"स्वच्छभारताभियानम्" इत्यस्य संस्करणे भेदः

<!-- I am working on this article please write your massage on talk page before editing. Thank you --> '''स्वच्... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
'''स्वच्छभारताभियानम्''' ({{lang-hi|स्वच्छ भारत अभियान}}, {{lang-en|Clean India Mission}}) इत्याख्यं महाभियानं [[भारतगणराज्य]]स्य [[प्रधानमन्त्रि]]णा [[नरेन्द्र दामोदरदास मोदी|नरेन्द्र मोदी]]-महाभागेन उद्घोषितम् <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://pmindia.gov.in/en/news_updates/pm-reviews-preparations-for-launch-of-mission-swachh-bharat/ |work=जनहिताय उद्घोषणा|publisher=भारतसर्वकारः|accessdate=२८/१२/२०१४}}</ref> । २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये (२ / १०/ २०१४) दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्के [[भारतम्|भारतगणराज्य]]स्य पूर्व[[प्रधानमन्त्रि]]णः [[लाल बहादूर शास्त्री]]-महोदयस्य, राष्ट्रपितुः [[मोहनदास करमचन्द गान्धी|महात्मनः]] च जन्मदिवसत्वेन आभारतम् उत्सवम् आचरति । तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य अभियानस्य आरम्भः अभवत् <ref>{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref> ।
<!-- I am working on this article please write your massage on talk page before editing. Thank you -->
 
== इतिहासः ==
'''स्वच्छभारताभियानम्''' ({{lang-hi|स्वच्छभारत अभियान}}, {{lang-en|Clean India Movement}}) अधुना भारतगणराज्यस्य प्रधानमन्त्रिणा उद्घोषितं महाभियानम् अस्ति । तस्मिन् अभियाने आभारतं जनाः स्वयोगदानं यच्छन्तः सन्ति । भारतगणराज्यस्य विभिन्नेषु क्षेत्रेषु ख्यातिं प्राप्ताः महानुभावाः अपि अभियानेऽस्मिन् स्वयोगदानं कुर्वन्ति ।
 
२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/२०१४) दिनाङ्के [[स्वतन्त्रतादिन]]पर्वणि [[भारतम्|भारतगणराज्यस्य]] [[प्रधानमन्त्रि]]णा [[नरेन्द्र मोदी]]-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात् [[महात्मजयन्ती]]पर्वदिनात् आरभिष्यति इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के [[नवदेहली]]-महानगरस्थे राजघाटे [[प्रधानमन्त्री]] [[नरेन्द्र मोदी]] [[भारतं]] न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति । तस्मिन् दिने स्वयं [[प्रधानमन्त्री]] स्वहस्ते मार्जनीं धृत्वा [[नवदेहली]]-महानगरस्थे मन्दिरमार्गे स्वच्छता कार्यं प्रारभत ।
 
