"ईशावास्योपनिषत्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३:
==उपनिषत्सारः==
===शान्तिमन्त्रस्य सारांशः===
इयम् उपनिषत् शुक्लयजुर्वेदीयकाण्वशाखीयसंहितायाम् अन्तर्भवति । '''पूर्णमदः पूर्णमिदमिति''' शान्तिपाठः आरभ्यते । अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः । इदं व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति । इदं नियमबद्धं सम्पूर्णं विश्वं सर्वसम्पूर्णेन अनन्तपरमात्मना एव उद्भूतम् । किन्तु अस्य विश्वस्य उत्पत्त्या परमात्मनि न्यूनता भवेत् किम् ? सर्वथा न । सः अनन्तः, अखण्डः, अच्युतः, परिपूर्णश्च । तस्मात् अनन्तानि ब्रह्माण्डानि सृष्टानि चेदपि तदीयाः अनन्तज्ञानगुणविक्रमाः अच्युताः तिष्ठन्ति । अनन्तसङ्ख्यया अनन्तसङ्ख्या व्यवकलितः चेदपि अनन्तसङ्ख्या एव यथा अवशिष्येत तथा परमात्मनः अनन्तत्वस्य अखण्डत्वस्य बाधा न कापि विद्यते ।
 
===मन्त्राणां सारः===
अस्य विश्वस्य चेतनाचेतन-सूक्ष्मासूक्ष्म-चराचराणि सकलवस्तूनि सर्वव्यापकेन परमात्मना व्याप्तानि । तस्मात् प्राप्तानि सर्वाणि अपि वस्तूनि ईशप्रसादभावनया उपयोक्तव्यानि । अस्मिन् जगति कर्तव्यनिष्ठया कर्म कुर्वन्तः शतं वर्षाणि जीवेम इति सर्वेषाम् इच्छा स्यात् । अनेन मार्गेण गम्यते चेदेव [[मुक्तिः]] । कर्मदोषेण निर्लिप्तैः भाव्यं चेदपि अयमेव मार्गः । आत्मज्ञानाय प्रयत्नम् अकुर्वन्तः मानवाः अज्ञानान्धकारावृतम् आसुरलोकं प्रविशन्ति । इदं भवेत् आत्मघातसमम् ।
"https://sa.wikipedia.org/wiki/ईशावास्योपनिषत्" इत्यस्माद् प्रतिप्राप्तम्