"महात्मा गान्धी" इत्यस्य संस्करणे भेदः

चिन्तन
निष्कपटः
पङ्क्तिः १२६:
==बाल्ये सत्यप्रियतायाः पाठः==
[[चित्रम्:Young Gandhi.jpg|thumb|100px|right|बालकः गान्धिः (क्रि.श.१८७६तमवर्षस्य चित्रम्)]]
बाल्ये एकदा मोहनदासगान्धिः 'श्रवणपितृभक्तिः ‘[[सत्यहरिश्चन्द्रः]]’ च इति नाटाकद्वयं दृष्टवान् । तदा बालकस्य मनसि महान् परिणामः दृष्टः आसीत् । मोहनदासः “[[श्रवणकुमारः]] इव भक्तियुक्तः तथा हरिश्चन्द्रः इव सत्यप्रियः भवामि “ इति निश्चितवान् । आजीवनं सत्यप्रियतां त्यक्तुं न इष्टवान् । मोहनदासगान्धिः बाल्ये मातुः सकाशात् पुराणकथाः श्रुतवान् । सदा प्रामाणिकःनिष्कपटः सन् स्वकृतं दोषमपि मात्रे कथयति स्म । ग्रामजीवनं तस्य इष्टम् आसीत् । अतः एव स्वदेशीवस्तुषु मोहनदासगान्धिमहोदयस्य अतीव प्रीतिः आसीत् । त्रयोदशे वयसि मोहनदासगान्धिः कस्तूरबा इति कन्यया सह विवाहं कृतवान् । त्रयाणां भ्रातॄणां विवाहः एकदा एव कृतः आसीत् । बाल्ये मोहनदासः कदापि असत्यं न वदति स्म । एकदा प्राथमिकविद्यालये निरीक्षकाः आगच्छन् । ते शब्दान् लेखितुम् अवदन् । बालकः मोहनदासः एकं शब्दं दोषपूर्णं लिखितवान् । अध्यापकः समीकर्तुं संज्ञया सूचितवान् तथापि मोहनदासः स्वापराधम् अङ्गीकृतवान् आसीत् । भारतदेशात् आङ्गलान् उच्चाटयितुं प्रबलानां सैनिकानां यूनाम् आवश्यकता अस्ति । अतः शरीरं बलिष्ठं कर्तुं मांसाहारः उत्तमः इति मित्रवचनात् अनिच्छन्नपि मांसाहारं स्वीकृतवान् । भ्रातुः ऋणविमोचनार्थं गृहे सुवर्णं चोरितवान् । किन्तु एतत् सर्वं दुष्टं कार्यम् इति मत्वा पित्रे पत्रमेकं लिखितवान् । अग्रे दुष्टं कार्यं न करोमि इति प्रतिज्ञां कृतवान् तथैव अग्रे अनुसरन् आसीत् ।
 
==दक्षिण-आफ्रिकादेशे गान्धिः==
पङ्क्तिः १८२:
महात्मा गान्धी लिखति यत् अहिंसायाः स्थापना तु गीतायाः रचनाकालात् बहुवर्ष् यावत् पूर्वमेव संजाता आसीत् , किन्तु अहिंसा जीवनस्य शाश्वतमूल्यरुपेण प्रतिष्ठिताऽपि व्यवहारे सदाचाररुपेण गृहीता नासीत् । अस्मदेव कारणात् महाभारतयुद्धो बभूव । महाभारतकाले हिंसायाः प्रवृत्तिमवरोद्धं अहिंसायाः उपदेशाय गीतायाः परोक्षप्रतिपादनपद्धतिः भगवता श्रीकृष्णेन गृहीताः । श्रीकृष्णेन हिंसाया विरोधं दर्शयितुमेव संन्यासस्य् गरिमा तत्र प्रतिपादितः । संन्यासश्च तत्र कर्मण्यतायाः पर्यायरुपेणैव गृहीतः , न् तु कर्मपरित्यागरुपेणेति गान्धिमहोदयः स्वीकृतवान् गान्धिदर्शनस्येदं चिन्तनमपि गीतायाःमवलम्बितमस्ति यत् अनासक्ति-त्याग-धर्मादीनामनुपालनम् अहिंसाया अनिवार्यताया अभावे कदापि नैव सम्भवति ।