== अभियानस्य उद्देश्यम् ==
 
वर्तमान[[भारत]]देशः आधुनिकः देशः इति आविश्वं चर्चा अस्ति । सः देशः [[चन्द्रयानं]] निर्मिय चन्द्रारोहणं कृतवान्, परन्तु अद्यापि तस्य देशस्य नागरिकाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति । यत्र कुत्रापि अवकरं प्रक्षेपयन्ति । ते यत्र कुत्रापि ष्ठीवन्ति (थूँकते हैं) । एतादृशैः वाक्यैः देशाभिमानिनः बहुपीडाम् अनुभवन्ति । वर्तमानभारते ७२% जनाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://hindi.mapsofindia.com/government-of-india/swachh-bharat-abhiyan.html|work=जनहिताय उद्घोषणा|publisher= hindi.mapsofindia.com|accessdate=२८/१२/२०१४}}</ref> । तेषु अधिकाः जनाः ग्रामवासिनः सन्ति । वृक्षावरणेषु, कृषिक्षेत्रेषु, मार्गस्य समीपं च अधिकाः जनाः शौचं कुर्वन्ति । तेन अनेकाः समस्याः समुत्पद्यन्ते । बालकानाम् अकालमृत्युः, सङ्क्रणयुक्तानां रोगाणां विस्तारः, शौचस्थानं जनविहीनम् एव भवति, अतः महिलानां [[बलात्कार]]स्य घटनाः अधिकाः भवन्ति इत्यादयः अनेकाः समस्याः सन्ति <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://hindi.mapsofindia.com/government-of-india/swachh-bharat-abhiyan.html|work=जनहिताय उद्घोषणा|publisher= hindi.mapsofindia.com|accessdate=२८/१२/२०१४}}</ref> । तासां समस्यानां निवारणं भवेत्, अतः स्वच्छभारताभियानस्य परिकल्पना समुद्भूता । उक्तस्य उद्देश्यस्य पूर्त्यै एव अभियानस्यास्य आरम्भः अभवत् । परन्तु अनेन सह अन्यानि कारणानि अपि सम्मिलितानि आसन् ।
 
२०१९ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१९) दिनाङ्के [[मोहनदास करमचन्द गान्धी|महात्मनः]] १५० तमा जन्मजयन्ती अस्ति । यतो हि [[मोहनदास करमचन्द गान्धी|महात्मनः]] प्रियतमेषु कार्येषु स्वच्छताकार्यम् अपि अन्यतमम् आसीत् । अतः तस्य १५० तमायाः जन्मशताब्द्याः दिने [[मोहनदास करमचन्द गान्धी|महात्मना]] ईप्सितं स्वच्छं भारतं तस्मै समर्पयामः इति अस्य अभियानस्य अपरः उद्देशः वर्तते । एतत् अभियानं पञ्चवर्षात्मकम् अस्ति । स्वच्छभारताभियानं [[भारतम्|भारतगणराज्य]]स्य सर्वकारेण सञ्चालितम् अभियान् अस्ति । एतेषु पञ्चवर्षेषु ४,०४१ नगराणां वीथिकाः, मार्गान्, क्षेत्राणि च स्वच्छं कर्तुम् तस्य अभियानस्य उद्घोषः अभवत् <ref>{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref> ।
 
[[लाल बहादूर शास्त्री]]-महोदयेन अस्मभ्यं मन्त्रः दत्तः आसीत् यत्, 'जय जवान, जय किसान' इति । तस्य आह्वानेन आभारतं कृषिक्रान्तिम् अकरोत् । यदा तेन [[भारत]]स्य आह्वानं कृतम् आसीत्, तदा [[भारतम्|भारतगणराज्य]]स्य सामान्यात् अतिसामान्यः जनः अपि तस्य उद्घोषं सफलीकर्तुं प्रयासम् अकरोत् । तथैव एतस्य अभियानस्य कृते अपि भवतु इति । यदि तस्मिन् काले [[भारतम्]] अकरोत्, तर्हि अद्यापि करिष्यति इत्यपि अन्यतमः उद्देशः <ref>{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref> ।
 
== व्ययः ==
 
अस्य अभियानस्य सफलतायै, क्रियान्वयाय च [[भारत]]सर्वकारेण {{INR}} ६२,००० कोटिरूप्यकाणां व्ययस्य अनुमानं कृतम् अस्ति । तस्याः धनराशेः विभाजनं द्वयोः आयामयोः कल्पितम् अस्ति । १. केन्द्रसर्वकारः २. राज्यसर्वकारः उत नगरपालिका । उभयोः क्रमेण ७५%, २५% च व्ययविभाजनं कल्पितम् अस्ति । एषा योजना सामान्यराज्येभ्यः अस्ति । उत्तर-पूर्वीय-राज्येभ्यः, विशेषराज्येभ्यश्च केन्द्रसर्वकारः ९०%, राज्यसर्वकारः १०% च धनराशिं योजयिष्यतः इति योजना <ref>{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref> ।
 
