(लघु) fixing dead links
पङ्क्तिः १०८:
==कक्षया एवं भूम्याः साकम् सम्वन्धः==
२७.३ दिनेषु एकवारं चन्द्रः [[भूमिः|भूमिं]] परितः परिभ्रमति (चन्द्र्स्य नाक्षत्रिक अवधिः)। किन्तु [[भूमिः|भूमिरपि]] [[सूर्यः|सूर्यस्य]] परिभ्रमणं स्वकक्षायां करोति अतः चन्द्रस्य ताः एव कलाः अस्माभिः २७.५ दिनेषु दृश्यन्ते (चन्द्रस्य यति-अवधिः) चन्द्रः [[भूमिः|भूमेः]] क्रान्तिवृत्तस्य समतलस्य समीपे परिभ्रमति समुद्रस्य उत्कर्षापकर्षं विहायापि भूमिचन्द्रयोः मध्ये परस्परं अनेके परिणामाः भवन्ति । अनेन उत्कर्षापकर्षाभ्यां भूमि – चन्द्रयोः सर्वसामान्यदूरं शतके ४ मीटर् अथवा प्रतिवर्षम् ४ से.मी अधिकं भवति ।
==[[ग्रहणम्]] ==
[[सूर्यः]] [[भूमिः]] एवं चन्द्रः यदा एकस्याम् एव सरलरेखायां वर्तन्ते तदा ग्रहणं सम्भवति । अमावास्यायां चन्द्रः [[सूर्यः|सूर्यस्य]] एवं [[भूमिः|भूमेः]] मध्ये आगच्छति तदा सूर्यग्रहणं सम्भवति। पूर्णिमायाः दिने यदा भूमिः सूर्यचन्द्रयोः मध्ये आगच्छति तदा चन्द्रग्रहणं सम्भवति । सर्वासु पूर्णिमासु अमावास्यासु ग्रहणानि न सम्भवन्ति । पूर्णग्रहणम् एवं कङ्कग्रहणमिति द्विविधे ग्रहणे पश्यामः । पूर्णग्रहणे चन्द्रः सूर्यं सम्पूर्णतया अच्छादयति । इतः परं ६० कोटिवर्षानन्तरं (सूर्यस्य कोनव्यासः न व्यक्रियते येत् ) चन्द्रः [[सूर्यः|सूर्यं]] सम्पूर्णततया आच्छादयितुं न शक्नोति तदा केवलं कङ्कणग्रहणानि एव सम्भवन्ति । कोट्यन्तरवर्षेभ्यः पूर्वं केवलं पूर्णग्रहणानि एव आसन्।
 
==अन्वेषणम्==
[[चित्रम्:Evolution of the Moon.ogv|thumb|300px]]
"https://sa.wikipedia.org/wiki/चन्द्रः" इत्यस्माद् प्रतिप्राप्तम्