"वैश्विकस्थितिसूचकपद्धतिः" इत्यस्य संस्करणे भेदः

No edit summary
(edited with ProveIt)
पङ्क्तिः १०:
==वैश्विकस्थितिसूचकस्य मूलसिद्धान्ताः==
[[चित्रम्:Good gdop.png|150px|right|thumb| उपग्रहाणां द्वारा सङ्केतसङ्ग्रहणम्]]
वैश्विकस्थितिसूचकव्यवस्थायाः प्रतिग्राहियन्त्राणि उपग्रहैः प्रसार्यमाणाः सङ्केतान् गृह्णन्ति । एताः सङ्केताः उपग्रहात् प्रतिग्राहियन्त्राणि प्राप्तुं कियान् कालः स्वीकृतः इत्येतस्याः गणनायाः आधारेण स्वीयं स्थानम् ऊहन्ते । सङ्केताः विद्युन्मानतरङ्गरूपेण विद्यन्ते । एतेषां तरङ्गाणां वेगः पूर्वज्ञातः विद्यते इत्यतः गणना भवति निर्दुष्टा । त्रिषु आयामेषु स्वस्य स्थानं निर्णेतुं त्रिभिः उपग्रहैः प्रसारितान् सङ्केतान् अपि च तस्य निर्णयस्य निर्दुष्टतायै अपेक्षितायाः समकालीनतायाः (Time Synchronisation) प्राप्त्यै च चतुर्थोपग्रहस्य सङ्केतान् उपयुङ्क्ते । त्रिभिः उपग्रहैः प्राप्तान् सङ्केतान् उपयुज्य क्रियमाणः स्थाननिर्णयः '''त्रिकोणीकरणम्''' (Triangulation)<ref>{{cite web | url=http://searchnetworking.techtarget.com/definition/triangulation | title=त्रिकोणीकरणम् | accessdate=3 अप्रैल 2014}}</ref> इति कुत्रचित् उल्लिख्यते चेदपि तस्य निर्देशाय '''<ref>{{cite web | url={{dmoz|Sciencehttp:/Earth_Sciences/Geologywww.mio.com/Volcanoes|Volcanoes}}technology-trilateration.htm | title=त्रिपार्श्वीकरणम् | accessdatepublisher=3 अप्रैलMio 2014Global}}</ref>''' (Trilateration) इत्येषः शब्दः एव समीचीनः इति तत्तज्ञानाम् अभिप्रायः ।
==वैश्विकस्थितिसूचकव्यवस्था==
इयं वैश्विकस्थितिसूचकव्यवस्था त्रिसृभिः उपव्यवस्थाभिः युक्ता वर्तते -
पङ्क्तिः २६:
# चत्वारि समर्थानि भूतलविद्युद्ग्राहकानि
# षट् समर्थानि आवेक्षकस्थानानि
प्रधाननिग्रहणकेन्द्रेण अमेरिकावायुसेनायाः उपग्रहनियन्त्रणजालस्य (AFSCN) राष्ट्रिय-जियोस्पेशियल्-इन्टेलिजेन्स्-एजेन्सि-सम्बद्धस्य आवेक्षणकेन्द्राणां च सम्पर्कः विद्यते । हवायि, क्वाजलेन् अटोल्, असेन्शन् ऐलेण्ड्, डिगो गार्सिय, कोलरडो स्प्रिङ्ग्स्, कोलरेडो अण्ड् केप् केनवरेल् इत्येतेषु विद्यमानैः अमेरिकावायुसेनावेक्षणकेन्द्रैः उपग्रहाणां सञ्चारमार्गाः आवेक्ष्यन्ते । एतैः सह इङ्ग्लेण्ड्, अर्जेण्टैन, एकुडेर्, बह्रैन्, अस्ट्रेलिया, वाशिङ्ग्टन् डि सि इत्येतेषु केन्द्रेषु विद्यमानानि आवेक्षणकेन्द्राणि सहकुर्वन्ति ।<ref>{{cite web | url=http://igs.bkg.bund.de/root_ftp/IGS/mail/igsmail/year2005/5209 | title=जि पि एस् वार्ता | date=9.9.2005 | accessdate=3 अप्रैल 2014}}</ref> २०११ तमस्य वर्षस्य सेप्टेम्बर्मासस्य १४ दिनाङ्के अमेरिकावायुसेनया घोषितं यत् वैश्विकस्थितिसूचकव्यवस्थायाः ओसिएक्स् प्राथमिकप्रारूपावलोकनं सम्पन्नम्, ओसिएक्स् तन्त्रांशः अग्रिमवर्धनाय सिद्धं विद्यते इति । २०१४ तमे वर्षे मेमासे आरप्स्यमाणायाः ’जिपिएस् ऐऐए’ कार्यस्य अनुमोदनाय सिद्धं विद्यते ओसिएक्स् तन्त्रांशः इत्येषः महत्त्वपूर्णः अंशः विद्यते ।
===ग्राहकोपव्यवस्था===
वैश्विकस्थितिसूचकव्यवस्थायाः ग्राहकयन्त्रं ग्राहकोपव्यवस्था इति निर्दिश्यते । एतानि विविधैः विन्यासैः उपलभ्यन्ते । हस्तघटीषु अपि इदं योज्यते ।
पङ्क्तिः ५६:
वैश्विकस्थितिसूचकव्यवस्था सैनिकानाम् उपयोगाय आदौ संरचिता । ततः नागरिकाणाम् उपयोगाय च व्यवस्था परिकल्पिता ।
===सैनिकोपयोगाः===
क्षिपणीनां मार्गनिर्देशनाय इयं व्यवस्था उपयुज्यते । युद्धभूमौ सैनिकाः स्वीयं स्थानम् अवगन्तुं नियन्त्रणकेन्द्रेभ्यः स्वीयस्थानस्य ज्ञापनाय च इयम् उपयुज्यते । वैश्विकोपग्रहेषु परमाणुस्फोटव्यवस्था (United States Nuclear Detonation Detection System) विद्यते ।<ref>{{cite web | url=http://www.osti.gov/bridge/servlets/purl/10176800-S2tU7w/native/10176800.pdf | title=परमाणुस्फोटाविष्कारः | publisher=Sandia National Laboratories | accessdate=3 अप्रैल 2014 | author=Dr. Dennis D. McCrady}}</ref> परमाणुपरीक्षायाः निषेधपत्रस्य अङ्गीकरणानुरोधाय अमेरिकासर्वकारेण अस्याः व्यवस्थायाः उपयोगः क्रियते ।
===नागरिकोपयोगाः===
वैश्विकस्थितिसूचकव्यवस्थया प्राप्यमाणस्य स्थान-चलन(वेग)-समयादयः प्रायशः सर्वासु व्यवस्थासु उपयुज्यन्ते । ए टि एम् यन्त्रव्यवस्था, दिक्सूचिव्यवस्था, भूखण्डचलनम् इत्यादिषु उपयुज्यते । सि डि एम् ए चरदूरवाणितन्त्रज्ञानेषु समानसमयस्य प्राप्त्यै अस्याः उपयोगः क्रियते । पाश्चात्यदेशेषु समरेखायां कर्षणाय अपि क्षेत्रेषु अस्याः व्यवस्थायाः उपयोगः क्रियते । अस्याः उपयोगः अपरिमितः विद्यते ।
"https://sa.wikipedia.org/wiki/वैश्विकस्थितिसूचकपद्धतिः" इत्यस्माद् प्रतिप्राप्तम्