"अहमदाबाद" इत्यस्य संस्करणे भेदः

उद्धरणम् using AWB
पङ्क्तिः ४३:
| blank3_info = [[गुजराती]], [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च
| website = [http://www.egovamc.com/ Ahmedabad Municipal Corporation ]
| footnotes = <center><b>''' '''[[मोहनदास करमचन्द गान्धी|महात्मनः]] कर्मस्थली''' </b>'''</center>
}}
'''कर्णावती''' ({{IPA audio link|कर्णावती.ogg}} {{IPAc-en|'|k|ə|r|n|aː|v|ə|t|iː}}) ({{lang-gu|અમદાવાદ}}, {{lang-en|Ahmedabad}})) उत अहमदाबाद-महानगरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] [[अहमदाबादमण्डलम्|अहमदाबादमण्डलस्य]] प्रशासनिककेन्द्रमस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] बृहत्तममेतन्नगरं [[भारतम्|भारतस्य]] महानगरेषु पञ्चमम् अस्ति । अस्य कर्णावती इति नामान्तरं प्रख्यातमस्ति । अत्र [[साबरमती आश्रमः|गान्धि-आश्रमः]], 'सिदी-सैयदनी जाली', 'काङ्करिया'तडागः, साबरमती 'रिवरफ्रन्ट्' च प्रेक्षणीयस्थलानि सन्ति ।
 
== इतिहासः ==
 
११ शताब्द्यां कर्णावतीनगरं परितः 'भील'वंशीयस्य 'आशावल'नामकराज्ञः राज्यम् आसीत् । [[पाटण]]पत्तनस्य 'सोलङ्की'वंशीयः राजा [[कर्णदेवः]] 'आशावल'राजानं पराज्य कर्णावत्याः अधिपतिः जातः । तत् स्थानम् अधुना मणिनगरम् इति नाम्ना प्रसिद्धमस्ति । 'सोलङ्की'वंशराजानः अत्र १३ शताब्दपर्यन्तं शासनं कृतवन्तः । ततः 'मुजाफ्फरदीन'वंशराज्ञां शासनम् आसीत् । कर्णावतीनगरनिर्माणस्य एका रोचकी कथा वर्तते । <br>
 
एकवारम् 'अहमद्'नामकः राजा [[साबरमतीनदी|साबरमतीनद्याः]] तीरे स्वश्वानेन सह अटन्नासीत् । सः श्वानः अत्यन्तः आक्रामकः, मदान्धश्च आसीत् । राजा अटन् अग्रे गतवान्, तस्मिन्नेव समये श्वानः एकस्य शशकस्य पृष्टे अधावत् । परन्तु राजा आश्चर्यचकितः जातः । शशकः निर्भयो भूत्वा श्वानोपरि एवाक्रमणं कृतवान् । शशकाक्रमेण भीतः श्वानः प्रत्यधावत्, शशकश्च तस्य श्वानस्य पृष्ठे धावन्नासीत् । एतत् दृश्यं दृष्ट्वा राजा अचिन्तयत्, "यदि अत्रस्थः एकः शशकः एतावत् निर्भयः, पराक्रमी चास्ति, तर्हि अत्रस्थानां जनानां विषये तु किं चिन्तनीयम् ? अहम् अत्रैव मम नगरस्य निर्माणं करिष्यामी"ति । एषा घटना १४११ तमे वर्षे घटिता आसीत् । तस्मिन्नेव वर्षे राजा अत्र नगरं निर्मापितवान् । नगरप्रवेशाय 'शेख अहमद्', 'गञ्जबक्षी काजी अहमद्', 'मलेक अहमद्', 'सुल्तान अहमद्' इत्याख्यानि चत्वारि द्वाराणि निर्मापितवान् । द्वाराणां निर्माणकार्यं १४१७ तमे वर्षे समाप्तं जातम् । <br>
 
