपरिवर्तनं जातम् । बालः वेर्नाक्युलर् आङ्ग्लविद्यालयं प्राविशत् । पुणेगमनानन्तरं स्वल्पावधौ एव माता दिवङ्गता । ततः षड्वर्षाणाम् अनन्तरं पिता अपि दिवङ्गतः । दुर्बलशरीरः बालः देशसेवा समीचीनतया करणीया चेत् शरीरं दृढतमं स्यात् इति विचिन्त्य व्यायामादीनाम् अभ्यासद्वारा परिश्रमपूर्वकं दृढं शरीरं सम्पादितवान् । सत्यभामा अस्य पत्नी । महाविद्यालयात् आधुनिकविद्यां प्राप्तेषु युवसु बालगङ्गाधरः अपि अन्यतमः अभवत् । पदवीं प्राप्य पुणे ([[पुण्यपत्तनम्]]) नगरे स्वायत्तशालायां गणिताध्यापकत्वेन कार्यम् आरब्धवान् । कञ्चित्कालानन्तरं तम् उद्योगं त्यक्त्वा पत्रकारः अभवत् । पाश्चिमात्यशिक्षाक्रमः भारतीयसनातनपरम्परां दूषयति अपि च भारतस्य विद्यार्थिषु हीनभावं जागर्ति इति निश्चित्य अस्य आधुनिकशिक्षाप्रणाल्याः विरोधम् अकरोत् । छात्राणां कृते उत्तमा शिक्षा लभेत इति उद्देशेन [[पुण्यपुरम्|पुण्यपुरे]] (पुणेनगरे) डेक्कन् एजुकेषन् सोसैटि इति शालाम् उपाक्रमत् ।
 
==राजकीयजीवनम्==
तिलकमहोदयेन उपक्रान्तः [[केसरी]] इति [[मराठीभाषा|मराठीभाषायाः]] [[वार्तापत्रिका]] अतिशीघ्रं प्रसिद्धा अभवत् । अस्यां पत्रिकायां जनाः स्वाभिप्रायान् प्रकटयितुम् अर्हन्ति स्म । क्रि.श. १९०५तमे वर्षे [[बङ्गालराज्यम्|बङ्गालस्य]] विभजनस्य विरोधं केसरीपत्रिका प्रबलतया अकरोत् । क्रि.श.१८९०तमे वर्षे तिलकमहोदयः काङ्ग्रेस् पक्षं प्रविष्टवान्, स्वातन्त्र्यान्दोलने तस्य पक्षस्य औदार्यं मृदुनीतिं च खण्डितवान् । [[गोपाकृष्ण गोखले]]महोदयस्य सौम्यवादं तीव्रतया निन्दितवान् । अस्मिन् विषये [[बङ्गालराज्यम्|बङ्गालस्य]] [[बिपिन चन्द्रपालः]] [[पञ्जाबराज्यम्|पञ्जाबस्य]] [[लाला लजपत राय्]] च तिलकमहोदयस्य अनुमोदनं कृतवन्तौ । क्रि.श. १९०७तमे वर्षे सम्भूते सूरत् अधिवेशने काङ्ग्रेस्-पक्षः तिलकस्य नेतृत्वे घर्मदलः इति गोखलेवर्यस्य नेतृत्ते मृदुदलः इति द्विधा विभक्तः । राजद्रोहस्य आक्षेपात् क्रि.श.१९०६तमे वर्षे तिलकस्य बन्धनम् अभवत् । तदा स्वपक्षे न्यायवादं करोतु इति युवानं न्यायवादिनं [[मोहम्मद् अलि जिन्ना]] इत्येतं प्रार्थितवान् । किन्तु ब्रिटिश् न्यायाधीशः एषः अपराधी इति उद्घुष्टवान् । अतः सः क्रि.श.१९०८तः१९१४तमवर्षपर्यन्तं बर्मादेशस्य ([[ब्रह्मदेशः]]) मडाले कारावासम् अनुभूतवान् । विमोचनानन्तरं स्वस्य सहचरराष्ट्रवादिभिः सह तिलकमहोदयः क्रि.श.१९१६तमे वर्षे काङ्ग्रेस्-पक्षस्य सङ्घाटनं संवर्ध्य अखिलभारतस्य हों रूल् लीग् इति सङ्घटनस्य रचानायाम् अनिबेसण्ट् मोहम्मद् अलि जिन्ना एतयोः सहाय्यं समाचरत् ।
"https://sa.wikipedia.org/wiki/बाल_गङ्गाधर_तिलक" इत्यस्माद् प्रतिप्राप्तम्