"धर्मानन्द दामोदर कोसम्बी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''धर्मानन्ददामोदरकोसम्बी (धम्मानन्द-दामोदर-कोसम्बी)'''
 
आचार्यः धम्मानन्द-दामोदर-कोसम्बी बौद्धधर्मदर्शनयोः उच्चकोटिको विद्वान् पालिप्राकृतसंस्कृतादिप्राच्यभाषाणां ज्ञाता च आसीत्। मूलत्रिपिटक-साहित्यस्य संस्कृतवाघ्मयस्य च अध्ययनं विधाय अनेन आधुनिकयुगे बौद्धसाहित्ये अद्वितीयं स्थानं प्राप्तम्। अस्य इमे प्रयासाः बुद्धिविलासाय नासन् अपितु बुद्धस्य बहुजनहितकारिणीं बहुजनसुखकारिणीं च शिक्षां प्राप्य स्वचरित्रो ताम् अवतार्य लोककल्याणार्थाय तेषाम् उपयोगाय एव आसन्। वस्तुतः कोसम्बिवर्यः बौद्धसाहित्यस्य अवगाहनं कृत्वा तस्य स्थापनां कर्तुम् आधुनिकयुगे भारतवर्षे प्रथम एव आचार्यः आसीत्, यतोहि अनेन यदा लेखनकार्यम् आरब्धं, तदा भिक्षुत्रायो{पि (महापण्डितो राहुलसांकृत्यायनो, भदन्तो जगदीसकस्सपो, डा. भदन्त-आनन्दकोसल्यायन-महास्थविरः च) न अस्मिन् कर्मणि भागग्राहिणो जाता आसन्। अतः गतशताब्दे बौद्धधर्मस्य पालिसाहित्यस्य च अध्ययन-अनुसन्धान-प्रचारप्रसार-विकासादिषु अस्य महोदयस्य अवदानं चिरकालं यावत् स्मरणीयं भविष्यति।
पङ्क्तिः ५:
महतः गणितज्ञस्य, संस्कृतविदुषः, इतिहासकारस्य मुद्राविज्ञस्य च आचार्यस्य दामोदरकोसम्बिनः अयं पूज्यपितृपादः वर्तते। वस्तुतस्तु आचार्यधम्मानन्दकोसम्बी स्वपुत्राय आत्मनः पितुः ‘दामोदर’ इत्येव नाम प्रायच्छत्। अतः उभावपि पितृ-पुत्रौ डी.डी. कोसम्बी इत्यनेनैव नाम्ना ज्ञायेते, कदाचित् अस्मिन् विषये भ्रान्तिरपि जायते। पितुः नाम धम्मानन्ददामोदरकोसम्बी अपि च पुत्रास्य नाम दामोदरधम्मानन्दकोसम्बी वर्तते। विगतशताब्दस्य महत्सु विद्वत्सु आचार्यस्य दामोदरकोसम्बिनो नाम अतीव सम्मानेन सह गृह्यते।
 
''धर्मानन्ददामोदरकोसम्बी-परिचयः''
 
धम्मानन्दकोसम्बी 09 अक्टूबर, 1876 तमे वर्षे गोवाप्रान्तस्य संखवालग्रामे ब्राह्मणपरिवारे जनिमलभत। बाल्ये परिवारजनैः तस्य नाम ‘धर्म’ (धम्म) इति व्यपस्थापितम्। ग्रामे शिक्षाध्ययनस्य समुचिता व्यवस्था नासीत्। पुनः तस्य पिता दामोदरशेनाॅयो{पि साधनसम्पन्नो नासीत्। कथ×िचदपि सः मराठीं संस्कृतं च अपठत्। कदाचित् नारिकेलवृक्षेषु सि×चनकर्मणः अवकाशं प्राप्य तत्रौव नारिकेलोपवने उपविश्य सः बालबोधनाम्नि मासिकपत्रो भगवतो बु(स्य चरितमपठत्। भगवतो बु(स्य चारित्रयं शिक्षाश्च पठित्वा अत्यन्तं प्रभावितः सः बौ(धर्मदर्शनयोः गभीरं ज्ञानं सम्पादयितुं सर्वं परित्यज्य गृहत्यागस्य निश्चयमकरोत्। एतदन्तरा 16वर्षवयसि एव तस्य विवाहो जातः आसीत्।
पङ्क्तिः ३४:
आचार्यधम्मानन्दकोसम्बी बु(भक्तिजनितपाण्डित्ये न, अपितु शीलस्य परिपालने चारित्रयस्य शु(तायां च दक्षः आसीत्। शीलस्य दृढतायाः आग्रहात् शान्तिदेवाचार्यस्य ‘बोधिचर्यावतारः’ इति ग्रन्थः तस्मै अतीव रोचते स्म। अस्य ग्रन्थस्य मराठी-गुजरातीभाषयोः अनुवादो{पि अनेन वृफतः। अनेन नैके ग्रन्थाः विरचिताः। आचार्यधम्मानन्दकोसम्बिविरचिताः ग्रन्था इत्थमधो निर्दिश्यन्ते-
 
''आचार्यधम्मानन्दकोसम्बिप्रणीतं साहित्यम्''
 
1. बु(, धर्म संघ ;व्याख्यानसंग्रहद्ध
"https://sa.wikipedia.org/wiki/धर्मानन्द_दामोदर_कोसम्बी" इत्यस्माद् प्रतिप्राप्तम्