'मुजाफ्फरदीन'वंशस्य शासनं १५७३ वर्षपर्यन्तम् आसीत् । पश्चात् [[मोघलसाम्राज्‍यम्|मुघलवंशीयः]] राजा '[[अक्बर]]' [[गुजरातराज्यम्|गुजरातराज्यस्य]] अधिपतिः जातः । तस्य आधिपत्ये व्यापारक्षेत्रे वृद्धिः जाता आसीत् । अतः कर्णावतीनगरं [[मोघलसाम्राज्‍यम्|मुघलशासितेषु]] व्यापारकेन्द्रेषु मुख्यस्थानं प्राप्तवत् । व्यापारीकरणे सति कर्णावतीनगरस्थाः श्रेष्ठीजनाः बहु धनम् अर्जितवन्तः । ते इतः प्रस्तरैः निर्मितानि वस्तूनि [[यूरोप्]]-देशं प्रेषयन्ति स्म । तथा च कार्पास(cotton)वस्त्राणि, कौषेय(silk)वस्त्राणि अपि प्रेषयन्ति स्म । विश्वे क्लीतनी(Indigo,नील)सस्यस्य ९०% उत्पादनं कर्णावतीनगरस्य 'सरखेज'क्षेत्रे भवति स्म । अतः अस्योद्योगः कर्णावतीनगरस्य नियन्त्रणे आसीत् । व्यापारस्य अधिके प्रसारे सति नगरसीमाविस्तारस्य आवश्यकताम् अनुभवन्तः धनिकाः, नगरात् बहिः नवीनलघुक्षेत्राणां विकासं कृतवन्तः । 'नवरङ्गमिया'-'उस्मानखान'-'चेङ्गीसखान'नामकश्रेष्ठिनः क्रमेण 'नवरङ्गपुरा'-'उस्मानपुरा'-'मीठाखळी'क्षेत्राणां विकासं कृतवन्तः । तस्मिन्नेव काले [[मोघलसाम्राज्‍यम्|मुघल]]-राज्ञैः उद्यानानि अपि निर्मापितानि आसन् । तानि अधुना 'शाहिबाग', 'अमराइवाडी', 'आम्बावाडी' इति नामभिः प्रख्यातानि सन्ति ।<br>
 
१७५३ तमे वर्षे मराठाप्रदेशसैनिकौ दामजीगायकवाड-रघुनाथौ कर्णावतीनगरं स्वाधिकारे गृहीत्वा [[मोघलसाम्राज्‍यम्|मुघल]]साम्राज्यस्य विनाशं स्पष्टं कृतवन्तौ । ततः नगरस्य नवनिर्माणस्यापि आरम्भः जातः । १८१७ वर्षपर्यन्तं [[मराठासाम्राज्यम्|मराठाशासकैः]] सुचारुरीत्या साम्राज्यस्य वहनं कृतम् । परन्तु १८१८ तमे वर्षे 'ईस्ट इण्डिया कम्पनी'जनाः [[मराठासाम्राज्यम्|मराठाशासकेभ्यः]] नगरं बलात् नीतवन्तः । तस्मात् कालात् आराभ्य १९१५ वर्षपर्यन्तं आङ्ग्लाः अस्य नगरस्य सञ्चालनं दृढतया कृतवन्तः । १९१५ तमे वर्षे [[मोहनदासकरमचन्दगान्धिः|महात्मना]] कोचरब-आश्रमस्थापनापर्यन्तं, आङ्ग्लाः निग्रहरूपेण नगरसञ्चालनं कृर्वन्तः आसन् । परन्तु, आश्रमस्य स्थापना आङ्ग्लशासकेभ्यः सूचनासीत् यत् "युष्माकं शासनसमाप्तेः समयः आगतः" इति । एवं कर्णावतीनगरे भारतस्वतन्त्रतान्दोलनस्य आरम्भः अभूत् । कोचरब-आश्रमात् स्थानान्तरं कृत्वा [[मोहनदासकरमचन्दगान्धिः|महात्मा]] [[साबरमती आश्रमः|सत्याग्रहाश्रमस्य]] स्थापनां कृतवान् । इतः 'दाण्डीकूच'द्वारा आङ्ग्लविरोधस्य आरम्भः जातः । अस्यां दाण्डीयात्रायां लक्षशः 'अहमदाबादी'जनाः भागं गृहीतवन्तः । ततः १९४२ तमे वर्षे 'भारतछोडो'-आन्दोलने बहवः 'अहमदाबादी'जनाः बलिदानं दत्तवन्तः ।<br>
 
