"भीमराव रामजी आंबेडकर" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
 
==विदेशे उन्नतशिक्षा==
[[उत्तर-अमेरिकाखण्डः|अमेरिकादेशस्य]] नवीनपरिसरे जातिभेदरहिते स्वतन्त्रसमाजे भीमजी संतृष्टभावेन संशोढनाध्ययनकार्यं कृतवान् । एतादृशे परिसरे तस्य बुद्धिः दिनकरकिर्णैः तामरसम् इव विकसिता । दिने दिने प्रौढत्वं प्राप तस्य बुद्धिः । गुरुतरमपि कार्यं कर्तुं साश्यम् इति तस्य आत्मविश्वासः जागरितः । भीमः अमेरिकादेशे एकैकं क्षणमपि सार्थकरीत्या उपयुक्तम् अकरोत् । अमेरिकजनानाम् अत्युन्नतसाधनानि, बृहत्-ग्रन्थालयाः च भीमे महत्त्वाकांक्षां जागरितवन्तः । परदेशस्य आमोद- प्रमोदाः तस्मिन् किञ्चिदपि दुष्परिणामं कर्तुं नाशकुवन् ।
<poem>
सुखार्थि वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत् सुखम् ।
पङ्क्तिः ५०:
 
==वृत्तिजीवनम्==
भीमजी महोदयः स्वप्रतिभया प्राध्यापकपदवीम अलभत् । तथापि तस्य मनः अध्ययनविषये न तृप्तम् आसीत् । अतः सः स्ववेतने अल्पभागम् अध्ययनार्थम् एव उअपयुङ्क्ते स्म् । ततः १९२० तमे वर्षे लण्डन नगरं गत्वा [[अर्थशास्त्रम् (ग्रन्थः)|अर्थशास्त्रं]] न्यायशाश्त्रं च अधीतवान् । तयोः शाश्त्रयोः एम्.एस्. सि पदवीम् अदापयत् । ततः सः न्यायशास्त्रे "ब्यारिस्टर्" पदवीम् अपि लब्धवान् । एवं ज्ञानसागरः भूत्वा डा । भीमराव रामजी अम्बेडकरमहोदयः [[भारतम्|भारतं]] प्रत्यागच्छत् । समस्तभारतीयानाम अगेसरः भूत्वा सः भार्तीयसंविधानम् अरचयत् ।"आधुनिकमनुः" इति सम्मानितः अपि अभवत् । तस्य सेवां परिगणयन् भारतसर्वकारः "भारतरत्नम्" इति उपाधिना तं तस्य जन्मशताब्दसमये सममानयत् । एवं डा ॥ अम्बेडकरमहोदयः सर्वेषां छात्राणां मार्गदर्शकः अभवत् । [[भारतरत्नम्]] इति उपाधिना भूषितः '''डॉ॰ भीमराव् रामजी अम्बेड्करः''' ([[मराठी]]: डॉ॰ भीमराव रामजी आंबेडकर) कश्चन श्रेष्ठ राष्ट्रनायकः। [[महाराष्ट्रम्|महाराष्ट्रे]] महारजातौ निर्धने कुटुम्बे जन्म प्राप्तवान् एषः हिन्दुसमाजस्थस्य निम्नवर्गस्य अभिवृद्धिं जीवितकार्यत्वेन स्वीकृतवान्। अम्बेड्करमहारायः महाराष्ट्रे [[रत्नागिरिमण्डलम्|रत्नागिरिमण्डले]] अम्बावाडग्रामे जातः । सः निम्नकुले जातः । १८९१ एप्रिल्-मासस्य ४ दिनाङ्के तस्य जननम् अभवत् । माता भीमाबाई, पिता अम्बावाड्करः । [[मुम्बयी]]नगरे विद्याभ्यासं समाप्य, उन्नतविद्याम् अभ्यस्तुं लण्डन्-नगरं गतवान् । तत्र बारिस्टर-उपाधिं प्राप्तवान् । १९०५ तमे वर्षे रमाबाय्या सह तस्य विवाहः अभूत् । दुरदृष्टवशात् सा मृता । तस्याः मरणानन्तरं पुनः शारदाकबीर नाम ब्राह्मणयुवतीं परिणीतवान् ।
 
==समाजसेवा==
"भारतदेशप्राचीनवाणिज्यम्" इति परिशोधनापत्रं समर्प्य एम् ए उपाधिं प्राप्तवान् । "भारतदेशस्य जातीयः आयः - चारित्रात्मकं विश्लेषणात्मकम् अध्ययनम्" इति निबन्धं विरच्य पि हेच् डि उपाधिञ्च लब्धवान् अयं महारायः । निम्नवर्गजनानाम् अभ्युन्नतिम् आकाङ्क्ष्य विशेषकृषिम् अकरोत् । तेषां कृते "इण्डिपेण्डेण्ट् लेबर् पार्टी आफ् इण्डिया" इति संस्थाम् अस्थापयत् । अनन्तरकाले भारतराज्याङ्गरचनासङ्घस्य अध्यक्षो भूत्वा महत् यशः प्राप्तवानयं नायकः। पं [[जवाहरलाल नेहरू|जवहरलाल्]] नेहरूमन्त्रिवर्गे स्थित्वा "हिन्दू कोड" इत्येकां न्यायव्यवस्थां प्रावेशयत् सः। १९१६ तमे वर्षे "भारतदेशे वर्णव्यवस्था जनानां प्रगतिश्च" इत्यस्मिन् विषये शोधनिबन्धं यान्त्रपालजी गोष्ठ्यां समर्प्य सर्वेषां मेधाविनां प्रशंसायाः पात्रमभवत् सः ।
विदेशेषु स्थातुम् अवकाशे विद्यमानेऽपि हिन्दूसमाजस्य संस्करणाकाङ्क्षया ततः सर्वविधावमाननं सोढुमपि संसिद्धो भूत्वा अम्बेड्करः स्वदेशे एव स्थित्वा निजदेशे भक्तिं प्रदर्शितवान् । नागपुरमहानगरे एकस्यां बहिरङ्गसभायाम् अम्बेड्करः बौद्धमतं स्वीचकार । यद्यपि सः वैद्यशास्त्रं न पठितवान् तथापि जातिदोषनिर्मूलनाय औषधमेकम् अन्विष्टवान् । तच्च "जातिव्यवस्थायाः निर्मूलनं भवेत्" इति । एष एव अस्य आशयः आसीत् । जातीयनायकः अम्बेड्करः स्वीयकृत्या परिश्रमेण च महान् जातः । तस्य आशयाः आदर्शाः अवश्याचरणीयाः, अनुसरणीयाश्च ।
 
"https://sa.wikipedia.org/wiki/भीमराव_रामजी_आंबेडकर" इत्यस्माद् प्रतिप्राप्तम्