"अक्कमहादेवी" इत्यस्य संस्करणे भेदः

भाषापरिष्कारः
No edit summary
पङ्क्तिः १:
[[File:Akkamahadevi Udathadi1.JPG|250px|thumb|right|जन्मस्थले उडुतडीग्रामे प्रतिष्ठापिता अक्कमहादेव्याः मूर्तिः]]
{{हिन्दुधर्मः}}
[[File:Akkamahadevi Vachana.JPG|250px|thumb|right|अक्कमहादेव्या रचितं किञ्चन प्रसिद्धं वचनम्]]
 
==जन्म बाल्यं च==
[[कर्णाटक]]स्य वीरशैवजङ्गमभक्ताः शरणाः इति कथ्यन्ते । तादृशेषु शिवशरणेषु सती महादेवी एव अक्कमहदेवी इति प्रसिद्धा । द्वादशे शतके निर्मलशेट्टीसुमत्योः पुत्री, कर्णाटकराज्यस्य [[बनवासी]]प्रदेशस्य बळ्ळीगावे समीपस्थे '''उडुतडी'''ग्रामे जन्म प्राप्तवती । महादेव्याः मातापितरौ जैनमतावलम्बिनौ अनन्तरं शिवशरणौ जातौ आस्ताम् । एतयोः अपत्यानि न आसन्, मरुळसिद्धेश्वरशरणस्य अनुग्रहेण एका शिशुः जाता । तस्याः नाम एव '''महादेवी'''। मरुळसिद्धेश्वरशरणस्य कृपाकटाक्षतः एतस्याः कुटुम्बीयाः श्रीशैलचेन्नमल्लिकार्जुनस्य भक्ताः अभवन् । महादेव्याः विषये अधिकाः विषयाः न प्राप्ताः चेदपि मरुळसिद्धेश्वरशरणस्य प्रभावतः लिङगपूजायाम् आसक्तिः उत्पन्ना इति ज्ञायते । किन्तु गुरुलिङगदेवः इति कश्चित् शरणः काले काले गुरुस्थाने स्थित्वा मार्गदर्शनं कृतवान् ।
Line ७ ⟶ ९:
रतिस्वरूपिणी महादेवी स्वव्यक्तित्वेन बहूनां जनानां मार्गदर्शिका, प्रतिवेशिनीनां कृते ज्येष्ठा अग्रजा (कन्नडभाषया अक्क=अग्रजा) इव आसीत्।
==सांसारिकजीवनम्==
[[File:Akka Maha Devi Room at Udugani.JPG|thumb|उडुतड्याम् अक्कमहादेव्याः निवासः]]
 
जैनमतावलम्बी कौशिकः तस्य प्रान्तस्य राजा आसीत् । रतिस्वरूपिणीं सौन्दर्यवतीं महादेवीं दृष्ट्वा तस्मिन् मोहः उत्पन्नः । कौशिकमहाराजस्य मनसि सा परिणेतव्या इति इच्छा उत्पन्ना । एतां वार्तां महादेव्याः मातापितरौ ज्ञातवन्तौ । जिनधर्मीयौ तौ एतं प्रस्तावं न अङ्गीकृतवन्तौ । किन्तु कौशिकमहाराजः तस्याः पितरौ बलात् कारागृहे स्थापितवान्। इदानीं वा पुत्री मम इच्छाम् अनुमन्येत इति तस्य चिन्तनम् आसीत् । राजाज्ञायाः विरुद्धं व्यवहारः कष्टकरः इति विचिन्त्य सा एकम् उपायं विचिन्त्य विवाहार्थम् अङ्गीकृतवती । तदनुगुणं परिस्थितिः निर्मिता । राज्ञा अपि केचन नियमाः अङ्गीकरणीयाः अभवन् । प्रथमं, कौशिकमहाराजेन जिनमतं त्यक्त्वा वीरशौवमतं अङ्गीकरणीयं द्वितीयं महादेव्या क्रियमाणायां गुरुलिङ्गजङ्गमानां सेवायां विघ्नः न आचरणीयः इत । यदा राजा शिवाराधकः भवति तदा एव महादेव्याः स्पर्शः इति तृतीयः नियमः आसीत् । राज्ञा यदि वचनभङ्गः क्रियेते तर्हि विरागिणी भूत्वा प्रासादं त्यजेयम् इत्यपि महादेवी सूचितवती आसीत् ।
विवाहः सम्पन्नः । राजगृहे कापि न्यूनता न आसीत् । महाराजस्य अन्तरङ्गे बहु आनन्दः जातः । किन्तु लिङ्गपूजकः भवेत्, अन्यथा महादेव्याः अङ्गस्पर्शः असम्भवः आसीत् । महाराजस्य वीरशैवधर्मंस्य आचरणे इच्छा न भवति स्म । अग्रे कदाचित् महादेव्या सह संसारस्य सुखम् अनुभवेयम् इति सः चिन्तितवान् । महादेवी कठिनव्रतधारिणी भूत्वा महाराजस्य चिन्तनानि नाशितवती । संसारिकजीवने तस्याः आसक्तिः न आसीत् । पत्न्याः व्यवहारान् दृष्ट्वा राजा कौशिकः अङ्गसुखाय तस्याः अनुरोधं कृतवान् । एतेन महादेवी रणचण्डी जाता ।
Line २२ ⟶ २६:
[[वर्गः:आधुनिकगुरवः]]
[[वर्गः:शैवमतप्रचारकाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/अक्कमहादेवी" इत्यस्माद् प्रतिप्राप्तम्