"चन्द्रशेखर आजाद" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
[[चित्रम्:Chandrashekharji.jpg|thumb|right|200px|]]
==जननम् बाल्यम् च==
चन्द्रशेखरआजादः [[भारतम्|भारतदेशस्य]] स्वातन्त्र्यसम्पादनार्थम् आङ्गलशासनविरुद्धम् आन्दोलनं कृतवान् । स्वातन्त्र्यं मे जीवितम् इति सः अमन्यत । अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव [[आत्मा|आत्मानं]] मारितवान् क्रान्तिवीरः । चन्द्रशेखरः [[मध्यप्रदेशराज्यम्|मध्यप्रदेशे]] भावराग्रामे षडधिकनवदशशततमे (१९०६) क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । माता गजराणीदेवीजगराणीदेवी । बाल्ये एव चन्द्रशेखरः [[संस्कृतम्|संस्कृतभाषामभ्यसितुं]] [[काशी|वाराणसीं]] गत्वा तत्र अध्ययनम् आरभत ।आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः चन्द्रशेखरः भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छतउन्मूलयितुमैच्छत् । तदानीं [[मोहनदास करमचन्द गान्धी|महात्मागान्धीमहाभागः]] [[लालालजपत रायः|लाललजपतरायः]], [[मदनमोहन मालवीयः|मदनमोहनमालवीयः]] इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् ।
 
==असहकारान्दोलनम्==
पङ्क्तिः १२:
:न्यायाधीशः - किं वासस्थानम् ?
:चन्द्रशेखरः -कारागृहम् ।
बालकेन दत्तमेवंविधं वीरोचितम् उत्तरं श्रुत्वा तत्रत्याः सर्वे जनाः तमभ्यनन्दयन् । आजाद् इत्येव तमाह्वयन् । ततः प्रभृति चन्द्रशेखर- 'आजाद' इत्येव सः प्रथितः । वस्तुतः आजाद् इत्यस्य हिन्दीभाषायां स्वातन्त्र्यमित्यर्थः । एतादृशेन उत्तरेण क्रुद्धो न्यायाधीशः आजादस्य वेत्रताडनदण्डनम् आदिशतआदिशत् । आजादस्तु प्रतिताडनं महान्तं क्लेशमनुभवन् अपि 'वन्दे मातरं’, 'जयतु गान्धीमहोदयः’ इत्यादि उद्घोषणं नात्यजतनात्यजत् । तदारभ्य सः स्वातन्त्र्यान्दोलने प्रधानं भागं वहन्नेव अभ्यवर्धत ।
==स्वातन्त्र्यान्दोलनम्==
एकदा आङ्ग्लशासनविरुद्धं भित्तिपत्रस्थापनं सर्वत्र प्राचलत् । स्वातन्त्र्यान्दोलने प्रविष्टाः सर्वे सदस्याः अन्यान्यस्थानेषु भित्तिपत्रस्थापने व्यापृताव्यापृताः । चतुरः आजादस्तु आरक्षकस्थानेऽपि तत्स्थापयितुम् ऐच्छत् । एकं भित्तिपत्रं स्वीकृत्य उभयतः निर्यासलेपं कृत्वा पृष्ठे धृत्वा आरक्षकस्थानमगच्छत् । तत्र स्तम्भसमीपे स्थित्वा केनचिदारक्षकपुरुषेण कुशलवार्तालापं कुर्वन्नेव तदविदितं, स्तम्भे पृष्ठं निपीडय भित्तिपत्रं तत्र लग्नमकरोत् । ततः संलापांसंलापं परिसमापितवान् इव आरक्षकम् आमन्त्र्य क्वापि अगच्छत् । पथिकजनाः आरक्षकस्थानेऽपि भित्तिपत्रं पश्यन्तः विस्मिताः अभवन् ।
==भारतीयगणराज्यसेनाप्रवेशः==
[[File:The tree at whose platform Azad shot himself.jpg|thumb|इलाहाबादस्य आज़ाद-उद्यानवने अस्य वृक्षस्य अधः एव ब्रिटिश्जनैः युद्ध्यमानः वीरगतिं प्राप्नोत्]]
आजादः षोडशे वयसि [[रामप्रसाद बिस्मिल|रामप्रसादबिस्मिल्लेन]] आयोजितां [[गणराज्योत्सवः|भारतीयगणराज्यसेनाम्]] आविशत् । तस्यां सेनायां क्रान्तिकारिषु आन्दोलनेषु निपुणं शिक्षितोऽभवत् । एकदा गणराज्यसेनासदस्याः सर्वे सेनाकार्यार्थं धनं सङ्ग्रहीतुकामाः सर्वाकारीयवित्त्वकोशमेव अपहर्तुं प्रवृत्ताः । तत्प्रसङ्गे च ते सर्वे सैनिकाः दुर्दैववशात् आरक्षकैः गृहीता अभवन् । नायकः बिस्मिल्लोऽपि आरक्षकहस्तगतः अभवत् । आजादस्तु आरक्षकमध्ये एव सञ्चरन्नासीत् । बिस्मिल्ले मरणदण्डेन मृते सति आजाद एव सेनानायकोऽभवत् । भगतसिंहनामकः अन्योपिअन्योऽपि वीरः क्रान्तिकारी तरुणः तस्य सहायोऽभूतसहायकोऽभूत्
तस्मिन् काले आङ्ग्लशासनं 'साइमन्’ नामक्स्यनामकस्य आध्यक्ष्ये एकां समितिमरचयत् । तस्याः समितेः उद्देशस्तु साधुपरिवर्तनव्याजेन स्वातन्त्र्यान्दोलने शैथिल्योत्पादनमेव आसीत् । अतः तस्य बहिष्करणाय लालालजपतरायप्रभृतयः प्रवृत्ताः । तदा ललालजपतरायः आरक्षकैः निर्दयं ताडितः सन् अचिरेण मृतवान् । तस्य प्रतीकारं विधातुम् आजादसेना 'साण्डर्स’नामानम् आरक्षकाधिपं व्यापादयत् । ततः प्रभृति आजादं ग्रहीतुम् आरक्षकाः सर्वप्रकरेण प्रयत्नम् अकुर्वन् ।
==प्राणार्पणम्==
वञ्चकाः केचन गुप्तवेषाछ्छन्नः सन्तः आजादसेनां प्रविश्य सर्वं रह्स्यम् आरक्षकेभ्यः आवेदयन् । एकदा आजादः [[इलाहाबाद|अलहाबाद्-नगरे]] आल्फेड्-उद्याने कुत्रचित् मित्रेण साकं सम्भाषमाण आसीत् । तदा वीरभद्रतिवारिनाम्ना वञ्चकेन बोधिताः आरक्षकाः झटित्येव तं परिवार्यं ग्रहीतुं प्रवृत्ताः । अशीतिसंख्याकानां तेषां मध्ये एकाकी आजादः चक्रव्यूहप्रविष्टः अभिमन्युः इव शौर्येण अन्युध्यत । समाप्तप्रायासु गोलिकासु अन्तिमया एकया सः आत्मानं मारयित्वा भारतमातरं निजरुधिरेण अभ्यषिञ्चत, स्वीयम् 'आजाद्’ नाम च सार्थकम् अकरोत् ।
"https://sa.wikipedia.org/wiki/चन्द्रशेखर_आजाद" इत्यस्माद् प्रतिप्राप्तम्