"विनायक दामोदर सावरकर" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ८५:
== प्रथमस्वातन्त्र्यसङ्ग्रामः==
भारतीयेषु स्वातन्त्र्यभावनाजागरणाय सावरकरः ईशवीये १८५७तमे वर्षे सम्भूतस्य स्वतन्त्र्यसाधनसङ्ग्रामस्य चरितं समग्रं सप्रमाणं लिखितवान् । तस्य पुस्तकस्य नामाऽपि "१८५७ प्रथमस्वात्न्त्र्यसङ्ग्रामः" इति कृतवान् । आङ्ग्लपालकाः एतस्य सङ्ग्रामस्य गौरवं न्यूनीकर्तुमेव एतं सैनिकद्रोहमिति प्रचारितवन्तः । किन्तु सावरकरस्य पुस्तकेन तस्य सङ्ग्रामस्य सत्यस्वरूपं सर्वैः ज्ञातम् ।
१८५७ प्रथमस्वातन्त्र्यसाधनसङ्ग्रामस्य समाप्त्यनन्तरं ५० वत्सराणि समाप्तप्रायाणि । तस्मिन् सन्दर्भे आङ्ग्लराजधान्यां लण्डन् नगर्याम् एकं कार्यक्रमम् आयोजितवन्तः
सावरकरेण लिखितं " १८५७ प्रथमस्वातन्त्र्यसङ्ग्रामः " इति ह्स्तलिखितपुस्तकं निगूढं भारतदेशम् आगतम् । तस्य पुस्तकस्य गूढतया मुद्रापण्स्य प्रचारनस्य च भार: गणेशेन स्वीकृत: । एषः विषयः सर्वकारेण ज्ञातः । एतत् पुस्तकं राजद्रोहवर्धकं भावयन् आङ्ग्लसर्वकारः मुद्रणार्थं स्वीकृतं मुद्रणालयं पिहितवान् लिखितपुस्तकमपि सर्वकारः स्वायत्तीकुर्यादिति विचिन्त्य गणेशः गूढतया फ्रान्सदेशं प्रेषितवान् । भारतीयभाषायां स्थितस्य तस्य पुस्तकस्य फ्रान्सदेशे मुद्रणम् असाध्यम् । अतः तत् आङ्ग्लभाषया अनूद्य मुद्रापणीयम् अभवत् । अनन्तरं तस्य पुस्तकस्य प्रतिकृतयः रहसि भारते
|