== अभियानस्य प्रारूपम् ==
 
स्वच्छभारताभियानं तु भारतीयानां कृते उद्घोषितम् अभियानं वर्तते । अतः केवलं राजनैतिकक्षेत्रीयाः, सर्वकारस्य जनाः, कर्मकराः च अभियानेऽस्मिन् कार्यं कुर्युः इति अयोग्यं मन्यते <ref>{{cite web| title= स्वच्छभारताभियानम् २|url= http://zeenews.india.com/news/india/pm-narendra-modi-with-broom-launches-swachh-bharat-abhiyan-says-its-patriotism-not-politics_1479062.html |work= झी न्यूझ |publisher=झी न्यूझ|accessdate=२८/१२/२०१४}}</ref> । एवं हि [[भारतवर्षम्]] अत्यन्तं विशालं वर्तते, सर्वकारस्य साधनानि न्यूनानि भवन्ति अभियानाय । अतः सर्वकारेण, सामाजिकसंस्थाभिः, नागरिकैः च मिलित्वा कृतः प्रयासः एव भारतं स्वच्छं कर्तुं शक्नोति । सः प्रयासः कीदृशः भवेत् चेत्,
 
१. अनावृत्ते स्थले (on open place) शौचः निराभवेत् ।
 
२. आरोग्यविघातकानां शौचालयानां स्थाने फ्लश्-शौचालयानां संस्थापनं करणीयम् ।
 
३. To Eradicate manual scavenging
 
४. नगरपालिकास्थूल-अपशिष्टस्य (Municipal solid waste - MSW) सङ्ग्रहं तथा तस्य स्थूलापशिष्टस्य वैज्ञानिकरीत्या प्रसंस्करणं/नाशः करणीयः । यदि तस्य स्थूलापशिष्टस्य प्रक्रियानन्तरं पुनरोपयोगः शक्यः, तर्हि पुनरुपयोगाय प्रयासः करणीयः ।
 
५. योग्यस्वच्छतायाः गुणान् अङ्गीकर्तुं जनानां व्यवहारेषु परिवर्तनं करणीयम् ।
 
६. सार्वजनीकस्वास्थ्यसम्बद्धां जागृत्यर्थं जनसामान्यं स्वच्छतायाः नागरिकाणां जीवनेन सह सम्बन्धः बोधनीयः ।
 
७. स्वच्छताकार्यस्य परिकल्पनायै, क्रियान्वयाय, व्यवस्थायै च क्षेत्रीयनगरनिगमविभागं बलवत् करणीयम् ।
 
८. स्वायत्तक्षेत्रस्य (Private Sector) योगदानाय योग्यं वातावरणं निर्मातव्यं, येन धनव्ययार्थम्, अपशिष्टसङ्कलनकार्यस्य क्रियान्वयाय, अनुसंरक्षणाय (Maintenance) च सहायता भवेत् <ref>{{cite web| title=अभियानस्य प्रारूपम् |url= http://hi.vikaspedia.in/health/sanitation-and-hygiene/93894d93591a94d91b-92d93e930924-92e93f936928 |work= vikaspedia.in |publisher= hi.vikaspedia.in|accessdate=२९/१२/२०१४}}</ref> ।
 
== अभियानस्य आन्तरिकयोजनाः ==
 
१. गृहान्तर्गतस्य शौचालयस्य रचना करणीया ।
 
२. सार्वजनीकशौचालयानां, सुदायीकशौचालयानां च निर्माणम् ।
 
३. स्थूलापशिष्टस्य प्रबन्धनम् ।
 
४. नागरिकाणां जागरूरकतायै सूचनादानं, प्रशिक्षणदानं, सम्प्रेषणवृद्धिः च करणीया ।
 
५. स्वच्छतायै क्षमतावर्धनस्य, प्रशासनिक-कार्यालयव्यस्य प्रबन्धनम् <ref>{{cite web| title=अभियानस्य आन्तरिकयोजनाः |url= http://pib.nic.in/newsite/PrintRelease.aspx?relid=113643|work= भारतसर्वकारः |publisher= भारतसर्वकारः|accessdate=२९/१२/२०१४}}</ref> ।
 
