"काशी" इत्यस्य संस्करणे भेदः

(लघु) Removing Link FA template (handled by wikidata)
त्त्यः
पङ्क्तिः ९४:
 
== काशीवर्णनम्==
हरिवर्षीया वाराणसी वीनिस् इति प्रख्यातेन रामणीयकनिकेतनेनाधिष्ठानेनोपमिमते । सत्यं हरिवर्षस्योपवनायते तदिति, समुद्रोर्मिमालाभिश्च परिचुम्बितं कामप्यभिख्यां धत्त इति, वाराणसीदर्शनं त्वन्या एव जागरयति भावनाः । यदा वयं रेलयानमारूढाः प्रातस्तरां भागीरथीसेतुमतिक्रामामो वाराणस्यां च दृशौ पातयामस्तदा यत्पश्यामो न तत्प्रस्मतु पारयामः । बालार्कमयूखोपरक्तानि भास्वन्ति देवेश्मानि हर्म्यश्रृङ्गाणि च, समुच्छ्रायवत्यः क्रमनिम्ना अवतारभूमयः, सामि वर्तुला∫नुगङ्गं स्थिता परिणाहवती च नगरी – सर्वमिदं यात्रिकचेतसि यं भावमुद्भावयति तं नालं पाश्चात्योपाश्चात्त्यो यथातथं द्रष्टुम् । यात्रिकस्येदं दर्शनं मृगितार्थस्योपलब्धिर्वा स्वस्य स्वप्नस्य चरितार्था वा । यो ह्यस्य परितोषो हृदये समुल्लसति स परिच्छेदमत्यन्तमत्येति ।
 
== काश्याः देवस्थानानि==
"https://sa.wikipedia.org/wiki/काशी" इत्यस्माद् प्रतिप्राप्तम्