"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

put batter image
निद्राणवान्
पङ्क्तिः ७९:
एतादृशस्थितावपि शिवराजः स्वधैर्यं न त्यक्तवान् । विपदि स्थितौ शिवराजस्य बुद्धिः, धैर्यं च वेगेन कार्यं करोति स्म । हठात् शिवराजः रुग्णः । तस्य स्वास्थ्यं दिने दिने क्षीयमाणम् अभवत् । 'स्वेन सहागताः महाराष्ट्रसैनिकाः प्रतिगन्तुम् अनुमन्यन्ताम्’ इति सः औरङ्गजेबं प्रार्थितवान् । चक्रवर्ती अनुमतवान् । स्वस्थ्यप्राप्तये साधुभ्यः, सन्यासिभ्यः च मधुरवितरणमारब्धवान् । नगराधिकारिभ्यः अनेकपुरस्कृतीः प्रेषयति स्म । एतेभ्यः सर्वेभ्यः औरङ्गजेबस्य अनुमतिः लब्धा । औरङ्गजेबसदृशस्याऽपि सन्देहः ईषदपि न जातः । मरणदण्डनाय निर्णीतं दिनम् आगतम् । पूर्वदिने शिवराजस्य अस्वास्थ्यम् इतोऽपि प्रवृद्धम् । तस्य शरीरस्मृतिरपि नासीत् । प्रतिदिनम् इव मधुराणां करण्डा: अन्तः आगता: । तावत्पर्यन्तं स्मृतिरहितः शिवराजः हठात् उत्थाय मधुराणां करण्डे उपविष्टवान्, स्वपुत्रं सम्भाजिराजमपि उपवेशितवान् । सेवकाः तत्क्षणं मधुराणां करण्डं शरावेगेण बद्धवा बहिः अनयन् ।
यथापूर्वं मधुराणां करण्डा एव गच्छन्तीति रक्षकभटाः चिन्तितवन्तः तेषां नायकः फौलादखानः कांश्चन् करण्डान् परीक्षितवान् च । तत्र केवलं मधुराण्येव आसन् । दैववशात शिवराज;, सम्भाजिराज:च यत्र आस्ताम् तत्र तस्य हस्तः न आगत: । भवानीमातु: कृपा, शिवराजस्य युक्तिः, फौलादखानस्य गर्वं इति सर्वम् अनुकूलितम् । भगवतः आशयः शिवराजः सजीवो भवेदिति । फौलादखानः? 'त्यजतु’ इत्याज्ञप्तवान् ।
कारावासे शिवराजस्य शय्यायां तस्य मित्रं हीरोजि: शिवराजवत् सुप्तः । शरीरं सर्वं राङ्कवेनाच्छाद्य शिवराजस्य राजमुद्रिकासहितं हस्तं बहिः दृश्यमानं कृत्वा सः निद्राम् अभिनयति स्म अमायक इव मदारिमेहतरनामक: बालकः तस्य पादौ संवहति स्म । फौलादखानः मध्ये मध्ये अन्तः चक्षुः प्रसार्य शिवराजस्य अनामयं पृष्ट्वा गच्छति स्म । द्वितीयदिने सायङ्काले हीरोजि: उत्थितः । प्रायः चतुर्विंशतिघण्टापर्यन्तं सः निद्रितवान्निद्राणवान् । शय्यायां शय्यावस्त्राणि निद्रायमाणमानववत् विरचय्य स्वस्य साधारणवस्त्राणि धृत्वा शनैः बहिरागत्य हस्तद्वयं मुकुलीकृत्य रक्षकभटान् उदिदश्य "शनैः भाषणं कुर्वन्तु । महाराजस्य अस्वास्थ्यं तीव्रम् अस्ति । इदमिदानीं निद्रां प्राप्तवान् सः । अहम् औषधमानेतुं गच्छन्नस्मि ।" इति उक्तवा हीरोजि: अपि बहिरागतवान् । किञ्चित्कालानन्तरं एवमेव वञ्चयित्वा मदारिः अपि पलायितः । शय्यायां शिवराजः निद्रायमाण एव दृश्यते । बहिः रक्षकभटाः खड्गधारिणः सन्तः दृढं रक्षन्त्येव ।
प्रातः अभवत् । शिवराजस्य शिरश्छेदनं तस्मिन्नेव दिने । फौलदखानः अन्तः आगतवान् । तत्र निः शब्दवातावरणं प्रसृतमस्ति । तस्य कश्चन सन्देहः जातः । पुरतः गत्वा शिवराजं निद्रामग्नं दृष्ट्वान् । सर्वं सम्यगस्ति इति चिन्तितवान् । तत्र कोऽपि कोलाहलः नास्तीति ज्ञातवान् । शिवराज: मृतो वा इति सन्देहः आगतः । कम्बलम् अपावृत्य अपश्यत् । तत्र केवलं शय्या, उपधानं च स्तः । सः स्तम्भीभूतः । खङ्गप्रहारेणापि चलनरहित इव सम्भूतः । शिवराजः पलायितः । फौलदखानस्य स्थितिरेव एतादृशी चेत् औरङ्गजेबस्य स्थितिः कीदृशी इति ऊहितुं शक्नुमः । सः सहस्रवृश्चिकैः दष्ट इव आसीत् । तत्क्षणं शिवराजं बन्धुं सेनामाज्ञप्तवान् । सेनया चतुर्दिशः प्रसृत्य अन्वेषणम् आरब्धम् ।
पूर्वनिर्दिष्टप्रणाल्यनुसारं शिवराज- शाम्भराजयोः कृते अश्वौ सिद्धौ आस्ताम् । करण्डकेभ्यः बहिरागत्य तौ दक्षिणादिशं प्रस्थितौ । अतिवेगेन प्रयातौ तौ । मध्येमार्गं रामदासस्य मठाः तेषाम् अपयोगाय अभवन् । संन्यासिवेषे शिवराजः रायदुर्गं प्राप्तवान् । एकक्षणं जीजामाता शिवराजं न ज्ञातवती । अभिज्ञानानन्तरं पुत्रम् आलिङ्ग्य अनन्दाश्रूणि सारितवती । मातापुत्रयोः समागमः सर्वानन्दकरः अभवत् ।
"https://sa.wikipedia.org/wiki/छत्रपति_शिवाजी" इत्यस्माद् प्रतिप्राप्तम्