== अभियानस्य मुख्याङ्गानि ==
 
स्वच्छभारताभियानस्य प्रमुखानि त्रीणि अङ्गानि सन्ति । तानि नगरक्षेत्रेभ्यः स्वच्छभारताभियानं, ग्राम्यक्षेत्रेभ्यः स्वच्छभारताभियानं, विद्यालयेभ्यः स्वच्छभारताभियानञ्च ।
 
=== नगरक्षेत्रेभ्यः स्वच्छभारताभियानम् ===
 
आभारतं नगराणां १.०४ कोटिपरिवारम् उद्दीश्य २.५ कोटिसामुदायिकशौचालयानां, २.६ कोटिसार्वजनीकशौचालयानां च निर्माणस्य परिकल्पना अस्ति । प्रत्येकस्मिन् नगरे नूनाति नूनम् एकं स्थूलापशिष्टप्रबन्धनकेन्द्रं स्थापयितुम् अपि योजना वर्तते । नगरस्थेषु येषु गृहेषु शौचालयनिर्माणाय अवकाशः नास्ति, तेषां कृते सामुदायिकशौचलयनिर्माणस्य योजना अस्ति । पर्यटनस्थलेषु, आपणेषु, बस्-स्थानकेषु, रेल्-स्थानकेषु च सार्वजनीकशौचालयानां निर्माणयोजना अस्ति <ref>{{cite web| title=अभियानस्य आन्तरिकयोजनाः |url= http://pib.nic.in/newsite/PrintRelease.aspx?relid=113643|work= भारतसर्वकारः |publisher= भारतसर्वकारः|accessdate=२९/१२/२०१४}}</ref> ।
 
=== ग्राम्यक्षेत्रेभ्यः स्वच्छभारताभियनम् ===
 
ग्राम्यक्षेत्रस्य अभियानं किञ्चित् भिन्नरीत्या भविष्यति । यतो हि अधिका समस्या ग्राम्यक्षेत्रेषु एव वर्तते । ग्राम्यजनेषु स्वच्छतायाः जागरुकता आवश्यकी वर्तते । तेषां नित्य-नैमित्तिकेषु कार्येषु स्वच्छतां प्रति सर्तकतायाः अभावः दरीदृश्यते, तस्य कृते प्रशिक्षणस्य, मार्गदर्शनस्य, सुविधानां च व्यवस्था भविष्यति । ततः तेषां जीवनस्य स्तरं परिवर्तयितुं प्रयासः भविष्यति । ग्राम्यक्षेत्रेषु गृहशौचालयस्य अभावः अस्ति । आभारतं ६०% ग्रामवासिनः अनावृत्तं शौचं कुर्वन्ति । एतस्याः स्थित्याः निराकरणार्थम् अधिकाधिकेषु गृहेषु शौचालयनिर्माणाय कार्यं भविष्यति <ref>{{cite web| title=अभियानस्य आन्तरिकयोजनाः |url= http://pib.nic.in/newsite/PrintRelease.aspx?relid=113643|work= भारतसर्वकारः |publisher= भारतसर्वकारः|accessdate=२९/१२/२०१४}}</ref> ।
 
=== विद्यालयेभ्यः स्वच्छभारताभियानम् ===
 
समाजस्य भविष्यं बालकाः भवन्ति । अतः अभियानेऽस्मिन् स्वच्छभविष्यस्य निर्माणार्थम् अपि प्रयासाः भविष्यन्ति । तस्य कृते विद्यालयेभ्यः भिन्नरीत्या स्वच्छताभियानस्य परियोजना सर्वकारेण कृता अस्ति । तस्यै परियोजनायै केचन मुख्यांशाः विचारिताः सन्ति ।
 
