"भारतद्वारम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
समस्यात्वात् गोपितम् अस्ति ।
-->
'''भारतद्वारं''' ({{lang-hi|इण्डिया गेट}}, {{lang-en|India Gate}}) [[भारतगणराज्य]]स्य एकं स्मारकम् । इण्डिया गेट्, अखिलभारतीययुद्धस्मृतिः, अमर जवान ज्योति इत्येतानि एतस्य स्मारकस्य नामान्तराणि । हुतात्मनां भारतीयसैनिकानां स्मारकम् एतत् । प्रथमे विश्वयुद्धे हुतात्मभ्यः सैनिकेभ्यः भारतद्वारस्य निर्माणं जातम् आसीत् <ref name="भारतद्वारम्">{{cite journal|last=Metcalf|first=Thomas R.|title=WW I: India's Great War Dulce Et Decorum Est India Gate, our WW-I cenotaph, now stands for an abstracted ideal|journal=Outlook|date=31 March 2014|issue=31 March 2014|url=http://www.outlookindia.com/article.aspx?289882|accessdate=8 April 2014}}</ref> । आरम्भे तु एतत् स्मारकं ज्ञातभारतीयसैनिकेभ्यः निर्मितम् इति भावः आसीत् । परन्तु ततः [[भारत]]स्य अज्ञातसैनिकानां कृते अपि एतत् स्मारकम् इति सर्वकारेण उद्घोषितम्<ref name="शैक्षणिकेतिहासः">{{cite journal|last=David A. Johnson|author2=Nicole F. Gilbertson|title=Commemorations of Imperial Sacrifice at Home and Abroad: British Memorials of the Great War|journal=The History Teacher|date=4 August 2010|volume=43|series=4|pages=563–584|url=http://www.societyforhistoryeducation.org/pdfs/Johnson_and_Gilbertson.pdf|accessdate=9 April 2014}}</ref> । [[भारतम्|भारतस्य]] [[देहली]]-महानगरस्य [[नवदेहलीमण्डल|नवदेहलीमण्डले]] स्थितम् एतत् स्मारकं [[भारतम्|भारतस्य]] प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमम् । भारतद्वारस्य परिकल्पना [[फ्रान्स्]]-देशस्य ‘आर्क-द ट्रायोम्फल्’ (Triumphal arch) सदृशी अस्ति<ref name="भारतद्वारम्">{{cite journal|last=Metcalf|first=Thomas R.|title=WW I: India's Great War Dulce Et Decorum Est India Gate, our WW-I cenotaph, now stands for an abstracted ideal|journal=Outlook|date=31 March 2014|issue=31 March 2014|url=http://www.outlookindia.com/article.aspx?289882|accessdate=8 April 2014}}</ref>
 
== भौगोलिकस्थितिः ==
पङ्क्तिः ३२:
 
== इतिहासः ==
<!--[[File:India Gate in 1930s.jpg|thumb|right|१९३० तमे वर्षे भारद्वारस्य मार्गेण गच्छन्ति यानानि]] this can open-->
 
पुरा अखिलभारतीययुद्धस्मारकनाम्ना प्रसिद्धम् एतत् स्मारकम् आङ्ग्लाः निर्मापयन् । प्रथमविश्वयुद्धे ये भारतीयसैनिकाः आङ्ग्लसर्वकारस्य पक्षे युद्धं कृत्वा प्राणाहुतिम् अयच्छन्, तेषां स्मरणार्थम् आङ्ग्लैः एतत् स्मारकं निर्मापितम् आसीत् <ref name="शैक्षणिकेतिहासः">{{cite journal|last=David A. Johnson|author2=Nicole F. Gilbertson|title=Commemorations of Imperial Sacrifice at Home and Abroad: British Memorials of the Great War|journal=The History Teacher|date=4 August 2010|volume=43|series=4|pages=563–584|url=http://www.societyforhistoryeducation.org/pdfs/Johnson_and_Gilbertson.pdf|accessdate=9 April 2014}}</ref> । रक्तप्रस्तरैः, पीतप्रस्तरैः च निर्मतम् एतत् स्मारकं [[फ्रान्स्]]-देशस्य ‘आर्क-द ट्रायोम्फल्’ सदृशम् अस्ति । यदा एतत् स्मारकं परिकल्पनाधीनम् आसीत्, तदा भारतद्वारं यातायातस्य मुख्यमार्गे स्थितम् आसीत् । तस्मिन् काले राजपथमार्गपर्यन्तं [[देहली]]-[[आग्रा]]-रेल्-मार्गः आसीत् । तेन स्मारकस्य भूमिविषये अनिश्चितता आसीत् । ततः १९२१ तमे वर्षे तस्मात् स्थलात् रेल्-मार्गस्य स्थानान्तरणानन्तरं स्मारकस्य निर्माणकार्यम् आरब्धम् <ref name=वर्तमानपत्रम्>{{cite news |title=A fine balance of luxury and care|url=http://www.hindustantimes.com/News-Feed/chunk-ht-ui-newdelhi100years-topstories/A-fine-balance-of-luxury-and-care/Article1-723880.aspx |publisher=[[Hindustan Times]]|date=21 July 2011}}</ref><ref>{{cite news |title=When Railways nearly derailed New Delhi. It was also designed by BRIG V.K SHENOY. |url=http://weekendgetawaysfromdelhi.in/ |publisher= Delhi Weekend Getaways|date=18 January 2011 }}</ref>। १९३१ तमे वर्षे निर्माणकार्ये पूर्णे सति तत्कालीनेन गवर्नर् लॉर्ड् इर्विन् इत्यनेन एतत् स्मारकं जनेभ्यः समर्पितम् ।
 
