"वसन्तपञ्चमी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''वसन्तपञ्चमी''' भारतस्य[[भारत]]स्य एकः मुख्यः उत्सवः अस्ति।अस्ति । अयम् उत्सवः माघमासस्य[[माघमास]]स्य [[शुक्लपक्ष]]स्य [[पञ्चमी|पञ्चम्यां]] शुक्लपक्षेतिथौ पञ्चमदिनेआचर्यते भवति।
 
अस्मिन् दिने [[सरस्वती देवी|सरस्वतीदेव्याः]] पूजा भवति । सरस्वतीदेव्याः पूजा प्रतिदिनं भवति किन्तु [[माघमास]]स्य [[शुक्लपक्ष]]स्य पञ्चम्यां तिथौ सरस्वतीदेव्याः विशिष्टा पूजा भवति । सरस्वतीदेव्याः पूजा तु नित्यं करणीयम् एव । आदिशक्त्याः रूपत्रयम् अस्ति -[[सरस्वती देवी|महासरस्वती]], [[काली|महाकाली]], महा[[लक्ष्मी]] च इति । एतासाम् उत्पत्तिः कथम् ? कथम् अवतरणमभवत् ? इति कोऽपि न जानाति । अस्माकं ऋषिभिः [[वेद]][[पुराणानि|पुराणानां]] साहाय्येन एतासां देवीनां पूजायाः विशिष्टं दिनं निर्धारितम् ।
 
महाकालीदेव्याः पूजा [[चैत्रमासः|चैत्रे]] [[आश्विनमासः|आश्विने]] वा मासे [[शुक्लपक्ष]]स्य [[नवमी|नवम्यां]] तिथौ भवति । महा[[लक्ष्मी]]देव्याः पूजा [[कार्तिकमास]]स्य [[अमावास्या]]यां भवति । तेन प्रकारेण एव महासरस्वतीदेव्याः पूजा [[माघमास]]स्य [[शुक्लपक्ष]]स्य [[पञ्चमी|पञ्चम्यां]] तिथौ भवति ।
 
भगवती सरस्वती सत्वगुणी अस्ति । इयं वाग्देवी, ज्ञानदेवी, शारदा, गिरा, वाचा, गौ, ब्राह्मी, वाणी, भाषा इत्यपि कथ्यते । अस्याः माहात्म्यं प्रभावः च विशिष्टः अस्ति । सरस्वतीदेव्याः कृपया जनाः ज्ञानिनः, विद्वांसः, मेधाविनः भवन्ति । विद्या बुद्धिः च अस्याः कृपया एव प्राप्येते । वसन्त-पञ्चम्यां व्रतः उपवासः वा कृत्वा विधिपूर्वकं महासरस्वतीपूजा करणीया । शिशूनाम् अक्षरज्ञानस्य आरम्भः अस्मिन् दिने एव करणीयः । कारणं विद्यारम्भाय इदं दिनं पवित्रं मन्यते ।
 
गृहेषु बालकैः सह यज्ञादिकर्म, जपः, कीर्तनादि कृत्वा [[सरस्वती]]देव्याः पूजा करणीय़ा । इयं पूजा प्रातःकाले करणीया । प्रातःकाले अस्याः पूजायाः महत्वम् अधिकं वर्तते । कलशस्थापनां कृत्वा सरस्वत्याः आह्वानं करणीयम् । गायत्रीमन्त्रेण अपि होमकर्म कर्तुं शक्यते । ’ॐ श्रीं ह्रीं सरस्वत्यै स्वाहा’ इति मन्त्रेण अष्टोत्तरशत(१०८)आहुतयः दातव्याः । सरस्वत्याः १००८ नामभिः पूजां कर्तुं शक्नुमः । पूजायां लेखन्यः, पुस्तकानि च देव्याः समक्षे स्थापनीयानि ।
 
सरस्वतीपूजापरम्परायाः गृहेषु बालकाः मेधावन्तः, संस्कारवन्तः, यशस्विनः च भवन्ति । तान् बालकान् विद्यार्जनाय विद्यादानाय च प्रेरयितुं शक्नुमः । प्राचीनाः कवयः, ऋषयः, मुनयः च स्वेषां ग्रन्थेषु सर्वप्रथमं महा[[सरस्वती]]देव्याः पूजां कुर्वन्ति स्म । एकः सरस्वती-मन्त्रः अधः प्रदत्तः अस्ति । तस्य नित्यपठनं करणीयम् ।
<poem>
 
प्रथमं भारती नाम, द्वितीयं च सरस्वती ।
तृतीयं शारदा देवी, चतुर्थं हंसवाहिनी ॥
 
पञ्चमं जगती ख्याता, षष्ठं वागीश्वरी तथा ।
सप्तमं कौमुदी प्रोक्ता, अष्टमं ब्रहचारिणी ॥
 
नवमं बुद्धिदात्री च, दशमं वरदायिनी ।
एकादशं चन्द्रकान्तिः, द्वादशं भुवनेश्वरी ॥
 
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
जिह्वाग्रे वसते नित्यं ब्रह्म रूपा सरस्वती ॥
 
</poem>
 
 
एकस्य हुतात्मनः कथा अपि वसन्त-पञ्चम्या सह संलग्ना अस्ति । "हकीकत राय इत्याख्यः एकः बालकः आसीत् । सः मदरसा इत्यस्मिन् पठति स्म । एकदा विद्यार्थिभिः सरस्वत्याः निन्दा कृता । तेन कारणेन हकीकत राय इत्यनेन तेभ्यः प्रत्युत्तरं दत्तम् । किन्तु तत्रत्याः शिक्षकाः खिन्नाः जाताः । तेन कारणेन शिक्षकैः हकीकत राय इत्यस्मै धर्मान्तरणस्य दण्डः प्रदत्तः । किन्तु हकीकत राय इत्याख्येन न स्वीकृतम् । तदा शिक्षकेन हकीकत राय इत्यस्मै मृत्युदण्डः दत्तः । लघुवयसि एव हकीकत राय इत्याख्येन वसन्त-पञ्चम्याः पर्वदिने स्वधर्माय बलिदानं दत्तम् । अतः वसन्त-पञ्चम्यां हकीकत राय इत्यस्मै श्रद्धाञ्जलिः दातव्या" ।
 
[[वर्गः:हिन्दु-उत्सवाः]]
[[वर्गः:सनातनधर्मः]]
"https://sa.wikipedia.org/wiki/वसन्तपञ्चमी" इत्यस्माद् प्रतिप्राप्तम्