१. विद्यालये जलं, स्वच्छता, स्वास्थ्यरक्षा च
 
२. जलस्य, स्वच्छतायाः, स्वास्थ्यरक्षायाः च विद्यालयेषु स्थितिः
 
३. पाठ्यक्रमेषु स्वच्छविद्यालयस्य अभ्यासः
 
४. स्वच्छतायाः परिकल्पना (विद्यालयस्तरे)
 
५. स्वच्छताभियानस्य क्रियान्वयम्
 
६. मार्गेषु, यात्रायां च स्वच्छतायाः योग्यपद्धतीनां व्यवहारः सामुहिकहस्तप्रक्षालनस्य व्यवस्था
 
७. पाकशालायाः स्वच्छतायै मार्गदर्शनं, व्यवस्था च
 
८. विद्यार्थिनां कृते, विद्यार्थिनीनां च कृते भिन्नशौचालयस्य सुविधा <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://mhrd.gov.in/sites/upload_files/mhrd/files/upload_document/Eng_Swachch%20Bharat%20Swachch%20Vidhalaya.pdf|publisher= http://mhrd.gov.in/|accessdate=२८/१२/२०१४}}</ref>
 
उक्तानाम् अंशानां क्रियान्वयदृष्ट्या सर्वकारः प्रत्यक्षं नियन्त्रणं करिष्यति । यतो हि भारतगणराज्यस्य विद्यालयेषु स्वच्छतायाः अभावः विद्यते । भारतसर्वकारस्य संशोधनानुसारं १९.३ कोटिविद्यार्थिषु ५ कोटिविद्यार्थिनां कृते पेयजलस्य सुविधा नास्ति <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://mhrd.gov.in/sites/upload_files/mhrd/files/upload_document/Eng_Swachch%20Bharat%20Swachch%20Vidhalaya.pdf|publisher= http://mhrd.gov.in/|accessdate=२८/१२/२०१४}}|page=9</ref> । आभारते १,५२,२३१ विद्यालयेषु विद्यार्थिनां कृते शौचालयाः न सन्ति । तथा च १,०१,४४३ विद्यालयेषु विद्यार्थिनीनां कृते शौचालयाः न सन्ति <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://mhrd.gov.in/sites/upload_files/mhrd/files/upload_document/Eng_Swachch%20Bharat%20Swachch%20Vidhalaya.pdf|publisher= http://mhrd.gov.in/|accessdate=२८/१२/२०१४}}|page=12</ref> । येषु विद्यालयेषु शौचालयः अस्ति, तेषु जलस्य व्यवस्था एव नास्ति । आभारते २७.४% विद्यालयेषु विद्यार्थिशौचालये जलस्य व्यवस्था नास्ति । तथा च ३१.५% ५४ विद्यालयेषु विद्यार्थिनीनां शौचालये जलव्यवस्था नास्ति <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://mhrd.gov.in/sites/upload_files/mhrd/files/upload_document/Eng_Swachch%20Bharat%20Swachch%20Vidhalaya.pdf|publisher= http://mhrd.gov.in/|accessdate=२८/१२/२०१४|page=12}}</ref> ।
 
==== विद्यालयीयप्रवृत्तिषु स्वच्छताभियानम् ====
 
१. विद्यालयेषु कक्षायाः समये विद्यार्थिभिः सह स्वच्छतायाः विषये चर्चा भवेत् । स्वच्छतायाः विभिन्नानां विषयाणां [[मोहनदास करमचन्द गान्धी|महात्मनः]] विचारैः सह सम्बन्धं संस्थाप्य विद्यार्थिषु स्वच्छतायै जागरूकता आनीया ।
 
