"द्वैतदर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा मध्वसिद्धान्तः इत्येतत् द्वैतदर्शनम् इत्येतत् प्रति चालितम्
Reverted to revision 264900 by Srivatsa B R: save content.
पङ्क्तिः १:
[[चित्रम्:Shri Madhvacharya.jpg|200px|thumb|'''मध्वसिद्धान्तस्य प्रवर्तकः मध्वाचार्यः''']]
#पुनर्निदेशन [[द्वैतदर्शनम्]]
 
त्रिषु वेदान्तेषु '''मध्वसिद्धान्तः''' अन्यतमः अस्ति । द्वैतपदस्य भेदः इत्यर्थः । अस्य मतस्य “ब्रह्मसम्प्रदायः” इत्यपि व्यवहारोऽस्ति । अस्य सिद्धान्तस्य प्रतिपादकः [[मध्वाचार्यः]] । [[मध्वाचार्यः|मध्वाचार्यस्य]] अपरं नाम "पूर्णप्रज्ञः" इति । एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य । यद्यपि जीवेश्वरयोः भेदं [[साङ्ख्यदर्शनम्|सांख्याः]], [[न्यायदर्शनम्|नैय्यायिकाः]], [[वैशेषिकदर्शनम्|वैशेषिकाः]], [[मीमांसा|जैमिनी]]यादयः अङ्गीकुर्वन्ति तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति । अस्मिन् दर्शने परमात्मा, जीवात्मा, जडस्य च परस्परं भेदः निरूपितः अस्ति । स्वतन्त्रास्वतन्त्रेति द्वे तत्त्वे वर्तेते । तयोः तत्त्वयोः निरूपणे एव रतम् इदं शास्त्रम् । अतः अस्यैव दर्शनस्य द्वैतदर्शनम् इति विचक्षणाः अभिप्रयन्ति । तत्त्वप्रतिपादकः श्लोकः,<br>
:'''स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते ।'''
::'''स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥''' <ref> तत्त्वसंख्यानम्, श्लोकसंख्या-१ </ref>
 
==दर्शनविकासः==
[[वेदः|वेदाः]] चत्वाराः । [[ऋग्वेदः]], [[यजुर्वेदः]], [[सामवेदः]], [[अथर्ववेदः|अथर्वश्च]] । एतेषु चतुर्षु संहितासु तत्र तत्र विद्यमानान् [[विष्णुः|विष्णोः]] सम्बन्धितान् उल्लेखान्, जगतः सत्यत्त्व-उल्लेखान् च उद्धृत्य प्रधानतया विचारितम् अस्मिन् दर्शने । उपनिषद्ब्राह्मणारण्यकेषु अपि उल्लेखाः उपलभ्यन्ते । एतेषु सर्वेषु पञ्चभेदानां विषये स्पष्टोल्लेखाः लभ्यन्ते पञ्चभेदाः प्रतिपाद्यन्ते च इति द्वैतीनां दार्शनिकानाम् अभिप्रायः। वेद-पञ्चरात्राणाम् आधारेण परब्रह्म नारायणः, वासुदेवः, सङ्कर्षणः, प्रद्युम्नः, अनिरुद्धः इत्यादीनि रूपाणि सृष्टिस्थितिलयादिकं कुर्वन्ति इति प्रतिपादितम् अस्मिन् दर्शने । [[भागवतपुराणम्|भागवतपुराणे]] निरूपितो [[धर्मः]] एव द्वैतदर्शनस्य सारभूतः । पञ्चरात्रागमे उक्ताः उल्लेखाः प्रमाणीभूताः । अस्य कर्ता नारायणस्य अवतारभूतः इति । अत्र प्रमाणानि अपि दत्तानि, <br />
:'''महिदासाभिदो जज्ञ इतरायास्तपोबलात् ।'''
::'''साक्षात् स भगवान् विष्णुः यस्तन्त्रं वैष्णवं व्यधात् ॥'''
:'''तृतीयमृषिसर्गं नै देवर्षित्वमुपेत्य सः ।'''
::'''तन्त्रं सात्त्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥'''<ref> भागवतमहापुराणम् </ref>
एवं पुराणानि इतिहासाश्च वेदार्थान् एव प्रतिपादयन्ति । '''श्रुतेरिवार्थं स्मृतिरन्वगच्छत्''' <ref> रघुवंशमहाकाव्यम् </ref> इत्यादीनि वाक्यानि अपि अनुमोदयन्ति । अतः [[पुराणानि|पुराणादीनि]] दर्शनविकासकानि भवन्ति । तानि निश्चितसिद्धान्तान् निरूपयन्ति । प्रमाणश्लोकः विद्यते । तद्यथा, <br>
:'''यथार्थवचनानां च मोहार्थानां च संशयम् ।'''
::'''अपनेतुं हि भगवान् ब्रह्मसूत्रमचीक्लृपत् ॥'''
:'''तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः ।'''
अस्मिन् दर्शने जीवैः प्राप्यमाणायां [[मोक्षः|मोक्षस्थितौ]] साम्यता नास्ति । जीवेश्वरयोः स्वामिभृत्यभावः अस्ति । "दासोऽहं" इति कृतभावोपासनेन मोक्षेऽपि दासस्वामिभावः एव भवति । जीवब्रह्मणोः शरीरशरीरिभावः, नियम्य नियामकभावः च अस्ति । सात्विकः, राजसः, तामसादिभेदेन त्रिविधाः जीवाः । एतेषु सात्विकैः जीवैः एव [[मोक्षः]] प्राप्यते । राजसजीवानां नित्यनरकः। तामसानाम् अन्धन्तमरूपनित्यनरकस्य प्राप्तिः भवति ।
 