१९७० तमे वर्षे [[साबरमतीनदी|साबरमतीनद्यां]] यदा पूरः (Flood) आगतः, तदा ३८०० गृहाणि जलमग्नानि अभूवन्, सम्पत्तेः नाशः जातः, रोगैः बहवः जनाः मृताश्च । सर्वकारः ७.५ लक्षरूप्यकाणां हानिः निर्धारितवान् । एतस्याः प्राकृतिकहानेः पश्चात् नगरस्य व्यवस्थापुनःस्थापनाय महत्समयः जातः ।
 
== पूर्वराजधानी कर्णावती ==
 
१९६० तमे वर्षे 'मे'मासस्य १ दिनाङ्के [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यात्]] भिन्ने जाते सति, [[गुजरातराज्यम्|गुजरातराज्यस्य]] राजधानी कर्णावतीनगरम् अभूत् । कर्णावती राजधानी आसीत्, अतः नवीनविश्वविद्यालयानां, संशोधनसंस्थानां च स्थापना जाताऽत्र । एवं कर्णावतीमहानगरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] शिक्षणकेन्द्रं जातम् । यन्त्रशालानां, व्यापारीकरणस्य च विकासः अपि अधिकः जातः । पश्चात् १९८० तमे वर्षे सर्वकारः कर्णावतीनगरस्य एकं भागं पृथक्कृत्वा [[गान्धिनगरम्|गान्धिनगर]]नामकं नवीननगरं घोषितवान् । ततः हरितनगरम् इत्युपाधिधातृ [[गान्धिनगरम्|गान्धिनगरं]] [[गुजरातराज्यम्|गुजरातराज्यस्य]] राजधानी इति घोषणापि जाता । तथापि [[गुजरातराज्यम्|गुजरातराज्यस्य]] आर्थिकराजधानी तु कर्णावती एव ।
पङ्क्तिः ७२:
=== उद्यानानि ===
 
कर्णावत्याम् उद्यानेषु प्रप्रथमनाम 'ला'-उद्यानस्य(Law Garden) एव अस्ति । एतत् अतिप्रख्यातं तथा च बृहत् उद्यानमस्ति । ‘ला’ इति नाम न्यायमहाविद्यालयत्वात् अस्ति । एतस्योद्यानस्य कारणेन समीपस्थविस्तारस्य विकासः जातः । अधुना आबालवृद्धाः अत्रागत्य स्वश्रान्ततां दूरी कुर्वन्ति । [[विक्टोरिया]]-उद्यान-बालवाटिके अपि द्वे प्रसिद्धे उद्याने स्तः । [[विक्टोरिया]]-उद्यानं भद्रक्षेत्र(‘लालदरवाजा’)स्य दक्षिणदिशि अस्ति । अत्र [[विक्टोरिया]]राज्ञाः पुत्तलः (Statue) अस्ति । बालवाटिका कर्णावत्याः सर्वाधिकप्रसिद्धे ‘काङ्करीया’तडागे अस्ति । अत्र अधिकतया यात्रिकाः, युवानश्च गच्छन्ति । रात्रौ व्युत्प्रकाशन(Laser Light)कार्यक्रमः अपि भवत्यत्र । अन्यानि प्रमुखानि उद्यानानि परिमल-प्रह्लाद-‘लालदरवाजा’-उद्यानानि सन्ति । नगरे भिन्नेषु क्षेत्रेषु लघूद्यानानि सन्ति । यत्र नगरजनाः विहर्तुं गच्छन्ति ।
 
=== तडागाः ===
पङ्क्तिः ८०:
=== साबरमती ‘रिवर्-फ्रन्ट्’ ===
 
साबरमती-‘रिवर्-फ्रन्ट्’ प्रकल्पः 'अहमदाबाद् म्युनिसिपल् कोर्पोरेशन्'द्वारा कार्याधीनः अस्ति । प्रकल्पाय १ कोटिरूप्यकाणां व्ययः भविष्यतीति पूर्वयोजनायां निश्चितम् । १०.४ कि.मी. यावत् [[साबरमतीनदी|साबरमतीनद्याः]] तीरे अस्य निर्माणं भविष्यतीति योजनास्ति । अत्र प्रवासनोद्योगः भवेत् तथा च नगरजनेभ्यः विहर्तुं स्थलं भवेत् इति प्रकल्पस्य मुख्योद्देशः अस्ति । एतस्मिन् स्थले पतङ्गोत्सवः मुख्यपर्व अस्ति, यत्र देश-विदेशतः जनाः आगच्छन्ति । अत्र सायङ्काले जनानां गमनमधिकं भवति ।
 