गीतायाः विषये गान्धिनोऽवधारणा आसीत् यत् गीता एको धार्मिकः सन्देशोऽस्ति । युगयुगान्तरस्य असीमितताया अनुरुपं गीतायाः सत्त्वमपि शाश्वतं सनातनं चास्ति । इमं सन्देशं ते एव गृहीतुं क्षमन्ते, ये अबाधरुपेण आस्तिका वर्तन्ते । गीतायाः चिन्तनविषये गान्धिमहोदयेनोक्तम् यत् श्रीमदभगवद्गीता गूढदर्शनस्याभिव्यक्तेः परे भूता अवर्तत । सा समाजाय सम्भावित-अप्रत्याशित –यथार्थ-प्रक्रियासु बोधयते । गीतायाः सन्देशः तत्त्वविदः स्थापना अस्ति, यस्य परिणामस्वरुपं गुणानामन्तः क्रियायाः भानं सम्भवति । मुक्तिबोधश्च स्थाप्यते । गान्धिमतेन गीतोक्तः कर्मपुनर्जन्मसिद्धान्तः सामयिकीनां प्रचलितानां सुपरिणाम आसीत् । वस्तुतस्तु मानवस्य जीवनं विकासात्मकस्य सत्त्वस्य पर्यायभूतमस्ति । गुणवत्तैव तत्प्रयोजनस्य प्रामाणिकताऽस्तिनिष्कपटताऽस्ति । कर्म मानवस्य चरित्रानुकृतिरस्ति । संस्कारस्य अथवा कर्मण इदमेव प्रामाण्यं वर्तते यत् भौतिके जगति कर्त्तृत्वमाप्य मानवः यत्किंचित् करोति तत्र किं च असम्यक् वर्तते । व्यक्तिः नवसृजन-विचार –प्रतिक्रियादिषु सर्वदा संलग्नो भवति । तस्य सृष्टेर्मूलं यथार्थतस्तदीया जीवन्तताऽस्ति । कर्ममार्गेणापि ईश्वरो लब्धुं शक्यः, अतएव महात्मना गान्धिना संकेतितं यत् व्यक्तिगतस्तरेऽपि परमेश्वर एवैकमात्रं परमसत्यमस्ति ।
ज्ञानयोगिनः कर्मयोगिनो वा सर्वतः अस्यैव सत्यस्य साधकाः सन्ति । कर्मप्रेरितः संघर्ष एव गीतायाः व्याप्तमस्ति । गान्धिनः चिन्तने योगः आत्मनियंत्रणस्य साधनरुपेण गीतायाः चर्चितः । योगस्य परिणामस्वरुपमेव मानवानां बौद्धिक- वैचारिक-भावनासु इच्छासु वा नियन्त्रणं अनिवार्यमस्ति । स्वधर्मस्य मूलमपि इदमेव यथार्थं बोधयति । गान्धिमतेन निष्कामकर्मणः प्रतिफलं आत्मशुद्धिमात्रमस्ति । आत्मशुद्धया आत्मज्ञातव्यतया चैव विवेकस्य मुक्तेर्वा प्राप्तिः संभाव्यते । मानवीयदायित्वानां पूर्त्त्यैव दैवीयानुभूतिर्जायते । कर्त्तव्यतैव मुक्तिबोधोऽस्ति । अनासक्तियोगस्योपलब्धिः सत्याहिंसयोरभावेऽसम्भावाऽस्ति । एवं गान्धिना श्रीमदभगवदगीतायाः नूतनाव्याख्या कृता । तद्विचारेण गीता मात्रं परभौतिक उदघोष एव नासीत्, अपितु जीवनदर्शनस्य यथार्थं मार्गदर्शनम् आसीत् ।
"https://sa.wikipedia.org/wiki/महात्मा_गान्धी" इत्यस्माद् प्रतिप्राप्तम्