२. कक्षा, प्रयोगशाला, पुस्तकालयः इत्यादीनां प्रकोष्ठानां स्वच्छता करणीया ।
 
३. विद्यालये स्थापितां मूर्तिं (सरस्वतीमातुः, संस्थायाः स्थापकस्य मूर्तिं) प्रतिदिनं स्वच्छं करणीयम् । तथा च संस्थापकस्य योगदानस्य विषयेऽपि चर्चा करणीया ।
 
४. शौचालयं, पेयजलस्थानकं च स्वच्छं करणीयम् ।
 
५. पाकशालां, भाण्डागारं च स्वच्छं करणीयम् ।
 
६. निबन्धलेखने, वाद-विवादस्पर्धायां, चित्रकलायां च स्वच्छतासम्बद्धाः प्रतियोगिताः आयोजनीयाः <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://hi.vikaspedia.in/health/sanitation-and-hygiene/93894d93591a94d91b-92d93e930924-92e93f936928|publisher= vikaspedia |accessdate=३०/१२/२०१४}}</ref> ।
 
== अभियानविषये [[नरेन्द्र मोदी]]-महोदयस्य चिन्तनम् ==
 
{{cquote|[[मोहनदास करमचन्द गान्धी|महात्मनः]] स्वप्नद्वयम् आसीत् । '''एकं स्वतन्त्रभारतम्, अपरं स्वच्छभारतम्''' । स्वतन्त्र[[भारत]]स्य स्वप्नं पूर्णं कर्तुं भारतीयैः [[मोहनदास करमचन्द गान्धी|महात्मनः]] सहायता कृता परन्तु इतोऽपि स्वच्छभारतस्य स्वप्नम् अवशिष्टम् अस्ति । अतः भारतीयत्वेन अस्माकं दायित्वम् अस्ति यत्, २०१९ तमस्य वर्षस्य [[मोहनदास करमचन्द गान्धी|महात्मनः]] १५० तमायाः जन्मजयन्त्याः उत्सवं वयं स्वच्छभारते कृत्वा तस्य स्वप्नं पूर्णं कुर्मः ।}}
 
{{cquote|भारतीयाः स्वच्छभारताभियानं जनान्दोलने परिणमेयुः । जनाः दृढनिश्चयं कुर्युः यत्, अहम् अस्वच्छतां न करिष्यामि तथा च अस्वच्छतां कर्तुम् अन्यम् अवसरम् अपि न दास्यामि <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://articles.economictimes.indiatimes.com/2014-09-19/news/54109104_1_prime-minister-narendra-modi-mass-movement-clean-india|work= indiatimes|publisher= indiatimes |accessdate=३०/१२/२०१४}}</ref> ।}}
 
{{cquote|विश्वस्वास्थ्यसङ्घटनस्य अन्वेषणानुसारं [[भारतम्|भारतगणराज्ये]] अस्वच्छतायाः कारणेन प्रत्येकस्य व्यक्तेः कृते ६५०० रूप्यकाणि व्यर्थानि व्ययन्ति । स्वच्छभारताभियानस्य साफल्येन निर्धनव्यक्तीनां धनरक्षणं भविष्यति । अतः देशवासिनः प्रतिवर्षं शतं (१००) घण्टाः श्रमदानं कुर्युः <ref>{{cite web| title= नमो स्वच्छतायै|url= http://www.narendramodi.in/hi/pm-launches-swachh-bharat-abhiyaan/|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=३१/१२/२०१४}}</ref> ।}}
 
{{cquote|राष्ट्रवासिनः एतत् अभियानं राजनीत्याः उपचक्षुसा (spectacles) मा पश्यन्तु, परन्तु राष्ट्रभक्तायाः, जनस्वास्थ्यस्य च कटिबद्धतया सह योजयित्वा पश्यन्तु<ref>{{cite web| title= नमो स्वच्छतायै|url= http://www.narendramodi.in/hi/pm-launches-swachh-bharat-abhiyaan/|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=३१/१२/२०१४}}</ref> ।}}
 