== पर्वाणि ==
 
एवं तु गुजरातीजनाः पर्वप्रियाः सन्त्येव । परन्तु [[गुजरातराज्यम्|गुजरातराज्यस्य]] मुख्यनगरत्वात् अत्र पर्वाणाम् आयोजनं विशिष्टतया भवति । उत्तरायण-गरबानृत्य-[[दीपावली]]-[[होली]]का-[[गणेशचतुर्थी]]-गुडीपडवा-ईद्-रथयात्रादिपर्वाणां भव्योत्सवः भवति । उत्तरायणपर्वणि पतङ्गोत्सवकार्यक्रमे २०१३ तमे वर्षे ९५ देशेभ्यः स्पर्धालवः भागं गृहीतवन्तः । गरबानृत्यं दशदिनानि यावत् चलति । एतेषु दशदिनेषु रात्रौ सर्वत्र गरबागीतानि एव श्रूयन्ते । रात्रौ ९ वादनतः प्रातः ५ वा ६ वादनपर्यन्तं गरबारसिकाः नृत्यमग्नाः एव भवन्ति । गरबानृत्यम् एतावत् प्रख्यातमस्ति यत्, लग्नप्रसङ्गेषु, उत्तरायणपर्वणि, शरदपूर्णिमायां, [[गणेशचतुर्थी|गणेशचतुर्थ्याम्]] अपि गरबानृत्यं कुर्वन्ति गुजरातीजनाः । [[पुरी|जगन्नाथपुर्यां]] जगन्नाथमन्दिरे यथा रथयात्रोत्सवः भवति, तथैव कर्णावत्यामपि जगन्नाथयात्रा भवति ।
 
=== विक्षणीयस्थलानाम् आवलिः ===
पङ्क्तिः १२८:
[[चित्रम्:Charkhaa.jpg|x125px|center]]
|bgcolor = "AliceBlue" valign="center" align="center" |
[[चित्रम्:Altstadt_AhmedabadAltstadt Ahmedabad.jpg|x125px|center]]
|bgcolor = "AliceBlue" valign="center" align="center"|
[[चित्रम्:Sidi Saiyyad Ni Jaali.jpg|x125px|center]]
पङ्क्तिः १३९:
|-
|}
 
 
== मार्गाः ==
Line १४५ ⟶ १४४:
=== विमानमार्गः ===
 
[[सरदार् वल्लभभाई पटेलः|सरदार् वल्लभभाई पटेल]]-अन्तर्राष्ट्रियविमानस्थानकं मुख्यनगरात् १५ कि.मी. दूरे अस्ति । विदेशस्थितलण्डनादिनगरेभ्यः, [[भारतम्|भारतस्य]] विविधेभ्यः नगरेभ्यः, [[गुजरातराज्यम्|गुजरातराज्यस्य]] अन्यनगरेभ्यः च कर्णावतीनगराय वायुयानानि सन्ति ।
 
=== धूमशकटमार्गः ===
 
[[भारतम्|भारतस्य]], [[गुजरातराज्यम्|गुजरातराज्यस्य]] च अन्यभागेभ्यः कर्णावतीनगराय धूमशकटयानानि सन्ति । मुख्यतः [[मुम्बई]]-[[देहली]]-[[हैदराबाद्]]-[[पुणे]]-[[बेङ्गळूरु]]-[[तिरुपति]]-[[हावडा]]-[[जयपुरम्]]-[[हरिद्वारम्|हरिद्वार]]-[[भोपाल|भोपाला]]दिनगरेभ्यः धूमशकटयानानि सन्ति ।
 
=== भूमार्गः ===
Line १७४ ⟶ १७३:
{{गुजरातराज्यम्}}
{{गुजरातराज्यस्य नगराणि}}
[[वर्गः:गुजरातराज्यस्य प्रमुखनगराणि]]
{{शिखरं गच्छतु}}
 
[[वर्गः:गुजरातराज्यस्य प्रमुखनगराणि]]
"https://sa.wikipedia.org/wiki/अहमदाबाद" इत्यस्माद् प्रतिप्राप्तम्