==इतिहासः==
अस्य द्वैतदर्शनस्य प्रवर्तकः श्री[[मध्वाचार्यः]] । [[वेदः|श्रुति]]-[[स्मृतयः|स्मृति]]-[[इतिहासः|इतिहास]]-[[पुराणानि|पुराण]]-[[उपनिषदः|उपनिषत्]]-[[भगवद्गीता|गीतासु]] विद्यमानान् द्वैतमतस्थापनार्थम् अनुकूलान् अंशान् परिगृह्य युक्त्या एतेषां याथार्थ्यं च निर्धार्य [[मध्वाचार्यः]] द्वैतदर्शनस्थापनं कृतवान् । अस्यानन्तरं टीकाचार्यः इत्येव प्रसिद्धः श्री[[जयतीर्थः]] मध्वाचार्येण रचितानां ग्रन्थानां व्याख्यानम् अकरोत् । टीकाचार्यः स्वतन्त्रतया अपि ग्रन्थान् रचितवान् अस्ति । श्री[[व्यासतीर्थः]] स्वद्वैतदर्शनस्य महतीं प्रपञ्चितवान् अस्ति । [[वादिराजः]] स्वप्रौढभाषया, उत्तमदृष्टान्तैः च द्वैतदर्शनस्य माहात्म्यं निरूपितवान् अस्ति । विजयेन्द्रः नैकान् वादग्रन्थान् रचितवान् अस्ति । [[राघवेन्द्रस्वामी|राघवेन्द्रतीर्थः]], [[रघूत्तमतीर्थः]], [[विजयध्वजतीर्थः]], [[सुधीन्द्रतीर्थः]], [[सत्यधर्मतीर्थः]], [[रघुनाथतीर्थः]], [[जगन्नाथतीर्थः]], [[सुमतीन्द्रतीर्थः]], [[यादवार्यतीर्थः]], [[बिदरहळ्ळि श्रीनिवासाचार्यः]] च नैके यतयः गृहस्थाः च द्वैतदर्शनस्य विफुलसेवां कृतवन्तः । श्री[[मध्वाचार्यः]] (क्रि.श. [[१२३८]] - [[१३१७]]) द्वैतदर्शनस्य प्रवर्तकः । अस्य कालात् पूर्वमपि द्वैतदर्शनम् आसीत् । नैके यतयः पालिताः इति । मध्वाचार्याय अच्युतप्रेक्षतीर्थः सान्यासदीक्षां दत्तवान् । अस्य पुरुषोत्तमतीर्थः इत्यपि नाम अस्ति । एषः [[अद्वैतवेदान्तः|अद्वैतदर्शनस्य]] निष्ठः आसीत् । दीक्षायाः अनन्तरं गुरुः प्रप्रथमतया '''विमुक्तात्मेन''' रचितं '''इष्टसिद्धिनामकं''' ग्रन्थं प्रवचनाय मध्वाचार्यं सूचितवान् आसीत् । अनेन ज्ञायते यत् द्वैतदर्शनस्य साम्प्रदायिकग्रन्थः नासीत् इति । अस्य दर्शनस्य स्थापने [[वेदव्यासः|वेदव्यासस्यैव]] प्रेरणा, सः एव मम गुरुः च इत्यपि [[मध्वाचार्यः]] स्वयमेव उक्तवान् अस्ति ।
 
