"वेदव्यासः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २:
 
व्यासस्य शैली अपि वाल्मीके: इव सरला एव । महाभारतम् अपि आधिक्येन अनुष्टुप्छन्दसा एव उपनिबद्धम् अस्ति ।
भगवान् वेदव्यास: महर्षे: पराशरस्य पुत्र: । एष: कैवर्तराजस्य पालितपुत्र्याः सत्यवत्या: गर्भे जन्म प्राप्तवान् । एष: कश्चन अलौकिक: शक्तिसम्पन्न: महापुरुष: अपि च महानाकारक पुरुष: आसीत् । एष: जनानां स्मरणशक्ते: क्षीणतां दृष्ट्वा वेदानाम् ऋग्वेद:, यजुर्वेद:, सामवेद:, अथर्वणवेद: च इति विभजनम् अकरोत् । प्रत्येकां संहिताम् अपि प्रत्येकं शिष्यं बोधितवान् । एकैकस्याः: संहिताया: अपि अन्यान्या: शाखा:, उपशाखा: च अभवन् । एवम् एतस्य यत्नेन वैदिकसाहित्यस्य बहुविस्तार: आसादितः । विस्तारं व्यास: इति वदन्ति । वेदस्य विस्तार: एतेन सम्पादितः इति कारणेन एष: ‘वेदव्यास:’ इति नाम्ना प्रसिद्धः जात: । एतस्य जन्म कस्मिंश्चित् द्वीपे अभवत् । श्यामलवर्णस्य एतं जना: ‘कृष्णद्वैपायन’ इत्यपि आह्वयन्ति । बदरीवने एष: आसीत् इति कारणेन एतस्य नाम ‘बादरायण:’ इत्यपि आसीत् । अष्टादशपुराणानि, महाभारतस्य रचनाम् एष: एव अकरोत् । संक्षेपेण उपनिषद: तत्त्वान् बोधयितुं ब्रह्मसूत्राणां निर्माणम् अकरोत् । तेषां विषये अन्यान्या: आचार्या: भाष्याणि रचयित्वा स्वेषां विभिन्नान् अभिप्रायान् प्रकटितवन्त: ।fufifififiir। ‘व्यासस्मृति:’ एतेन रचित: कश्चन स्मृतिग्रन्थ: । एवं भारतीयसाहित्यस्य, हिन्दूसंस्कृते: विषये व्यासस्य महत् योगदानम् अस्ति । श्रुति-स्मृति-पुराणोक्तस्य सनातनधर्मस्य कश्चन प्रधान: व्याख्यानकार: व्यास: इति उच्यते । हिन्दव:, भारतीयसंस्कृति: च यावत् पर्यन्तं तिष्ठति तावत् पर्यन्तम् एतस्य नाम अमरम् एव । जगति एव एष: महान् श्रेष्ठ: पथप्रदर्शक:, शिक्षक: च इति उच्यते । अत: तेन ‘जगद्गुरु:’ इति गौरवम् अपि प्राप्तम् अस्ति । गुरुपूर्णिमायाम् [आषाढपूर्णिमा] प्रत्येकं हिन्दूगृहस्थ: एतस्य पूजां करोति । श्रीकृष्णपरमात्मनः अमरम् उपदेशं स्वस्य महाभारतस्य संहितायां योजयित्वा जगतः महदुपकारं कृतवान् अस्ति ।
‘व्यासस्मृति:’ एतेन रचित: कश्चन स्मृतिग्रन्थ: । एवं भारतीयसाहित्यस्य, हिन्दूसंस्कृते: विषये व्यासस्य महत् योगदानम् अस्ति । श्रुति-स्मृति-पुराणोक्तस्य सनातनधर्मस्य कश्चन प्रधान: व्याख्यानकार: व्यास: इति उच्यते । हिन्दव:, भारतीयसंस्कृति: च यावत् पर्यन्तं तिष्ठति तावत् पर्यन्तम् एतस्य नाम अमरम् एव । जगति एव एष: महान् श्रेष्ठ: पथप्रदर्शक:, शिक्षक: च इति उच्यते । अत: तेन ‘जगद्गुरु:’ इति गौरवम् अपि प्राप्तम् अस्ति । गुरुपूर्णिमायाम् [आषाढपूर्णिमा] प्रत्येकं हिन्दूगृहस्थ: एतस्य पूजां करोति । श्रीकृष्णपरमात्मनः अमरम् उपदेशं स्वस्य महाभारतस्य संहितायां योजयित्वा जगतः महदुपकारं कृतवान् अस्ति ।
महाभारतं लक्षश्लोकात्मकः विस्तृतः ग्रन्थः । व्यासः भारतकथां पुत्रं शुकं शिष्यं वैशम्पायनं च बोधितवान् । वैशम्पायनः जनमेजयं तां कथाम् अवदत् । जनमेजयेन उक्ता भारतकथा एव इदानीम् उपलभ्यते ।
रामायणे इव अत्रापि ब्रह्मा व्यासं भारतकथालेखनाय प्रोत्साहयति । व्यासः योग्यस्य लेखकस्य अभावं वदति । ततः गणेशः भारतकथायाः लेखनकार्यम् अङ्गीकरोति । व्यासेन उक्तां भारतकथां सः लिखति च । आर्यभटः वदति - क्रि. पू. ३१०१ तमे वर्षे कलियुगस्य आरम्भः अभवत् इति । कलियुगस्य आरम्भदिने श्रीकृष्णः परं धाम गतवान् । ततः ३७ वर्षेभ्यः पूर्वं महाभारतयुद्धं प्रवृत्तम् । अतः महाभारतकालः, व्यासकालः च प्रायः एषः एव इति निर्णेतुं शक्य:।
"https://sa.wikipedia.org/wiki/वेदव्यासः" इत्यस्माद् प्रतिप्राप्तम्