"यूरोपखण्डः" इत्यस्य संस्करणे भेदः

bring in infobox from युरोपखण्डः
No edit summary
पङ्क्तिः ९:
 
यूरोपखण्डः (Europe) सप्तमहाखण्डेषु अन्यतमः । ३७ राष्ट्रैः युक्तः अयं खण्डः १०,६००,००० चतुरस्रकिलोमीटर्मितेन विस्तारेण युक्तः अस्ति । दक्षिण-पूर्व-मध्य-वायव्य-उत्तरसमुद्रप्रदेशाः इति अयं खण्डः परिगणयितुं शक्यः । अस्य खण्डस्य जनानां बाह्यलक्षणस्य अनुगुणं काकेसायिड्, नार्डिक्, आल्पैन्, अर्मेनायिड् इत्येते प्रकाराः दृश्यन्ते । अत्र जर्मेनिक्, स्लाव्, केल्टिक्, रोमेण्टिक् इत्यादयः विविधाः भाषाः विद्यन्ते अस्मिन् ।
==वैशिष्ट्यम्==
क्षेत्रफलाधारेण युरोपखण्डः द्वितीयक्षुद्रतमखण्डः। अस्य व्याप्तिः १०,१८०,००० वर्गकिलोमीटर्-परिमितम् । समग्रपृथिव्याः २%(शतांशः) भू-भागस्य ६.८% युरोपखण्डः अधिकरोति। युरोपखण्डस्य पञ्चाशत्सु (५०) देशेषु रूसदेशः बृहत्तमः। जनसंख्याविचारे अपि तस्यैव (रूसदेशस्य) प्रभुत्वम् अस्ति। 'वैटिकन् नगरम्' इति युरोपखण्डस्य क्षुद्रतमदेशः। एशिया-आफ्रिकाखण्डयोः अनन्तरं युरोपखण्डैव सर्वाधिकजनसंख्यायुक्तः खण्डः। वर्तमान-समग्रजनसंख्यायाः ११% युरोपखण्डस्यैव योगदानम्। पूर्वं तु १९०० वर्षे २५% योगदानम् आसीत्।<br />
==इतिहासः==
'युनान्' इति पाश्चात्यसंस्कृतेः जन्मस्थानं भवति युरोपखण्डः। १६ शतब्द्यां (विशेषतः उपनिवेशवादस्य उद्भवपरवर्तीकाले) युरोपखण्डः विश्ववाणिज्यविषये प्रमुखभूमिकां निरूढवान्। १६ शतकतः २० शतकमध्यवर्तिनि काले अमेरिका-आफ्रीका- एशियाखण्डानाम् अधिकांशाः युरोपीयदेशैः नियन्त्रिताः आसन्। द्वे विश्वयुद्धे अपि मध्ययुरोपतः विस्तृतिम् अलभताम् । एतस्मात् कारणात् विंशतिशतके युरोपखण्डस्य प्रभुत्वह्रासः जातः। अपरपक्षे संयुक्त-राज्य-अमेरिका एवं 'सोवियत्'संघः इति नवसाम्राज्ययोः प्रादुर्भाः जातः। शीतयुद्धकाले (cold war) नाटो-वारसा-सन्धिभ्यां युरोपखण्डः विभक्तः आसीत्।
==वातावरणम्==
अयं खण्डः उत्तरगोलार्धे ३५<sup>०</sup> - ७०<sup>०</sup> अक्षांशयोः मध्ये विद्यते इत्यतः वातावरणे विपरीतम् वैविध्यं दृश्यते । पोर्चुगल्, इटलि, अल्बेनिया, स्पेन् इत्यादिषु देशेषु औष्ण्यकाले हितकरं वातावरणं शैत्यकाले शीतलं मेडिटरेनियन्-वातावरणं च भवति । उक्रेन्-देशस्य आग्नेयभागर्धः, रशियादेशस्य दक्षिणभागेषु भ सामान्यतः शुष्कं वातावरणं भवति । अत्र वृष्टिः अल्पा । नार्वे, स्वीडन्-देशस्य उत्तरभागः, फिन्लेण्ड्, रशियादेशस्य उत्तरप्रदेशः, आर्कटिक्-प्रदेशेषु च अत्यधिकं शैत्ययुतं वातावरणं भवति । अत्र द्वीपेषु च शीतमरुभूमेः वातावरणं भवति । नार्वेदेशस्य पर्वताः, स्वीडन्देशस्य दक्षिणभागः, रशियादेशस्य मध्यभागः, बेलारस्, उक्रेन्-देशस्य उत्तरभागः वायव्यभागः, रोमेनियादेशस्य पूर्वभागः इत्येतेषु भागेषु शीतलं खण्डान्तरवातावरणं भवति । अवशिष्टेषु भागेषु तन्नाम ऐर्लेण्ड्, ग्रेट्-ब्रिटन्, फ्रान्स्, जर्मनि, नेदर्लेण्ड्स्, पोलेण्ड्देशस्य पश्चिमभागः, स्लोवाकिया, झेक्-रि, हङ्गेरि, रोमेनियादेशस्य दक्षिणभागः, युगोस्लाविया, बल्गेरिया इत्यादिषु भागेषु आर्द्रं समशीतोष्णं वातावरणं भवति ।
Line ४५ ⟶ ४९:
१८५७ तमे वर्षे जातात् औद्यमिकक्रान्तेः कारणतः अस्मिन् खण्डे धूमशकटम्, यन्त्रोपकरणानि, वयनोद्यमश्च विशेषप्रगतिं प्राप्तवन्तः । मूलवस्तूनां सिद्धवस्तूनाञ्च विनिमयकारणतः गच्छता कालेन अस्मिन् खण्डे उद्यमकौशलं श्रेष्ठस्तरम् अवाप्नोत् । अद्यत्वे अपि अयं खण्डः उद्यमे अग्रेसरः अस्ति । मेषपालनं (चर्म, मांसम्), पशुपालनम् (क्षीर-मांसोत्पादनम्), वराहपालनम् (मांसम्), गोपालनम् इत्यादयः अद्यत्वे अपि प्रमुखः उद्योगः अत्र । रोमेनिया, उक्रेन्, रशियादेशस्य सेम्, पीटर्स्बर्ग्, मेञ्चेस्टर्, एडिन्बर्ग्, स्टाक्-होम्, कोपन्-हेगन्, लण्डन्, ब्रुसेल्स्, स्लाच्टेरेन्, डब्लिन्, प्यारिस्, बार्सेलोनाप्रदेशः (स्पेन्), बुकारेस्ट्, बेल्ग्रेड्, मिलान् (इटली), प्राग्, ह्याम्बर्ग्, वार्सा, कियेव्, रोम् इत्यादयः अत्रत्यानि औद्यमिककेन्द्राणि सन्ति । उत्तरसमुद्रस्य बहुत्र बुकारेस्ट् (रोमेनिया)प्रदेशे इन्धनतैलस्य अनिलानां च महतः प्रमाणस्य उत्पादनघटकाः सन्ति । क्यास्पियन्समुद्रस्य पश्चिमदिशि विशालम् इन्धनतैलोत्पादनकेन्द्रम् अस्ति । खनिजाङ्गारस्य खन्युद्यमः पोलेण्ड्, झेक्गणराज्यम्, जर्मनि, फ्रान्स्, इङ्ग्लेण्ड्, स्पेन्देशेषु च सन्ति । लिघैट्खनिजः जर्मनि, पोलेण्ड्, स्पेन्, टर्कि, ग्रीस्देशेषु उत्पाद्यन्ते । कार्-यानानि यन्त्रोपकरणानि च जर्मनि, इङ्ग्लेण्ड्देशे उत्पाद्यते । दारुखण्डाः कागदनिर्माणाय आवश्यकानि पल्प् इत्येतानि नार्वे, स्वीडन्, फिन्लेण्ड्देशेषु महता प्रमाणेन उत्पद्यन्ते । इङ्ग्लेण्ड्-फ्रान्स्देशेषु अयसः वस्तूनि, वस्त्राणि च उत्पाद्यन्ते । फ्रान्स्देशे द्राक्षा-उद्याननिर्वहणम्, सुरानिर्माणञ्च भवति । इतः तस्य निर्यातः अपि प्रचलति । स्पेन्देशे गन्धद्रव्याणि, फलानि, ओलिव्-तैलोत्पादनञ्च भवति ।
 