==मध्वसिद्धान्तस्य वैशिष्ट्यम्==
अन्यसिद्धान्तेषु तुलनात्मकतया मध्वसिद्धान्तस्य अध्ययने कृते मध्वसिद्धान्तेन अङ्गीकृताः प्रमेयविषयाः एव मध्वसिद्धान्तस्य वैसिष्ट्यं बोधयन्ति । ते च प्रमेयविशेषाः तावत् भेदः,तारतम्यज्ञानं, हरिसर्वोत्तमत्वं, स्वतप्रामाण्यं, जगत्सत्यत्वं, नैजसुखानुबूतिरेव मुक्तिः, भक्त्या एव मुक्तिः, प्रत्यक्षादित्रित्रयं प्रमाणं ।<br>
भेदः -मध्वसिद्धान्ते तावत् पञ्चविधः भेदः अङ्गीकृतः। ते च ईश्वर-जीवभेदः,ईश्वर-जडभेदः,जीव-जीवभेदः,जड-जडभेदः,जीव-जडभेदः। एतादृशभेदश्च धर्मिस्वरूपः, न अतिरिक्तपदार्थः इति तु मध्वसिद्धान्तः।
स्वतप्रामाण्यम् - यस्य ज्ञानं येन इन्द्रियेण जायते तद्गतप्रामाण्यमपि तेनैव इन्द्रियेण ज्ञायते । इति वचयनानुसारेण प्रामाण्यस्य परतस्त्वं नाङ्गीक्रीयते । <br>
मुक्तिः -मुक्तिस्तावत् चतुर्विधं सारुप्यं,सायुज्यं,सामिप्यं इति। एतद् चतुर्विधम् च स्वरूपानन्दानुर्भाव रूप एव। किन्तु मोक्षे अपि तारतम्यम् भगवन्नियामकत्वम् अस्त्येव।
 
==मध्वाचार्यस्य ग्रन्थाः==
मध्वाचार्यस्य प्रणीताः सप्तत्रिंशत् (३७) ग्रन्थाः अधो निर्दिष्टाः
* [[अनुव्याख्यानम्]]
* [[न्यायविवरणम्]]
* [[अणुभाष्यम्]]
 
===उपनिषद् भाष्यग्रन्थाः ===
 
* ईशावास्योपनिषद्भाष्यम्
* केनोपनिषद्भाष्यम्
* कठोपनिषद्भाष्यम्
* मुण्डकोपनिषद्भाष्यम्
* षट्प्रश्नोपनिषद्भाष्यम्
* माण्डूक्योपनिषद्भाष्यम्
* ऐतरेयोपनिषद्भाष्यम्
* तैत्तिरीयोपनिषद्भाष्यम्
* बृहदारण्यकोपनिषद्भाष्यम्
* छान्दोग्योपनिषद्भाष्यम्
 
== वेदभाष्यम् ==
 
* ऋग्भाष्यम्
 
== प्रकरणग्रन्थाः ==
 
* [[प्रमाणलक्षणम्]]
* [[कथालक्षणम्]]
* [[उपाधिखण्डनम्]]
* [[प्रपञ्चमिथ्यात्वानुमानखण्डनम्]]
* [[मायावादखण्डनम्]]
* [[तत्त्वसङ्ख्यानम्]]
* [[तत्त्वविवेकः]]
* [[तत्त्वोद्योतः]]
* [[विष्णुतत्त्वविनिर्णयः]]
* [[कर्मनिर्णयः]]
 
===माहाभारतसम्बद्धम्===
 
* [[महाभारततात्पर्यनिर्णयः]] <ref>[http://web.archive.org/web/20091027143213/http://geocities.com/mahabharata_tatparya_nirnaya/pointers/mbtnpandurangi1.htm Mahabharata Tatparya Nirnaya]</ref>
* [[भारतनिर्णयः]] उत [[यमकभारतम्]] (Yamaka Bharata)
 
===पुराणसम्बद्धम्===
 
* [[भागवततात्पर्यनिर्णयः]]
 
