"वायुः" इत्यस्य संस्करणे भेदः

No edit summary
कश्चनः
पङ्क्तिः ६२:
 
===बाह्यवायुमण्डलम्===
बाह्यवायुमण्डले औन्नत्ये सति तापमानम् अपि तीव्रतया वर्धते । आयनमण्डलम् अस्य स्तरस्य एकःकश्चनः भागः वर्तते । इदं मण्डलं ८० तः ४०० कि. मी. पर्यन्तं विस्तृतम् अस्ति । आकाशवाण्याः सञ्चाराय इदं मण्डलम् एव उपयुज्यते । पृथिव्याः प्रसारिताः आकाशवाण्याः तरङ्गाः पृथिव्याम् अस्मात् मण्डलात् एव परावर्तिताः क्रियन्ते ।<ref>{{Cite book|author=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)|title=हमारा पर्यावरण|publisher=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)| isbn=8174507485|page=23|year=2007 }}</ref>
 
अस्मिन् मण्डले विद्युत्युक्ताः (electric charged) कणाः प्राप्यन्ते, अतः इदं मण्डलम् आयनमण्डलम् अपि कथ्यते ।<ref>{{Cite book|author=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)|title=भौतिक भूगोल के सिद्धान्त, |publisher=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)| isbn=8174505318|page=83|year=2006 }}</ref>
पङ्क्तिः ७४:
वायुमण्डलस्य तापमानं दिवसे, रात्रौ च परिवर्तते, अपि तु ऋतूनाम् अनुसारेण अपि परिवर्तते । शीतर्तोः अपेक्षया ग्रीष्मर्तुः अधिकः उष्णः भवति ।
 
’आतपन’ एकःकश्चनः महत्वपूर्णः कारकः वर्तते । सः तापमानस्य वितरणं प्रभावितं करोति । [[सूर्यः|सूर्यात्]] आगता ऊर्जा पृथिव्या अवरूध्यते । सा ऊर्जा आतपनम् इति कथ्यते ।
 
आतपनस्य मात्रा भूमध्यरेखातः ध्रुवपर्यन्तं न्यूनं भवति । अतः तापमानम् अपि तथैव न्यूनं भवति । अत एव ध्रुवः हिमाच्छादितः भवति । यदि [[पृथ्वी|पृथिव्याः]] तापमानम् अत्यधिकं वर्धते, तर्हि पृथ्वी अपि अत्यधिका उष्णा भवति । तेन कारणेन कानिचित् सस्यानि नोत्पद्यन्ते । ग्रामस्य अपेक्षया नगराणां तापमानम् अधिकं भवति । मध्याह्ने ऐसाफेल्ट् इत्यनेन निर्मिताः मार्गाः, कॉङ्क्रीट् इत्यनेन निर्मितानि, भवनानि च उष्णानि भवन्ति । रात्रौ इमे सर्वे ऊष्मायुक्ताः भवन्ति । नगरेषु उच्चभवनानि वायुं रुन्धन्ति । तेन कारणेन नगराणां तापमानं वर्धते ।<ref>{{Cite book|author=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)|title=हमारा पर्यावरण|publisher=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)| isbn=8174507485|page=23|year=2007 }}</ref>
पङ्क्तिः ८०:
वायुमण्डलस्य उष्णशीतयोः भिन्न-भिन्नाः प्रकाराः सन्ति । प्रवेशिसौरकिरणेभ्यः पृथ्वी उष्णा भवति । तदनन्तरं [[पृथ्वी]] स्तरस्य निकटस्थस्य [[वायुमण्डलम्|वायुमण्डलस्य]] स्तरेषु दीर्घतरङ्गरूपेषु तापस्य सञ्चरणं करोति । [[पृथ्वी|पृथिव्याः]] सम्पर्केण वायुः उष्णः भवति । इयं प्रक्रिया चालनम् (Conduction) इति कथ्यते । चालनम् इति तदैव भवति, यदा असमानतापिपिण्डद्वयं परस्परं सम्पर्के भवति । उष्णपिण्डतः शीतलपिण्डपर्यन्तम् ऊर्जायाः प्रवाहः चलति । ऊर्जायाः स्थानान्तरणं तावत् भवति, यावत् द्वयोः पिण्डयोः तापमानं समानं भवेत् । वायुमण्डलस्य अधस्थस्य स्तरस्य उष्णीकरणे चालन इति महत्वपूर्णं वर्तते ।
 
पृथिव्याः सम्पर्के आगताः वायवः धाराणां स्वरूपे लम्बवत् भवन्ति । तेन वायुमण्डले तापस्य सञ्चरणं भवति । वायुमण्डलस्य लम्बवत् तापनस्य इयं प्रक्रिया संवहन (Convention) इति कथ्यते । अयम् ऊर्जायाः स्नानान्तरणस्य एकःकश्चनः प्रकारः वर्तते । अयं क्षोभमण्डलं यावत् एव भवति ।
 
वायुमण्डलस्य क्षैतिजसञ्चलनेन उत्पन्नस्य तापस्य स्थानान्तरणम् अभिवहनम् (Advection) इति कथ्यते । लम्बवत् सञ्चलनस्य अपेक्षया वायोः क्षैतिजसञ्चलनं सापेक्षिकरूपेण अधिकं महत्वपूर्णं भवति ।
 
लघुतरङ्गरूपेण पृथिव्याः प्राप्तं प्रवेशिसौरविकिरणं पृथिव्याः स्तरम् उष्णं करोति । पृथ्वी स्वयम् उष्णीभूय एकःकश्चनः विकिरणपिण्डः भवति । तदा वायुमण्डले दीर्घतरङ्गरूपेण ऊर्जायाः विकिरणं कुर्वन्ति । अनया ऊर्जया वायुमण्डलम् अधस्थात् उष्णं भवति । इयं प्रक्रिया पार्थिवविकिरणम् इति कथ्यते ।
 
दीर्घतरङ्गदैर्घ्यविकिरणं वायुमण्डलीयवायुभिः [[कार्बन् डाई ऑक्साइड्]], ग्रीन् हाऊस् वायुभिः च अवशुष्यते । अनेन प्रकारेण वायुमण्डलम् अप्रत्यक्षरूपेण पार्थिवविकिरणैः उष्णं भवति, न तु साक्षात् सूर्यतापेन । तदनन्तरं वायुमण्डलस्य विकीर्णनेन तापः अन्तरिक्षे सञ्चरितः भवति । अनेन पृथिव्याः स्तरस्य, वायुमण्डलस्य च तापमानं स्थिरं भवति ।<ref>{{Cite book|author=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)|title=भौतिक भूगोल के सिद्धान्त, |publisher=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)| isbn=8174505318|page=86|year=2006 }}</ref>
"https://sa.wikipedia.org/wiki/वायुः" इत्यस्माद् प्रतिप्राप्तम्