"कल्पना चावला" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
<!-- अस्य लेखस्य tagging and coding अवशिष्टमस्ति -->'''कल्पना चावला'''({{lang-hi|कल्पना चावला}}, {{lang-en|kalpana chavala}} )  इत्यस्याः भारतीयायाः प्रथमायाः अवकाशयात्रिमहिलायाः जीवनं अन्याभिः महिलाभिः स्वल्पम् अपि भिन्नं नासीत् । किन्तु सा बहुसङ्घर्षम् अकरोत् । अनेकान् अवरोधान् अवतीर्य स्वविकासम् अकरोत्, देशस्य कीर्तिं च प्रासारयत् । कल्पनायाः पठनकाले तस्याः पितरौ प्राचीनविचारयुतौ आस्ताम् । अतः तां गृहस्य निकटतमायां [[शाला]]<nowiki/>यां प्रैषयताम् । शाला कीदृशी अपि स्यात् पठितुम् इच्छुकस्य विद्यार्थिनः महत्त्वं भवति इति कल्पना अमन्यत । यः कोऽपि पठितुम् इच्छति वा किमपि कर्तुम् इच्छति तस्मै अवरोधाः बाधकाः न भवन्ति इति अपि कल्पना अमन्यत । पठनकाले इयं अवकाशयात्रां करिष्यति इति केनापि विचारितं नासीत् । करनाल-नामके लघुग्रामे जाता कल्पना अवकाशयाने उपविश्य अवकाशयात्रां कृतवती इति सामान्या सिद्धिः तु नास्ति । दौर्भाग्येन अन्तिमयात्रायां प्रत्यागमनकाले [[कोलम्बिया]]<nowiki/>-यानं नष्टं, तत्र सा मृता ।
== जन्म परिवारश्च ==
१९६१ तमस्य वर्षेस्य जुलाई-मासस्य प्रथमे (१) दिनाङ्के [[हरियाणाराज्य]]<nowiki/>स्य करनाल-ग्रामे तस्याः जन्म अभवत् । तस्याः पितुः नाम बनारसीलाल चावला, मातुः नाम सजोगता खरबंदाखरबन्दा इति च आसीत् । बनारसीलाल इत्यस्य चतस्रः सन्ततिः आसन् । कल्पना, सुनीता, दिया इति तिस्रः पुत्र्यः आसन् । सञ्जयः इति एकः पुत्रः आसीत् । चावला-परिवारः सुखी, सम्पन्नः च आसीत् । पिता बनारसीलाल इत्यस्य चक्राणाम् (टायर्) उत्पादनस्य उद्योगः आसीत् । सः तस्मात् बहुधनम् अर्जति स्म । १९४७ तमे वर्षे [[भारत]]<nowiki/>स्य विभाजनम् अभवत् । तदनन्तरम् अपि चावला-परिवारः भारतस्य करनाल-ग्रामे निवासम् अकरोत् । बनारसीलाल [[हिन्दु]]<nowiki/>-मुस्लिम्-जनानां अतिकठोरैः साम्प्रदायिकहिंसादिभिः प्रसङ्गैः अनुभवं प्राप्तवान् । अतः अन्यासां समस्यानां मार्गस्य अन्वेषणं तस्य कृते सरलम् आसीत् ।
== बाल्यं शिक्षणं च ==
कल्पनायाः जन्मसमये परिवारस्य आर्थिकी स्थितिः समीचीना आसीत् । करनाल-ग्रामे बालिकाभ्यः [[शिक्षा]]<nowiki/>प्रदानं स्वल्पम् एव भवति स्म । 50 विद्यार्थिनां कक्षे द्वे वा तिस्रः एव बालिकाः भवन्ति स्म । कल्पनायाः वर्गेऽपि तथैव आसीत् । पिता तां पठितुं गृहस्य समीपवर्तिन्यां टागोर बालनिकेतन नामिकायां शालायां प्रैषयत् । इयं [[शाला]] गृहस्य निकटा आसीत् इति कारणं विहाय तस्याः शालायाः अपरं किमपि वैशिष्ट्यं नासीत् । तथापि कल्पना वर्गे १ तः ५ क्रमेषु एकं क्रमं प्राप्नोति स्म । कल्पना प्रारम्भादेव कल्पनाशीला आसीत् । चित्रस्य वर्गे विमानस्य चित्रस्य चित्रणं तस्यै रोचते स्म । तस्याः बाल्यकालस्य मित्रं डेझी चावला इति आसीत् । उभयोः स्वभावे असमानतायां सत्यामपि प्रगाढा मित्रता आसीत् । कल्पनायाः [[अमेरिका]]<nowiki/>-देशे गमनं यावत् तयोः मित्रता आसीत् । करनाल-ग्रामे स्वस्याः प्रारम्भिकम् अध्ययनं समाप्य सा [[पञ्जाबराज्य]]<nowiki/>स्य एन्जिनियरिङ्ग् महाविद्यालये एरोस्पेस्-विषये पठनं कर्तुम् अविचारयत् । अयं महाविद्यालयः [[चण्डीगढ]]<nowiki/>-नगरे अस्ति । [[चण्डीगढ]]<nowiki/>-नगरं [[गुजरातराज्य]]<nowiki/>स्य [[गांधीनगर]]<nowiki/>वत् आयोजनपूर्वकं निर्मितं सेक्टर् इत्येतेषु विभाजितं सुन्दरं नगरम् अस्ति । तत्र १४ महाविद्यालयाः सन्ति । तत्र चिकित्सासंशोधनस्य महत्त्वपूर्णं केन्द्रम् अस्ति । एभिः कारणैः पठितुम् इच्छुकेभ्यः छात्रवासस्य व्यवस्था समीचीना अस्ति । यदा कल्पना स्वज्येष्ठभ्रात्रा सञ्जयेन सह [[चण्डीगढ]]<nowiki/>-नगरं गता तदा महाविद्यालयस्य नगरस्य च वातावरणं तस्यै अरोचत । तदानीं पठनस्य एतादृशं मुक्तं वातावरणम् अन्यत्र कुत्रापि न प्राप्यते स्म ।
पङ्क्तिः ४०:
१५ दिनानि अन्तरिक्षे स्थित्वा ८० वैज्ञानिकैः प्रयोगाः पूर्णाः कर्तव्याः इति नियोगः (Mission) आसीत् । इयम् अवकाशयात्रा [[कोलम्बिया]]<nowiki/>-अवकाशयानस्य २८ तमा यात्रा आसीत् । सामान्यतया १०० यात्राः कर्तुं सक्षमं कोलम्बिया-यानं पुरातनं तु नासीत् तथापि ७ कोटि डोलर् व्ययं कृत्वा [[कोलम्बिया]]<nowiki/>-अवकाशयानं पुनः सज्जीकृतम् । तकनिकी-दोषान् अपाकर्तुं वर्षद्वयम् अभवत् । दोषाणाम् अपाकरणानन्तरम् एस्.टी.एस्.-१०७ यानम् अभियानाय प्रेषितम् ।
== कोलम्बिया-यानस्य विस्फोटः ==
१ कोटि कि.मी. अन्तरिक्षप्रवासं कृत्वा अनैकैः संशोधनभण्डारैः [[कोलम्बिया]]<nowiki/>-यानं पृथ्वीं प्रति आगच्छत् आसीत् । यदा अवकाशयानम् अन्तरिक्षात् वायुमण्डलं प्रविशति, तदा जीवभयः भवति । तस्य कारणम् अवकाशयानस्य गतिः प्रतिघण्टा २५०० कि.मी. भवति । एतावत्यां गतौ यानं यदा वायुमण्डलं प्रविशति, तदा घर्षणेन ऊर्जायाः उत्पादनं भवति । इयम् ऊर्जा यानं भस्मीकुर्यात् तादृशी ज्वलन्तशीला भवति । इयं घर्षणोर्जा वायोः घनत्वस्य, वायोः कणानां, यानस्य गतेः च उपरि निर्भरा अस्ति । दौर्भाग्यात् वायुमण्डले प्रवेशानन्तरं घर्षणेन २००३ तमस्य वर्षस्य फरवरी-मासस्य १ तमे दिनाङ्के रात्रौ ९ वादने [[कोलम्बिया]]<nowiki/>-अवकाशयानं २०,३०,००० फीट् औन्नत्ये स्फोटितं सत् उत्तरमध्य-टेक्सास् इत्यत्र पतितम् । स्फोटसमये यानं भ्रमणकक्षातः वातावरणं प्रविश्य केनडी स्पेस् केन्द्रं प्रति गच्छत् आसीत् । यानं पृथ्वीतः केवलं १६ निमेषाः दूरमासीत् । विस्फोटेन यानस्य ७०,००० खण्डानि अभवन् । २००३ तमस्य वर्षस्य अप्रैल-मासस्य १६ दिनाङ्के [[नासा]]<nowiki/>-संस्था दुर्घटनास्थलात् कोट्यधिकं कि.मी. यावत् अन्वेषणं कृत्वा यानस्य खण्डान् एकत्रितान् अकरोत् । वैज्ञनिकाः मासत्रयस्य परिश्रमान्ते विस्फोटस्य कारणं ज्ञातुं यानस्य खण्डान् संशोधनार्थं [[फ्लोरिडा]]<nowiki/>-अवकाशकेन्द्रं प्रेषितवन्तः ।
== कल्पनायाः मृत्युः ==
यदा पृथ्वीतः लक्षाधिके औन्नत्ये प्रचण्डः विस्फोटः अभवत्, तदा [[कोलम्बिया]]<nowiki/>-अवकाशयाने उपविष्टाः कल्पनासहिताः सप्त यात्रिणः अवकाशयात्रायाः अनन्तयात्रां गताः । विस्फोटेन ऊर्जायाः उत्पादनम् अभवत्, अतः यात्रिणां [[शरीरम्|शरीरं]] भस्मम् अभवत् । कस्यापि यात्रिणः चिह्नम् अपि न प्राप्तम् । सर्वत्र जनाः दुःखाविष्टाः आसन् । जनैः सर्वत्र श्रद्धाञ्जली, शोकाञ्जली च प्रदत्ता । कल्पना चावला दन्तकथा अभवत् । शालासु, महाशालासु विद्यार्थिभिः मौनेन श्रद्धाञ्जली प्रदत्ता । कल्पना चावला स्वस्याः कठोरेण परिश्रमेण महिलाः किमपि कर्तुं शक्नुवन्ति इति सन्देशं दत्तवती ।
== मरणोत्तराः पुरस्काराः ==
1. [[नासा]] अन्तरिक्षयात्रा पुरस्कारः
"https://sa.wikipedia.org/wiki/कल्पना_चावला" इत्यस्माद् प्रतिप्राप्तम्