"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

No edit summary
आश्चर्य
पङ्क्तिः ७५:
तस्मिन्नेव दिने हिन्दुः कश्चन मृतः । तस्य शवयात्रायाम् अनुयायिनः नाणकानि विकिरन्तः चलन्ति स्म । मालवीयः भूमौ पतितानि तानि नाणकानि चित्वा स्यूते स्थापयन्नासीत् । तस्य कार्यं दृष्ट्वा केचन आश्चर्यमनुभूतवन्तः । ते अपि नाणकानि चित्वा तस्य स्यूते स्थापितवन्तः । स्यूतः नाणकैः पूर्णः । निजामः एतां घटनां ज्ञातवान् । सः लज्जितः जातः । मालवीयाय अधिकं धनं दत्त्वा अभिनन्दितवान् ।
[[हिमालयः|हिमालयतः]][[कन्याकुमारी|कन्याकुमारिपर्यन्तं]], [[पेशावार|पेशावारतः]], [[ब्रह्मदेशः|ब्रह्मदेश (म्यान्मार्)]] पर्यन्तम् अनेकवारं देशं समग्रं पर्यटितवान् पण्डितमालवीयः । यत्र कुत्रापि गत्वा उदात्ताय स्वाशयाय धनं याचते स्म धनिकान् ।
एकस्मिन् पर्याये [[दरभङ्गा|दरभङ्गायां]] भागवतमधिकृत्य भाषणं कृतवान् मालवीयः । दरभङ्गामहाराजः अन्तिमदिने कार्यक्रमे उपस्थितः आसीत् । मालवीयस्य अद्भुतं भाषणं श्रुत्वा चकितःआश्चर्यचकितः महाराजः २५ लक्षरूप्यकाणि उपायनरूपेण दत्तवान् । न केवलं तत् स्वीयं शेषजीवनं मालवीयस्य उदात्ताशयसाधनाय समर्पयामि इति प्रतिज्ञातवान् । तस्य वचनं श्रुतवतः मालवीयस्य नेत्रे आनन्दाश्रुणा पूर्णे जाते । उक्तवचनानुसारं दरभङ्गमहाराजः मालवीयेन सह बहुत्र अटितवान् ।
देशस्य चतसृषु दिक्षु पर्यटन् मालवीयः एककोटि चतुस्त्रिंशत् लक्षरूप्यकाणि संगृहीतवान् । भिक्षुकाणाम् अधिपतिरिति बिरुदमपि प्राप्तवान् । कदाचित् 'मालवीयतः धनार्जनोपायः ज्ञातव्यः’ इति गान्धिमहाशयः साश्चर्यम् उक्तवान् ।
 
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्