== स्तोत्रसम्बद्धम् ==
 
* नरसिंहनखस्तुतिः
* द्वादशस्तोत्रम्
 
===आचारसम्बद्धम्===
 
* [[कृष्णामृतमहार्णवः]] <ref>[http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/4_rellit/vaisn/mdhvkmou.htm Krishnamruta Maharnava]</ref>
* [[सदाचारस्मृतिः]]
* [[तन्त्रसारसङ्ग्रहः]]
* [[यतिप्रणवकल्पः]]
* [[जयन्तीनिर्णयः]]
 
=== अन्यानानि ===
 
* [[कन्दुकस्तुतिः]]
* [[न्यासपद्धतिः]]
* [[तिथिनिर्णयः]]
==सारः==
अस्य सिद्धान्तस्य सारः (प्रमेयसारः) एकस्मिन् श्लोके निरूपितम् अस्ति । तद्यथा,<br>
:'''श्रीमन्मध्वमते हरिः परतरः सत्यं जगत् तत्त्वतो'''
::'''भिन्ना जीवगणा हरेरनुचरा नीचोच्चभावङ्गताः ।'''
:'''मुक्तिः नैजसुखानुभूतिरमला भक्तिश्च तत्साधनम्,'''
::'''ह्यक्षादि त्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः ॥'''
 
*श्रीमन्नारयणः सर्वोत्तमः ।
*जगतः पारमार्थिकसत्यत्वम् अङ्गीक्रियते।
*जीवब्रह्मणोः भेदः ।
*जीवाः नारायणस्य दासाः।
*जीवषु परस्परतारतम्यता ।
*जीवात्मनः स्वरूपानन्दप्राप्तिः एव मुक्तिः ।
*निर्मलभक्तिः एव मुक्तेः मुख्यः उपायः ।
*प्रत्यक्षम्, अनुमानम्, अगमं प्रमाणानि ।
*नारायणः केवलवेदगम्यः ।
==प्रमाणम्==
अस्मिन् दर्शने द्वे प्रमाणे वर्तेते। प्रथमं केवलप्रमाणम्, अपरं अनुप्रमाणम् इति। मध्वदर्शनानुसारं यथार्थमेव प्रमाणं भवति। यथार्थो नाम तद्वति तत्प्रकारकोऽनुभवः यथार्थः। रजते इदं रजतम् इति ज्ञानम्।
===केवलप्रमाणम्===
यथार्थानुभवः एव केवलप्रमाणं भवति । केवलप्रमाणम् "ईश्वरज्ञानम्", "लक्ष्मीज्ञानम्", "योगिज्ञानम्", "अयोगिज्ञानम्" इति केवलप्रमाणं चतुर्विधम् । सर्वविषयक ईश्वरस्वरूपमेव ईश्वरज्ञानमिति व्यवहारः। ईश्वरोनाम लक्ष्मीपतिः [[नारायणः|श्रीमन्नारायणः]]। ईश्वरस्य क्रियागुणौ पूर्णतया नभवतः चेदपि तयोः विद्यमानयोः विशेषांशैः मिलितः चित् प्रकृतेः ज्ञानमेव लक्ष्मीज्ञानमिति । ब्रह्मदेवस्य, ब्रह्मपदव्याय समर्थः यः(ऋजुयोगिः) योगिः तस्य, तत्विकातात्विक योगीणाञ्च ज्ञानम् एव यिगिज्ञानं भवति । मुक्तियोग्यानाम्, नित्यसांसारिकाणाम्, तमोयोग्यानाञ्च जीविनां ज्ञानमेव अयोगिज्ञानं भवति ।
===अनुप्रमाणम्===
अनुप्रमाणानि [[प्रत्यक्षम्]], [[अनुमानम्]], [[आगमम्|आगमादीनि]] भवन्ति।
*प्रत्यक्षम्- दोषरहितेन्द्रियसन्निकर्षज्ञानम् प्रत्यक्षम्। अस्मिन् आत्मस्वरूपेन्द्रियम् तथा प्राकृतेन्द्रियमिति प्रकारद्वयम् । अज्ञानिजीवस्य इन्द्रियाणि प्राकृतेन्द्रियाणि। ते च प्रकृतेः परिणामरूपम् महत्-अहंकारतत्वानां पंचभूतानाम् संलग्नेन नेत्रादिप्राकृतेन्द्रियाणि भवन्ति । तदतिरिक्ता आत्मस्वरूपा साक्षी स्वरूपेन्द्रियः इति कथ्यते । सुखादि जीवधर्माः,अविद्या [[मनः]], [[कालः]], [[दिक्]], ज्ञानस्य प्रामाण्यादीन् साक्षी एव गृह्यते । स्वरूपेन्द्रियमपि घ्राणादिभेदेनषड्विधं सत् लिंगदेहस्थसूक्ष्मषडिन्द्रियैः स्थूलशरीरस्थस्थूलेन्द्रियैः मिश्रं तिष्टति । इदम् अबादितम् ज्ञानं भवति। एदमेव आत्मस्वरूपसाक्षिज्ञानं भवति।
*अनुमानम्- दोषरहितः युक्तिरेव अनुमानं भवति । अनुमानं त्रिविधं भवति । कार्यानुमानम्, कारणानुमानम्, अकार्यकारणानुमानमिति।
*आगमम्- निर्दोषः [[शब्दः]] आगमं प्रमाणं भवति। तच्च द्विविधं पौरुषेयागमं,अपौरुषेयागमं चेति ।अपौरुषेयागमम् तावत् [[वेदः|वेदाः]]। पौरुषेयागमास्तावत् इतिहासपुराणादीनि।
 