== स्वच्छताप्रतिज्ञा ==
 
<pre>
अहं शपथं करोमि यत्, अहं स्वयं स्वच्छतायै सर्वदा जागृतः/जागृता भूत्वा तस्यै योगदानं करिष्यामि ।
प्रतिवर्षम् अहं १०० घण्टाः अर्थात् प्रतिदिनं घण्टाद्वयं श्रमदानं कृत्वा स्वच्छतायाः सङ्कल्पं चरितार्थं करिष्यामि ।
अहम् अस्वच्छतां न करिष्यामि तथा च अस्वच्छतां कर्तुम् अवसरम् अपि न दास्यामि ।
प्रप्रथमम् अहं स्वस्मात्, स्वपरिवारात्, स्ववीथ्याः, स्वग्रामात्, स्वस्य कार्यस्थलात् च स्वच्छतायै प्रयासं प्रारभिष्यामि ।
अहं मन्ये यत्, विश्वस्मिन् ये देशाः स्वच्छाः दरीदृश्यन्ते, तेषां स्वच्छतायाः कारणम् अस्ति यत्, तस्य देशस्य नागरिकाः अस्वच्छतां न कुर्वन्ति
तथा च अस्वच्छतां कर्तुम् अवसरम् अपि न यच्छन्ति । अद्याहं यं शपथं स्वीकरोमि, तम् अन्यैः शतैः (१००) अपि कारयिष्यामि ।
अहं जनामि यत्, स्वच्छतां प्रति स्थापितः मम एकः चरणः आभारतं स्वच्छं कर्तुं साहाय्यं करिष्यति ।
</pre>
 
भारतमाता विजयतेतराम्
 
जयतु भारतम्
 
== स्वच्छभारताभियानविषये महानुभावानां वचांसि ==
 
=== [[राष्ट्रपतिः]] [[प्रणब मुखर्जि]] ===
 
{{cquote|I call upon every Indian to do his utmost to make a success of the 'Swachh Bharat Abhiyan' launched by the government to ensure hygiene, waste management and sanitation across the country <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://articles.economictimes.indiatimes.com/2014-10-01/news/54517033_1_cleanliness-mahatma-gandhiji-success |work= indiatimes|publisher= indiatimes |accessdate=३०/१२/२०१४}}</ref>.}}
 
=== [[अनिल अम्बाणि]] ===
 
{{ cquote|I am honoured to be invited by our respected Prime Minister Shri Narendrabhai Modi to join the "Swachh Bharat Abhiyan"... I dedicate myself to this movement and will invite nine other leading Indians to join me in the "Clean India" campaign...<ref>{{cite web| title= स्वच्छभारताभियानम् |url=http://www.newindianexpress.com/nation/Anil-Ambani-Takes-Swachh-Bharat-Campaign-to-Badri-Kedar/2014/10/18/article2483917.ece|work=newindianexpress|publisher= newindianexpress|accessdate=३०/१२/२०१४}}</ref>}}
 
=== [[अमिताभ बच्चन]] ===
 
{{cquote|A lot of Bollywood celebrities have joined PM Narendra Modi's Swachh Bharat campaign and recently, Amitabh Bachchan extended his support to the drive. The veteran actor was seen with a broom sweeping the streets and even picking up collected garbage. Dressed in a tracksuit, Big B set an example of cleanliness for his fans. He also posted on microblogging site, twitter, "It was 'Swach Bharat Abhiyaan' .. went on the streets and broomed and collected dirt to clean up the place. The 'Swach Bharat Abhiyaan' .. personalised !! Let every one deserve to be involved.<ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/Swachh-Bharat-Bollywood-celebrities-support-PM-Narendra-Modis-stand/photostory/44979297.cms |work= timesofindia|publisher=indiatimes|accessdate=३०/१२/२०१४}}</ref>}}
 
