Creating the basic page for Portland in Sanskrit - Ver 1.0 - Trying with title in Devanagari

No edit summary
पङ्क्तिः ३३:

'''पोर्टलण्ड्''' ({{lang-en|Portland}}) [[ओरिगन्]] राज्यस्य महिष्ठं नगरं भवति, यत्र [[विलामेट्]] [[कोलम्ब्या]] इत्येतयोः नद्योः संगमं वर्तते | २०१३ वर्षे एतस्य नगरस्य जनसंख्या ६०९,४५६ इति गणिता , यत् कारणात् इदं नगरं राष्ट्रस्य [[वासिततम नगरेषु]] नवविंशतितमम् इति नियोजितम् |

प्रकृष्टायै भूमियोजनायै, लोकयानजालकाय, लघुरेलयानप्रक्षापनाय च पोर्टलण्ड् विश्रुतम् | अतः पर्यावरण-चेतना इत्यस्य क्षेत्रे विश्वराष्ट्रेषु पोर्टलण्ड् [[नगरम्|नगरस्य]] प्रधानम् स्थानं वर्तते |
पोर्टलण्ड् नगरस्य सामुद्र वायुगुणः पाटलपुष्पवर्धनाय समीचीनः भवति | अस्मिन् नगरे नैकानि पाटलपुष्पोद्यानानि सन्ति, यस्मात् एतत् नगरम् "पाटलपुष्पाणां नगरम् " इति कथ्यते |

पोर्टलण्ड् नगरस्य सामुद्र वायुगुणः पाटलपुष्पवर्धनाय समीचीनः भवति | अस्मिन् नगरे नैकानि पाटलपुष्पोद्यानानि सन्ति, यस्मात् एतत् नगरम् "पाटलपुष्पाणां नगरम् " इति कथ्यते |

== इतिहास: ==
Line ४३ ⟶ ४२:
[[File:Portland Oregon in 1890.jpg|thumb|left|१८९० इत्येतस्मिन् वर्षे पोर्टलण्ड् नगरम् ]]

नैकेभ्यः शताब्देभ्यः एषः प्रदेशः देशिक-अमेरिका गोत्र जनानां अधिवासः आसीत् | तेषु केचन [[कोलम्ब्या]] नद्याः परिसरे , केचन वपाटो द्वीपे वसन्ति स्म | समीपस्था टुवालटिन् समभूमि तेषां आखेटभूमि भवति स्म |

१८४३ इत्येतस्मिन् वर्षे [[श्री विल्यम् ओवर्टन्]] इत्येषः [[श्री असा लव्जोय्]] इत्येतस्य धनसाहाय्येन एतां भूमिं क्रीतवान् | अनन्तरं सः भूमिं विभजित्वा अर्धः भागः [[श्री फ़्रान्सिस् पेट्टिग्रोव]] इत्येतस्मै विक्रीतवान् | फ़्रान्सिस् [[बोस्तन्]] नगरात् आसीत् , लव्जोय् तु [[मेयिन्]] राज्यस्य पोर्टलण्ड् नगरात् आसीत् | नूतनायै भूम्यै उभौ स्वस्य-स्वस्य नगरस्य नाम दातुम् इष्टवन्तौ | विवादनिवारणाय तौ नाणकमेकं त्रिवारं क्षिपितवन्तौ , यत्र लव्जोय् महोदयः द्विवारं जयं प्राप्तवान् | ततः प्रदेशस्य नाम पोर्टलण्ड् घोषितंघोषितम् । |

द्वयोः नद्योः [[प्रशान्तमहासागरः|पसिफ़िक् समुद्रस्य]] च सकाशत्वेन पोर्टलण्ड् नगरं वर्धमानः नौकाश्रयः अभवत् |

== भौगोलिकम् ==
[[File:Mt. St. Helens, Mt Rainier, Seen from Mount Calvary Cemetery (Portland, Oregon).jpg|thumb|रेय्न्यर् पर्वतः (वामभागे) आडम्स् पर्वतः च (दक्षिणतः) ]]

पोर्टलण्ड् नगरम् [[ओरिगन्]] राज्यस्य उत्तर-पश्चिम कोणे , पसिफ़िक् समुद्रात 70 क्रोशकाणां दूरे निविष्टं | कोलम्ब्या नदी [[ओरिगन्]] [[वाशिङ्ग्टन्]] इत्येतस्योः राज्ययोः स्वाभाविका सीमा इव प्रवहति | विलामेट् नदी नगरस्य मध्ये आस्रवति अनन्तरं कोलम्ब्या नद्या सह योजयति | [[टुवालटिन् गिरिः|टुवालटिन् गिरयः]] नगरस्य पश्चिम दिशि तिष्ठन्ति | [[कास्केड् पार्वतिकम् ]] एतेषां गिरीणां पूर्व दिशि तिष्ठन्ति | मेघरहितदिनेषु हूड् पर्वतः , हेलेन्स् पर्वतः आडम्स् पर्वतः, कदापि रेय्न्यर् पर्वतः अपि दिग्मण्डले दृश्यते |