== परिकल्पना ==
 
एड्विन् लुटियन्स् इत्ययम् आङ्ग्लसर्वारस्य [[स्थापत्यविभागः|स्थापत्यविभागस्य]] अध्यक्षः आसीत् । सः युद्धस्मारकनिर्माणसमितेः सदस्यः अपि आसीत् । सः भारतद्वारस्य सम्पूर्णां परिकल्पनाम् अकरोत् । भारतद्वारस्य औन्नत्यं ४२ मी. अस्ति । [[राजस्थानराज्य]]स्य [[भरतपुर|भरतपुरात्]] रक्तप्रस्तराणाम् आयातं कृत्वा एतस्य स्मारकस्य रचना जाता अस्ति । भारतद्वारस्य उपरितने भागे तैलपात्रस्य रचना अपि कृता अस्ति । तस्मात् तैलपात्रात् अविरतं पतद् तैलम् अधः दीपकान् दीर्घकालं यावत् प्रज्वालयेत् इति तस्य पात्रनिर्माणस्य उद्देशः आसीत् । तस्य तैलपात्रस्य उपयोगः उत्सवेषु, पर्वसु च भवितुम् अर्हति । परन्तु एतावता तस्य तैलपात्रस्य अतिस्वल्पः उपयोगः कृतः । भारतद्वारस्य उपरि प्रथमविश्वयुद्धे हुतात्मनां नामानि अङ्कितानि सन्ति । द्वारस्य मध्ये ‘INDIA’ अपि अङ्कितम् अस्ति <ref name="भारतद्वारम्">{{cite journal|last=Metcalf|first=Thomas R.|title=WW I: India's Great War Dulce Et Decorum Est India Gate, our World War-I Cenotaph, now stands for an abstracted ideal|journal=Outlook|date=31 March 2014|issue=31 March 2014|url=http://www.outlookindia.com/article.aspx?289882|accessdate=8 April 2014}}</ref>
 
== अमर जवान ज्योति ==
 
अमर जवान ज्योति (अमर सिपाहि लौ) इत्येव भारतद्वारस्य मुख्याकर्षणं, मुख्योद्देशः च <ref name="वर्तमानपत्रम्">{{cite news|last=Gupta|first=Geeta|title=Keeper of the flame|url=http://archive.indianexpress.com/news/keeper-of-the-flame/960016/0|accessdate=10 April 2014|newspaper=indianexpress.|date=10 June 2012}}</ref> । भारतद्वारे प्रस्तरैः निर्मिता एका पीठिका अस्ति । तस्याः पीठिकायाः मध्यभागे कृष्णप्रस्तरेण निर्मितः पीठः विद्यते । तस्मिन् पीठे अशरीरिणां सैनिकानां स्मरणार्थम् अग्निशस्त्रं (rifle) स्थापितम् अस्ति । तस्मिन् अग्निशस्त्रे एकं शिरस्त्राणं विद्यते । कृष्णपीठं परितः समानान्तरे चत्वारः दीपकाः स्थापिताः सन्ति ।
 
अमर जवान ज्योति इत्यस्य रक्षणार्थं भारतीयसेनानाम् अनेकाः सैनिकाः २४/७, ३६५ दिनानि च तत्र सन्नद्धाः भवन्ति । प्रतिवर्षं [[कारगिलविजयदिवसः|कारगिलविजयदिवसे]], [[प्रजासत्ताकदिन|प्रजासत्ताकदिने]] (२६ जनवरी) च [[भारत]]गणराज्यस्य [[प्रधानमन्त्री]], तिसॄणां सेनानाम् अध्यक्षाः, [[भारतम्|भारतस्य]] गणमान्याः च अमर जवान ज्योति इत्यस्मै नमस्कारं कर्तुं भारतद्वारं गच्छन्ति <ref name="Goswami,10 april">{{cite news|last=Goswami|first=Col (retd) Manoranjan|title=War memorial|url=http://www.assamtribune.com/scripts/details.asp?id=aug3009/edit3|accessdate=10 April 2014|newspaper=Assam Tribune}}</ref>
 
== मण्डपः ==
पङ्क्तिः ७४:
 
http://delhidarshan.netne.net/india-gate-raj-path-center-of-delhi-new-delhi-india.html
 
== सन्दर्भः ==
 
{{reflist}}
 
[[वर्गः:देहल्याः प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/भारतद्वारम्" इत्यस्माद् प्रतिप्राप्तम्