==पदार्थः==
अस्मिन् दर्शने दशपदार्थाः सन्ति।
{| class="wikitable"
|-
| द्रव्यम् || गुणः || कर्मः || सामान्यम् || वेशेषः
|-
| विशिष्टः || अंशि || शक्तिः || सादृश्यम् || अभावः
|}
==द्रव्यम्==
अस्मिन् दर्शने २० द्रव्याणि सन्ति।
{| class="wikitable"
|-
| परमात्म || लक्ष्मी || जीवः || अव्याकृताकाशः
|-
| प्रकृतिः || गुणत्रय || महत्तत्व|| अहङ्कारतत्व
|-
| बुद्धिः || मनः || इन्द्रियम् || तन्मात्राणि
|-
| भूतानि || ब्रह्माण्डः || अविद्या || वर्णः
|-
| अन्धकारः || वासना || कालः || प्रतिबिम्बः
|}
 
==गुणः==
अस्मिन् दर्शने ४० गुणाः सन्ति।
{| class="wikitable"
|-
| रूपम् || रसः ||गन्धः || स्पर्षः ||संख्या || परिमाणम् || संयोगः || विभागः || परत्व || अपरत्व
|-
| गुरुत्व || लघुत्व || मृदुत्व || द्रवत्व || कठिणत्व || स्नेहः || शब्दः || बुद्धिः || सुखम् || दुःखम्
|-
| इच्छा || द्वेषः || प्रयत्नः || धर्मः || अधर्मः || संस्कारः || आलोकः || शम || दम || दया
|-
| तितिक्षा || भयम् || लज्जा || गाम्भीर्यम् || सौन्दर्यम् || औदार्य || स्थैर्यम् || शौर्यम् || सौभाग्यम् || बलम्
|}
 
