"विक्रम साराभाई" इत्यस्य संस्करणे भेदः

No edit summary
दत्त्वा
पङ्क्तिः ५०:
 
== अणुविज्ञानस्य, परमाणुविज्ञानस्य च विचाराः ==
अणुशक्तिः स्वस्य नामवत् ऊर्जायाः प्रचण्डं स्रोतः अस्ति । किन्तु अस्य उपयोगः मानवस्य विकासाय, विनाशय च भवितुं शक्यः । विश्वस्य देशाः परस्परं भयोत्पादनाय अणु-उत्पादनं कुर्वन्ति स्म, परमाणुविस्फोटादिशस्त्राणां प्रतिस्पर्धां च कुर्वन्ति स्म । किन्तु विक्रमस्य विचारः भिन्नः आसीत् । देशस्य महत्तमे भागे न्यूनेन मूल्येन विद्युदूर्जां प्रेषयितुम् अणुशक्तेः आवश्यता अस्ति इति सः अमन्यत । पञ्चाशत्वर्षान्ते ऊर्जायाः मुख्यस्रोतत्वेन कदाचित् अणुशक्तेः एव उपयोगः कर्तव्यः भविष्यति इत्यपि सः अमन्यत । अस्य उपयोगेन विना देशे दारिद्र्यं, प्रादेशिकी असमानता इत्यादीनां प्रश्नानां निराकरणं भवितुम् अशक्यम् इत्यपि विक्रमः अमन्यत । अणुशक्तिसमितेः अध्यक्षत्वेन विक्रमः स्वरुचिकरौ अवकाशः, अणुशक्तिः इत्येतौ द्वौ विषयौ चित्वा उभयोः समन्वयम् आरभत । अत एव [[इन्डियन् स्पेस् रिसर्च् इन्स्टिट्यूट्]] इत्यस्य नाम परिवर्त्य इन्डियन् स्पेस् रिसर्च् ऑर्गनैज़ेशन् इति नाम दत्वादत्त्वा प्रयोगान्
अकरोत् ।
 
पङ्क्तिः ७२:
 
== मृत्युः ==
१९७१ तमस्य वर्षस्य दिसम्बर-मासस्य २९ तमे दिनाङ्के विक्रमस्य कार्यभारः आसीत् । [[थुम्बा]]<nowiki/>-संशोधनकेन्द्रे अनेकैः अधिकारिभिः सह चर्चा प्रचाल्यमाना आसीत् । द्वादशवादने सति अपि विक्रमस्य कार्यं न समाप्तम्, अतः सञ्चिकाः पश्यन् विक्रमः उपविष्टः आसीत् । ततः परं सः शयनम् अकरोत् । तत् तस्य अन्तिमं चिरशयनम् आसीत् । इत्थं ५२ वर्षस्य वयसि अवकाशसंशोधनकार्यं त्यक्त्वा अनन्तयात्रायां गतः । सम्पूर्णः देशः अरुदत् । तदानीम् [[इन्दिरा गान्धी]] [[प्रधानमन्त्री]] आसीत् । सा अपि खिन्ना सन्ती विक्रमाय मरणोत्तरं [[पद्मविभूषण]]<nowiki/>-उपाधिना बहुमानम् अददात् । विक्रमः वैज्ञानिकत्वेन यथा उत्तमः आसीत् तथैव स्वभावेऽपि सरलः, शान्तश्च आसीत् । शेठ [[कस्तुर भाई|श्री कस्तुरभाई लालभाई]] विक्रमाय शब्दाञ्जलिं दत्वादत्त्वा अकथयत् “वैज्ञानिकास्तु अनेकाः भविष्यन्ति किन्तु मानवतागुणयुतः १००-२५० वर्षान्तेऽपि न भविष्यति” इति । अद्यापि सम्पूर्णः देशः विक्रमस्य विराटप्रतिभायै कोटि-कोटि वन्दनानि करोति ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/विक्रम_साराभाई" इत्यस्माद् प्रतिप्राप्तम्