"महात्मा गान्धी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५१:
 
== बाल्यविवाहः ==
[[चित्रम्:Gandhi and Kasturbhai 1902.jpg|thumb|100px|right|गन्धी तथा तस्य पत्नी कस्तूर् बा]]
एतदध्यायलेखनसन्दर्भो मा सम्भवत्विति बहुतरमाशंसमानस्याप्येतद्वृत्तान्तं कथयिष्यतो मे विदितमेवेदं यदेतत्सदृशास्तिक्तगुलिका इतोऽपि भूयस्यो मया निगरीतव्याः सन्तीति । यद्यहं परमार्थेन सत्योपासकोऽस्मि तदा मे नान्या गतिः । मम त्रयोदशे वयसि संवृत्तविवाहवृत्तान्तवर्णनरूपं मनस्सन्तापकरं कर्तव्यमिदानीं प्राप्तम् । मत्पोष्यवर्गस्थितानेतद्वयस्कान्बालकान्विलोक्य मद्विवाहः स्मर्यते यदि तदाहमात्मन एव न केवलं दयनीयो भविष्यामि परन्तु परिह्रतबाल्यविवाहान्बालकान्प्रति यूयमेव भाग्यशालिन इति विवक्षा मे जायते । एवमतिबाल्ये वयसि विवाहकरणं नाम नीत्यनुरोधीति किमपि प्रमाणं नोपलभे ॥
अत्र विषये पाठक मान्यथा विदाड्कुर्वन्तु । मम यत्संवृत्तं स विवाह एव न पुनर्भाविनं विवाहं प्रति संमतिमात्रम् । काठियावाडदेशे विवाहः संमतिरिति द्वौ पृथक् संस्कारौ स्तः । संमतिर्नाम बालकबालिकयोर्मातापितृभिभाविनं विवाहं प्रति परस्परं वाग्दानम् । संमतिरियं नोल्लड्घनीयेति निर्बन्धः कोऽपि न हि । न च मृते बालके बालिकाया वैधव्यप्राप्तिः । बालिकाबालकौ न खलु तत्रे भागिनौ भवतः । बहुशस्तद्विचारोऽपि तयोरविदितो भवेत् । एष संमतिसंस्कारो मम त्रिवारं समपद्यतेति प्रतिभाति । अपि तु कदा सम्पन्न इति न जाने । मदर्थनिश्चिते द्वे बालिके कमशोऽम्रियेतामिति कथितोऽस्मि । तृतीया संमतिर्मम सप्तमे वयसि संवृत्तेति क्वचित्स्मरामि । न तावत्स्मर्यते तदिदं केनापि मे निवेदितमिति । इह लेखिष्यमाणो वृत्तान्तो मद्विवाहविषयः स तु स्पष्टतरं स्मर्यते ॥
"https://sa.wikipedia.org/wiki/महात्मा_गान्धी" इत्यस्माद् प्रतिप्राप्तम्