"संशोधनस्य प्रयोजनानि" इत्यस्य संस्करणे भेदः

=१ '''शोधलक्षणम्'''=
१ नूतनतथ्यानां नूतनसिद्धान... नवीनं पृष्ठं निर्मितमस्ति

No edit summary
पङ्क्तिः १:
= '''शोधलक्षणम्'''=

१ नूतनतथ्यानां नूतनसिद्धान्तानां वा उद्धाटनाय अनुष्ठित: बुद्धिपूर्वक: प्रयास:।-आचार्य हजारीप्रसाद द्विवेदी

२ नवीनज्ञानप्राप्त्यर्थं कृत: व्यवस्थित: प्रयत्न: शोध:।-रैडमन, मोरी

३ अवलोकितसामग्र्या: वर्गीकरण-साधारणीकरण-द्वारा सत्यान्वेषणार्थम् आचरिता व्यवस्थिता पद्धति:।-लुण्डबर्ग

सर्वेषु एतेषु लक्षणेषु ज्ञानप्राप्तिमुद्दिश्य प्रामाणिक: व्यापार: इति लक्षणांश: न व्यभिचरति।ज्ञानप्राप्ति: इति शोधस्य फलम्।तदर्थं कृत: प्रामाणिक: व्यापार: साधनम्।अस्य साधनस्य एव संज्ञा शोध: इति। प्रामाणिक: इति प्रमाणानां साहाय्येन कृत:, प्रमाणै: निर्वृत: इति।

= '''शोधप्रयोजनानि'''=

== ज्ञानवृद्धि:==

शोधस्य उपर्युक्तलक्षणे एव शोधस्य मुख्यं प्रयोजनमुक्तं- ज्ञानवृद्धि: इति।अत्रापि नैके सूक्ष्मभेदा: सन्ति।

===अ) अज्ञातार्थज्ञानम्=== –

ये विषया: अज्ञाता: तेषां ज्ञानं शोधेन भवति। यथा ‘महाभारते साधनचतुष्टयस्य विवेचनम्’ महाभारते विद्यमानमपि साधनचतुष्टयस्य विवरणं साधनचतुष्टयरूपेण अज्ञातम्। तस्य ज्ञानाय कृतेन प्रामाणिकप्रयत्नेन अज्ञातार्थस्य ज्ञानं जायते। प्रयोजनम् इदं कर्तृगामि अपि, समाजगामि अपि।अज्ञातार्थस्य ज्ञानम् इति लाभ: स्वयं शोधकर्तु: भवति एव, समाजस्य अपि भवति।

==आ) सन्दिग्धार्थनिर्णय:==-

येषु विषयेषु सन्देह: वर्तते तेषु विषयेषु शोधव्यापारेण निर्णय: भवति।यथा शाङ्करं दर्शनम् अद्वैतपरम्।तत्र भक्ते: स्थानम् अस्ति न वा इति संशये सति शोध: आरभ्यते- ‘शाङ्करदर्शने भक्तिविचार:’ इति। अनेन शोधेन संशयस्य निर्णय: भवति।अयं निर्णय: अपि शोधकर्तु: उपकारक:, समाजस्य च उपकारक:।

=='''समस्यानां समाधानम्'''==

अज्ञातार्थस्य ज्ञानेन , सन्दिग्धार्थस्य निर्णयेन बहुविधसमस्यानां निराकरणं भवति।यथा वेदान्तमतानुयायिन: साधनचतुष्टयस्य सम्पादनम् इच्छन्ति परं तदुपायानां न जानन्ति।‘योगवासिष्ठे वैराग्यलाभाय उपदिष्टा: उपाया:’ इति अस्मिन् विषये कृतेन संशोधनेन वैराग्यकाङ्क्षिणां समस्याया: समाधानं प्राप्यते।

==३ नवीना दिक्==

विद्यमानविचारविषयेभ्य: कश्चन पृथग् विचार: शोधेन उपलभ्यते।एषा एव नवीना चिन्तनदिक् इति उच्यते।यथा प्रत्येकं दर्शनं स्वमतमण्डनं परमतखण्डनं करोति एव।एषा विद्यमाना विचारदिक्।तत्र यदि संशोधक: ‘वेदान्तानुकूलानां जैनविचाराणाम् अध्ययनम्’ इति विषयम् अधिकृत्य शोधकार्यं करोति तर्हि नूतनी विचारदिग् उपलभ्यते।

==''' बुद्धितैक्ष्ण्यम्'''==
संशोधनस्य प्रक्रिया संशोधकस्य बुद्धे: तैक्ष्ण्यं वर्धयति।यथा न्यायशास्त्रेण बुद्धि: तैक्ष्ण्यं नीयते तथैव शोधप्रक्रियया अपि एतत् कार्यं सिद्ध्यति।शोधविषयस्य चयनम्, तत्र सीमानिर्धारणम्, शोधरीते: चिन्तनम्, सामग्रीसङ्कलनम्, सामग्र्या: प्रमाणै: परीक्षणम्, पूर्वसूरिणां मतानाम् आकलनम्, तेषु ग्राह्याग्राह्यविचार:, विचाराधीनपदार्थानां निर्दुष्टलक्षणानि, पदार्थानां सिद्धि:, पदार्थानां परस्परसम्बन्ध:, विरुद्धविचाराणां प्रतिवाद: इति एतै: कारणै: संशोधकस्य बुद्धि: तीक्ष्णा भवति।अयं लाभ: संशोधकमात्रगामी।

==''' जिज्ञासाशमनम्'''==

किमिदम्? कथम् इदम्? कुत: इदम्? इत्येतादृश्य: नैका: जिज्ञासा: सत्त्वगुणबहुले पुरुषे भवन्ति।ज्ञानेन वा निरोधेन वा तासां शमनं भवति। अत: संशोधनस्य एतदपि प्रयोजनं गणनीयं यद् जिज्ञासाशमनम्।

==''' मनोविकास:'''==

अ) सत्वं रज: तम: इति त्रय: मानसा: गुणा:। तेषु सत्वगुणस्य विकासेन मनोविकास: भवति।

''ऊर्ध्वं गच्छन्ति सत्वस्था:''।भ.गीता

पङ्क्तिः २७:
‘''बुद्धे: फलमनाग्रह:''’

इति वचनं विद्यते।तदनुसारं संशोधक: अनाग्रह: भवति चेत् अयं मनोविकास: एव।

==७ नूतनोत्पाद:==

तन्त्रविज्ञानस्य क्षेत्रे संशोधनस्य एतत् प्रयोजनं सम्भवति। नूतनयन्त्राणाम् ,नूतनपद्धतीनां नूतनवस्तूनाम् उत्पादनं संशोधनस्य प्रयोजनं भवति।तेन उत्पादनस्य समय: रक्ष्यते, उत्पादनमूल्यं ह्रसते, स्तर: वर्धते।इदं समाजगामि प्रयोजनम्।

=''' उपसंहार:'''=

एतानि संशोधनस्य मुख्यप्रयोजनानि।इतोऽपि गौणानि परम्परया अन्वितानि प्रयोजनानि अपि सन्ति।

"https://sa.wikipedia.org/wiki/संशोधनस्य_प्रयोजनानि" इत्यस्माद् प्रतिप्राप्तम्