=== [[प्रियङ्का चोपडा]] ===
 
{{cquote| I humbly accept respected Prime Minster Narendra Modiji's challenge. This is an idea that is long overdue. There is no time like the present to begin the journey towards change. Recognise that we r doing this for ourselves. If we don't get involved & support this campaign, nothing can happen. But if we come together we can make a difference. Every action we take will be important. I want to make the change. I want a clean India. It's time to clean up our act.<ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/Swachh-Bharat-Bollywood-celebrities-support-PM-Narendra-Modis-stand/photostory/44207749.cms|work= timesofindia|publisher=indiatimes|accessdate=३०/१२/२०१४}}</ref>}}
 
=== [[कमल हसन]] ===
 
{{cquote| Let me thank our honourable PM for naming me among this august list. I don't think it's a new duty that I have been appointed to. I think it's recognition of what I have been already doing and I thank the PM office for recognizing that. I am sure that some of my peers have also been chosen for what they have already done and are capable of. My work continues. It's not a public relations exercise. As far as I am concerned, it's public work that I am part of. Thank you for awakening my commitment again.<ref>{{cite web| title= स्वच्छभारताभियानम् |url=http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/Swachh-Bharat-Bollywood-celebrities-support-PM-Narendra-Modis-stand/photostory/44207746.cms|work= timesofindia|publisher=indiatimes|accessdate=३०/१२/२०१४}}</ref>}}
 
=== [[सानिया नेहवाल]] ===
 
{{cquote|Parents should inculcate the habit of cleanliness and personal hygiene in the children right from a tender age.<ref>{{cite web| title= स्वच्छभारताभियानम् |url=http://timesofindia.indiatimes.com/sports/off-the-field/Saina-Nehwal-participates-in-Swachh-Bharat-Abhiyan/articleshow/45642685.cms?|work= timesofindia|publisher=indiatimes|accessdate=३०/१२/२०१४}}</ref>}}
 
== स्वच्छभारतधावनस्पर्धा ==
 
२०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के [[राष्ट्रपतिभवन|राष्ट्रपतिभवने]] 'स्वच्छ भारत रन्' इत्याख्यः कार्यक्रमः अभवत् । तस्य कार्यक्रमस्य आयोजनं [[भारतम्|भारतगणराज्य]]स्य [[राष्ट्रपति]]ना कृतम् आसीत् । तस्मिन् कार्यक्रमे १५०० जनाः भागम् अवहन् । तस्याः धावनप्रतियोगितायाः आरम्भः राष्ट्रपतेः निर्देशानन्तरम् अभवत् । तस्मिन् कार्यक्रमे उच्चपदाधिकारिणः परिवारेण सह भागम् अवहन् <ref>{{cite web| title= स्वच्छभारताभियानम् |url=http://timesofindia.indiatimes.com/india/Swachh-Bharat-Run-organized-at-Rashtrapati-Bhavan/articleshow/44300509.cms|work= timesofindia|publisher=indiatimes|accessdate=३०/१२/२०१४}}</ref>}} ।
 
== बाह्यसम्पर्कतन्तुः ==
 
https://www.youtube.com/watch?v=43I8r2wPVCo
https://www.youtube.com/watch?v=gfv2RiXoV5A&index=2&list=PLKD9IRjNEpXtEOmhS9gCzTA1qIxPCu9IW
http://hi.vikaspedia.in/health/sanitation-and-hygiene/93894d93591a94d91b-92d93e930924-92e93f936928
http://abpnews.abplive.in/tv/2014/12/26/article462323.ece/Kapil-sharma-thanks-PM-Modi-for-clean-India-Nomination
 
== सन्दर्भः ==
{{reflist|10m}}
"https://sa.wikipedia.org/wiki/स्वच्छभारताभियानम्" इत्यस्माद् प्रतिप्राप्तम्