"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

(निद्राणवान्)
(ः)
अष्टादशवर्षाणां वयस्येव शिवराजः कोङ्कण-पुरन्दर- [[प्रतापगडदुर्गम्|प्रतापगृह]]-राजगृह-चाकणेत्यादिनि चत्वारिंशत् दुर्गाणि स्वायत्तीकृत्य तत्र भगवद्ध्वजं प्रतिष्ठापितवान् । अस्मिन् समये एव देशस्य पश्चिमभागे आंगलेयाः पोर्चगीसजनाः च पदनिक्षेपं कुर्वन्तः आसन् । एते विदेशीयाः यदा कदापि भारतदेशं सङ्कटेषु पातयिष्यन्तीति सः पूर्वमेव समभावयत् । एतेभ्यः देशरक्षणाय समुद्रतीरप्रान्तेषु दुर्गाणां निर्माणम् आरभत । युध्दाय योग्याः नौकाः, नाविकादलं च निरमात् । विदेशीयशक्तिभ्यः सम्भविष्यमाणाम् आपदं पूर्वमेव ज्ञातवान् । तेषाम् आक्रमणानि निरोध्दं योग्यां रक्षणव्यवस्थां व्यरचयत् च एवं शिवराजः बहुदूरदर्शी आसीत् ।
==शत्रूणां स्ंहार:==
शिवराजः स्वराज्यनिर्माणे सफल: भवन्नस्तीति दृष्ट्वा आदिलशाहस्य (बीजपुरसुलतानस्य) मनः व्याकुलितम् अभवत् । निस्पृहतानिःस्पृहता आवृता । 'शिवराजः आस्मिन् दिने एतद् दुर्गं जितवान्, ह्यः तद् दुर्गं जितवान् ’ इत्यादि वार्ताः प्रतिदिनं सः श्रृणोति स्म । राज्ञः सपत्नीमाता उलियाबेगम् नाम्नी शिवराजं नितरां द्वेष्टि स्म। सा प्रख्यातान् सर्वान् वीरानाहूय सभामेकाम् आयोज्य -"शिवराजं बन्धुं यस्य धैर्यसाहसादिकम् अस्ति, सः एतं खड्गं स्वीकरोतु’ इति पन्थाह्वानं कृतवती । सभायाः मध्ये पटवस्त्रेण आवृतः खड्गः आसीत् ।तदा बृहदाकारकः दृढकायः कश्चन सेनापतिः उत्थितवान् । पुरतः आगत्य तं खड्गं गृहीतवान् । तस्य नाम अफजलखानः । आदिलशाहसभायां मुख्यसेनानीषु अयम् एकः ।यथा अयं पराक्रमी, तथा वञ्चकः, क्रूरश्च । पञ्चविंशतिसहस्रयोधै: युक्तं बलिष्ठं सैन्यं स्वीकृत्य सः शिवराजं ग्रहीतुं प्रस्थितवान् ।
आरम्भे अफजलखानः तुलजापुरस्थं देवीमन्दिरं स्वह्स्ताभ्यां ध्वस्तं कृतवान् । तुलजापुरभवानी शिवराजस्य कुलदेवता । एवमेव
[[पण्ढपुरम्|पण्ढरपुरस्थां]] मूर्तिमपि ध्वस्तवान् । खानेन क्रीयमाणानां दुष्कृत्यानाम्, अत्याचाराणाञ्च वार्ताः शिवराजं प्राप्नुवन्त्येव । शिवराजः यावत् दुर्गेषु, अरण्येषु तिष्ठति, तावत् तस्य बन्धनं नैव सुकरं भवति इति खानः जानाति स्म । देवालयानां ध्वंसः, स्त्रीणाम् अत्याचारः, गवां हननम् इत्यादि अकृत्यानि कुर्मः चेत् शिवराजः अवश्यं बहिरागमिष्यतीति, विनायासं तं ग्रहीतुं शक्नुमः इति अफजलस्य कुतन्त्र्म् आसीत् ।
७६,५४२

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/295225" इत्यस्माद् प्रतिप्राप्तम्