"छायाग्राहिका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Taron vl 18 1 gd.jpg|thumb|एका चित्रग्राहिका ]]
===छायाग्राहिका ===
 
मनवैरनेकैः छायाग्राहिका (Camera कैमरा) दृष्टा स्यात् । १८.१ इति चित्रे सा प्रदर्शिता । अत्र निम्नलिखिताः भागाः भवन्ति ।
 
पङ्क्तिः ११:
 
====छिद्रपटम् (Diaphragm) ====
[[Image:Reflex camera simple labels.svg|thumb|upright=1.2|चित्रग्रहिकायाः विविधांशाः]]
लेन्सस्य पृष्ठभागे एव संयुक्त एकं गोलाकारकं छिद्रपटं भवति यस्य मध्ये एकं गोलाकारकं छिद्रं भवति । सुपिरमिदं आवश्यकता नुसारेण सङ्कोच्यं वर्धनीयञ्च भवति । लेन्सतञ्च संक्रम्य छायाग्राहिकाभ्यन्तरे गच्छतः प्रकाशस्य मात्रा न्यूना अधिका वा कर्तुं शक्या भवति ।
 
पङ्क्तिः २२:
====स्लाइडः (Slide)====
इदमेकं चिपिटं प्रकाशरोधकं पिटकं भवति यत्र अन्धकाराच्छन्ने प्रकोष्ठेऽथवा रत्कप्रकाशे पटलं संयुज्यते । यर्हि पटले प्रकाशक्षेपेऽपेक्ष्यते तर्हि स्लाइडस्य तिरस्करिणी अपसार्यते ।
 
==== पटलम् (Plate)====
इदन्तु शीशकमयं भवति यस्य एकस्मिन् तले सिल्वरक्लोराइडस्य, ब्रोमाइडस्य सरेसपदार्थस्य च मिश्रणम् उपलिप्तं भवति । एतेषु रासायनिकपदार्थेषु प्रकाशद्वारा रासायनिक्याः क्रियायाः निष्पत्याः पटले छायाचित्रं सम्पद्यते । पटलस्थाने सैल्यूलाइडस्य फिल्मेष्वपि छायाचित्राणि गृह्यन्ते ।
 
====छायाचित्रग्रहणविधिः====
 
यस्य वस्तुनः छायाचित्रग्रहणं अभिलष्यते तस्य सम्मुखे ततश्च कि~झ्चिददूरे छायाग्राहिकायाः लेन्सः निधीयते आचछादकञ्च अपसर्य वस्तुनः प्रतिबिम्बं घृष्टशीशकस्य तिरस्करिण्यामवलोक्यते । भूयश्च लेन्सस्य तिरस्करिण्याश्च मध्यवर्ति अन्तरालं परिवर्त्य वस्तुनः स्पष्टं प्रतिबिम्बं तिरस्करिण्यां निर्वर्त्यते । पुनश्च छिद्रपटस्य आकारो एतावद्बृहद् क्रियते यत् प्रतिबिम्बे प्रकाशो प्रतिफलेत् । इदानीं अन्धकारावृते प्रकोष्ठे पटलं स्लाइडे इत्थं सन्निवेश्यते यत् पटलस्य यस्मिन् तले रासायनिकः पदार्थः उपलिप्तः भवति स प्रकाशाभिमुखो स्यात् ।
"https://sa.wikipedia.org/wiki/छायाग्राहिका" इत्यस्माद् प्रतिप्राप्तम्