{| style="margin:auto;" class="toccolours"
| style="background:#f8eaba; text-align:center;"|
<center>
; यूरोपखण्डस्य विकासः
</center>
|-
|
<gallery>
चित्रम्:Roman expansion 264 BC Shepherd.jpg|रोमसाम्राज्यविस्तारः २६४ ई.पू - १९२ ईसवीय
चित्रम्:Europe 814.svg|युरोपखण्डः ८१४ तमे वर्षे
चित्रम्:Europe in 1430.PNG|युरोपखण्डः १४३० तमे वर्षे
चित्रम्:Europe map 1648.PNG|युरोपखण्डः १६४८ तमे वर्षे
चित्रम्:Europa 1890.jpg|युरोपखण्डः १८९० तमे वर्षे
चित्रम्:Europe in 1923.jpg|युरोपखण्डः १९२३तमे वर्षे
</gallery>
 
==वनस्पतिः एवं वन्यजीवाः ==
[[चित्रम्:Vegetation Europe.png|frame|यूरोपखण्डस्य जीवभरः(बायोम)]]:
<br />
{{legend0|#9fd6c9|टुन्ड्रा}}
{{legend0|#a7bddb|अल्पाइन टुन्ड्रा}}
{{legend0|#006d64|टैगा}}
{{legend0|#3c9798|पर्वात्यवनम्}} <br />
{{legend0|#a4e05d|समशीतोष्णवनम्}}
{{legend0|#907699|भूमध्यसागरीयवनम्}}
{{legend0|#f7ec6f|समशीतोष्णतृणक्षेत्रम्|समशीतोष्ण'स्टेप'भूमिः}}
{{legend0|#9b8447|शुष्कतृणक्षेत्रम्|शुष्क'स्टेप'भूमिः}}
 
[[वर्गः:भूखण्डाः]]
"https://sa.wikipedia.org/wiki/यूरोपखण्डः" इत्यस्माद् प्रतिप्राप्तम्