{{multiple image
Line ७८ ⟶ ७७:
== वायुगुणः ==

पोर्टलण्ड् नगरस्य वायुगुणः सामुद्रः | ग्रीष्मकालः मन्दोष्णः शुष्कश्च भवति | शीतकालः अनृशंसः आर्द्रश्च भवति | अधिकतमः ग्रीष्मः आगस्ट् मासे अनुभूयते , यदा तापमानं ९० °F (३२ °C) इत्येतस्मात् परम् अपि भवितुं अर्हति | शरद्काले वसन्तकाले च वातावरणं अनिश्चितं भवति, परन्तु प्रायेण परुषेतरेन तापमानेन, मेघावता नभेन, मन्दवर्षया च लाञ्छ्यते | कदाचित् शीतकाले हिमपातः अपि भवति, परन्तु विरलःअल्पश्च |

Line ८४ ⟶ ८३:
== अर्थव्यवस्था ==

पोर्टलण्ड् नगरस्य आधारः नैकेभ्यः उद्यमेभ्यः अर्थशीलः | [[इन्टेल्]] संस्था अत्रत्य प्रधाना महिष्ठा च , यत्र उपपञ्चदशसहस्त्र जनाः कार्यं कुर्वन्ति | सहस्राधिक अन्याः प्रौद्योगिकी उद्योगसंस्थाः अत्र स्थापिताः , यथा [[लाट्टिस् सेमिकण्डक्टर्]] , [[टेक्ट्रोनिक्स्]] , [[ट्रैक्विन्ट् सेमिकण्डक्टर्]] , [[वेफ़र्टेक्]] , [[मेन्टर् ग्राफ़िक्स्]] , [[सिनोप्सिस्]] , यस्मात् अस्मिन् प्रदेशः "सिलिकण् फ़ोरेस्त्" इत्यपि कथ्यते | [[नैकी]] , [[अडिडास्]] इव पादरक्ष निर्माण उद्यमानाम् अपि पोर्टलण्ड् केन्द्रः वर्तते |

== दर्शनयोग्यानि स्थलानि ==

प्रकृत्युपपन्नं एतत् नगरं बहु रमणीयं | नैकानि उद्यानानि जल-संसाधनानि च अस्मिन् नगरे अथवा नगरस्य समीपे सन्ति | [[फ़ोरेस्ट् उद्यानं]] , [[वाशिङ्ग्टन् उद्यानम्]] , [[अन्ताराष्ट्रिय पाटलपुष्पोद्यानं]] , [[जापनीस् उद्यानम्]] इत्येतानि प्रसिद्धानि | नगरात् किञ्चित् बहिः नैकाः सरोवराः, पर्वताः , जलपाताः , स्यन्दनिकाः च सन्ति | शीतकाले एते पर्वताः हिमक्रीडकेन्द्राः भवन्ति |

{{multiple image
Line १३५ ⟶ १३४:
== शिक्षा ==

अस्मिन् नगरे वर्तमानाः प्रधानाः विश्वविद्यालयाः एते - [[पोर्टलण्ड् स्तेट् यूनिवर्सिटी]] , [[यूनिवर्सिटी ओफ़् पोर्टलण्ड्]], [[ओरिगन् हेल्त् आण्ड् सैन्स् यूनिवर्सिटी]], [[पोर्टलण्ड् कम्यूनिटी कोलेज्]] |

== परिवहनम् ==
== परिवहनं ==
वायुमार्गसञ्चाराय नगरस्य बहिर्भागे पोर्टलण्ड् अन्ताराष्ट्रीय विमानपत्तनं भवति | इतः देशस्य सर्वान् प्रधानान् नगरान् प्रति विमानानि डयन्ते | अनेकाः अन्ताराष्ट्रीय विमानाः अपि इतः प्रतिष्ठन्ते |
नगरपर्यटनाय रेलयानानि लोकयानानि च सन्ति | ऐ-५ , ऐ-४०५ , I-२०५ , यू.एस् २६ इत्येते नगरस्य मुख्याः राजमार्गाः |
द्विचक्रिकाचालनानुकूलतायै एतत् नगरं प्रसिद्धम् |

== उल्लेखाः ==
"https://sa.wikipedia.org/wiki/पोर्टलण्ड्" इत्यस्माद् प्रतिप्राप्तम्