==कर्म==
अस्मिन् दर्शने त्रीणि कर्माणि भवन्ति। विहित, निषिद्ध, उदासीनेति त्रीणि कर्माणि। विहितकर्म पुनः द्विविधम्, काम्यं तथा अकाम्यमिति। फलापेक्षेण कर्म क्रियते तत् काम्यकर्म इति । देवम् उद्दिष्य कर्म क्रियते तत् अकाम्यकर्म भवति । ब्रह्मादि देवानां सर्वेषां काम्याकाम्यकर्मणि भवतः। जीवेषु निषिद्धकर्म अधिकतया भवति । चलनादीनि उदासीनकर्म इति व्यवहारः।
==सामान्यम्==
सामान्यं द्विविधम्। एकं जातिः अपरम् उपाधिः इति। गोत्वम्, मनुष्यत्वम् इत्याद्याः जातयः भवन्ति। सर्वज्ञत्वम्, वाच्यत्वम्, प्रमेयत्वादिकम् उपाधयः भवन्ति। सामन्यं नित्यमनित्यम् इति द्विधा। जीवत्वादीनि नित्यम् भवति। मनुष्यत्वम्, गोत्वमादीनि अनित्यसामान्याम् भवति।
==विशेषः==
वास्तविकतया भेदः न भवति चेदपि कश्चन पदार्थः भेदं जनयति सैव विशेषः भवति। सकलवस्तुषु व्यापृतं भवति। अतः विशेषाः अनन्ताः भवन्ति। देवः केवलं विज्ञानानन्दमयः भवति। अयं विशेषः नान्यत्र भवितुम् अर्हति। अनेनैव जीवेश्वरयोः भेदः स्पष्टं भवति।
==विशिष्टः==
विशेष्ये वेशेषणस्य सम्भन्धात् यः आकारः उत्पद्यते सैव विशिष्टपदार्थः भवति। विशेष्टः नित्यानित्यभेदेन द्विविधः भवति। सर्वज्ञादिविशिष्टाः ब्रह्मादयः नित्याः भवन्ति। दण्डिमानादयः अनित्याः भवन्ति।
==अंशि==
हस्तपादादिभिः विभक्तेषु समग्रावयवेषु व्याप्तम् विशिष्टपदार्थम् अंशिपदार्थः इति व्यवहारः।
==शक्तिः==
सहजशक्तिः, पदशक्तिः, आधेयशक्तिः, अचिन्त्यशक्तिः इति चतुर्धा विभक्ता अस्ति।
*कार्यमात्रं प्रति अनुकूलास्वाभाविका या शक्तिः सा "सहजा" भवति। सर्वेषु व्यापृतं भवति। पदार्थभेदेन एषा नित्यानित्या इति विभाक्ता अस्ति।
*पदपदार्थयोः विद्यमाना(वाच्य-वाचक) शक्तिः "पदशक्तिः" भवति। पदशक्तिः द्विवधा भवति। मुख्य, परममुख्येति द्विधा। उदहरणार्थं “इन्द्रः” इति पदस्य देवेन्द्रः इति अर्थः मुख्यवृत्या लभ्यते। परमेश्वरः इति अर्थः परमुख्यवृत्या लभ्यते इति। परममुख्यवृत्या पदानि सर्वाणि परमेश्वरमेव बोधयन्ति इति।
*अन्यस्मात् स्थापितां शक्तिम् "आधेयशक्तिः" इति व्यवहारः। विधिवत्तया प्रतिष्ठापितमूर्तौ देवातासानिध्यं यत् भवति सा आधेयशक्तिः इति।
*परमात्मनि अलौकिकां शक्तिम् "अचिन्त्यशक्तिः" इति भावयन्ति। एषा केवलं [[विष्णुः|विष्णौ]] एव भवति।
==सादृश्यम्==
साम्यता यत्र भवति तत्र सादृश्यम् भवति इति व्यवहारः। अयं घटः इति ज्ञानं भवति, कालान्तरे घटान्तरं दृष्ट्वा सादृश्यात् अयं घटः इति ज्ञानमायाति।
==अभावः==
अभावः चतुर्धा विभक्तः अस्ति। प्रागभावः, प्रध्वंसाभावः, अन्योन्याभावः, अत्यन्ताभावश्चेति। "प्रागभावोनाम" घटोत्पत्तेः पूर्वस्थितिः(घटप्रागभावः)। घटस्य नाशानन्तरस्थितिः "प्रध्वंसाभावः"। घटः पटो न इति तु "अन्योन्याभावः" भवति। शशविषाणः "अत्यन्ताभावः" भवति।
 
==मुख्यविषयाः==
*भेदः
*विष्णोः सर्वोत्तमत्वम्
*अन्यथाख्यातिः
*भक्तिः
 
==सम्बद्धलेखाः==
*[[मध्वाचार्यः]]
 
==बाह्यसम्पर्कतन्तुः==
* http://www.dvaita.net
* ''Bhakti Schools of Vedanta,'' by Swami Tapasyananda, available at Sri Ramakrishna Math, Chennai. available at India web site: http://www.sriramakrishnamath.org and US site: http://www.vedanta.com and http://www.sanskrit.org/Madhva/madhvateachings.html .
* [http://www.dvaita.org Dvaita.org]
* [http://www.tatvavada.org Tatvavada]
* [http://www.iep.utm.edu/m/madhva.htm Madhva's differences with Sankara and Ramanuja.]
 
==आधाराः==
 
 
<references/>
 
[[वर्गः:द्वैतदर्शनम्]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/द्वैतदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्