"गुजरातविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

d|ʒ
उद्धरणम्, replaced: == सन्दर्भः == → == उद्धरणम् == using AWB
पङ्क्तिः २३:
| subdivision_name6 = [http://www.gujaratuniversity.org.in/web/index.asp www.gujaratuniversity.org.in]
}}
'''गुजरातविश्वविद्यालयः''' ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|g|ʊ|d|ʒ|ə|r|aː|t|ə|v|ɪ|s|h|v|ə|v|ɪ|d|y|aː|l|ə|y|ə|h}}) ({{lang-gu|ગુજરાત યુનિવર્સિટી}}, {{lang-en|Gujarat University}}) [[गुजरातराज्यम्|गुजरातराज्यस्य]] [[अहमदाबाद्]]नगस्य नवरङ्गपुराक्षेत्रे अस्ति । एषः [[गुजरातराज्यम्|गुजरातराज्यस्य]] बृहत्तमः विश्वविद्यालयः । एतस्य ध्येयसूत्रमस्ति- योगः कर्मसु कौशलम् । गुजरातसर्वकारेण चालितः एषः विश्वविद्यालयः उच्चशिक्षां प्राप्तुमुत्तमं स्थलमस्ति । एतस्य विश्वविद्यालयस्य नियन्त्रणे [[अहमदाबाद्]]नगरस्थाः महाविद्यालयाः सन्ति । तथा च [[गुजरातराज्यम्|गुजरातराज्यस्य]] अन्यभागेषु स्थिताः केचन महाविद्यालयाः अपि एतस्य नियन्त्रणे अन्तर्भवन्ति । एतेन विश्वविद्यालयेन National Assessment and Accreditation Council (NAAC) द्वारा B++ (८३.१%) गुणवत्ताङ्काः प्राप्ताः सन्ति <ref>http://naac.gov.in/docs/Result%20RAR-24-SEPT-2014.pdf</ref> । एषः विश्वविद्यालयः चिकित्सा-यन्त्रनिर्माणविद्या-औषधविज्ञान-वाणिज्य-प्रबन्धनम् (Management)इत्यादीनां शिक्षणे विख्यातः अस्ति ।
 
==इतिहासः==
पङ्क्तिः ३२:
 
[[चित्रम्:Gujarat University.jpg|thumb|right|300px|'''स्पर्शपटलसङ्गणकस्य साहाय्येन विद्यार्थिनः स्वयमेव सूचनां प्राप्तुं शक्नुवन्ति ।''']]
गुजरातविश्वविद्यालयपरिसरः १.१ कि.मी. विस्तृतः अस्ति । अत्र मुख्यरूपेण तोलिकाभवनम् (clock tower building) प्रसिद्धमस्ति । इदमेव भवनम् अस्य विश्वविद्यालयस्य प्रशासनभवनमस्ति । तस्मात् दक्षिणे सम्प्रश्र्नविभागः (Inquiry Center) अस्ति । एतस्मिन् विभागे प्रवेश-परीक्षा-शिक्षाशुल्कादीनां विषये सूचनाः प्राप्यन्ते । यदि कोऽपि विश्वविद्यालयसंलग्नां सूचनां स्वयमेव प्राप्तुमिच्छति, तर्हि स्पर्शपटलसङ्गणक(Touch-Screen)साहाय्येन स्वयमेव सूचनां प्राप्तुमर्हति । परिसरेsस्मिन् विशालं क्रीडाङ्गणमस्ति । अत्र विभिन्नानां क्रीडास्पर्धानाम् आयोजनं भवति ।
 
गुजरातविश्वविद्यालयपरिसरस्य मुख्याकर्षणं परिसरस्य [[आकाशवाणी(AIR)|आकाशवाणी (Radio)]] सेवास्ति । अस्याः सेवायाः नाम गुरुः (G.U.R.U.) इति अस्ति । एतेन विश्वविद्यालयेन गुजरातराज्ये एषा सेवा प्रप्रथममारब्धा अस्ति । भारते परिसराकाशवाणीसेवाप्रारम्भकरणे अस्य पञ्चमः क्रमः अस्ति । एषा परिसराकाशवाणीसेवा ९०.८ MHz उपरि चलति ।
पङ्क्तिः ३८:
==विश्वविद्यालयस्य विशेषताः==
 
गुजरातविश्वविद्यालयेन सह संलग्नेषु ३५० महाविद्यालयेषु, २२ अनुमोदनप्राप्त(Approved)संस्थासु, २५ मान्यताप्राप्तसंस्थासु ३,००,००० अधिकाः छात्राः उच्चशिक्षणं प्राप्नुवन्ति <ref name="gulist">{{cite web | url=http://www.gujaratuniversity.org.in/web/NWD/0100_Gujarat%20University%20Affiliated%20Colleges/0910_Gujarat_University_Affiliated_Colleges_List%20(2009-2010).pdf | title=AFFILIATED COLLEGES & RECOGNISED INSTITUTIONS | publisher=Gujarat University | date=2009–2010 | accessdate=9 January 2013}}</ref> । अत्र ३५ अधिकाः स्नातकोत्तरविश्वविद्यालयविभागाः तथा १९९ स्नातकोत्तरकेन्द्राण्यपि सन्ति । ये छात्राः उद्योगशीलाः सन्ति, ये च उच्चशिक्षार्थं धनव्ययं कर्तुमसमर्थाः सन्ति, ते बाह्यपरीक्षार्थिरूपेण (External Candidates) पठेयुः तथा व्यवस्थाप्यत्रास्ति । बाह्यपरीक्षाव्यवस्था स्नातककक्षासु, स्नातकोत्तरकक्षासु चास्ति <ref name="guograd">{{cite web | url=http://www.gujaratuniversity.org.in/web/WebCoursesBachelor.asp | title=Bachelor Courses | publisher=Gujarat University | accessdate=9 January 2013}}</ref> ।
 
यद्यपि गुजरातविश्वविद्यालस्य साहाय्येन गुजरातराज्ये सरदार् पटेल विश्वविद्यालयः, सौराष्ट्रविश्वविद्यालयः, उत्तरगुजरातविश्वविद्यालयः, दक्षिणगुजरातविश्वविद्यालयः इत्यादयः ७ नवीनविश्वविद्यालयाः स्थापिताः, तथापि गुजरातविश्वविद्यालयः एव गुजरातराज्यस्य विशालतमः, लोकप्रियश्च विश्वविद्यालयोऽस्ति ।
 
== अन्यविशेषताः ==
==== <b>'''G</b>'''ujarat <b>'''U</b>'''niversity <b>'''S</b>'''tudy <b>'''A</b>'''broad <b>'''P</b>'''rogram <ref name="guopg">{{cite web | url=http://www.gujaratuniversity.org.in/web/WebCoursesPG.asp | title=Post Graduate Courses | publisher=Gujarat University | accessdate=9 January 2013}}</ref> ====
 
एषोऽभ्यासक्रमः भारते प्रप्रथमम् एतेन विश्वविद्यालयेनारब्धोsस्ति । अनिवासिभारतीयेभ्यः (Non-Resident Indians) एतस्याभ्यासक्रमस्य रचना कृताsस्ति । एतस्याभ्यासक्रमस्य मुख्योद्देशोऽस्ति भारतीयसंस्कृतेः विस्तारः, नूतनज्ञानप्रपञ्चगठनञ्च । ये च विदेशवासिनः भारतीयाः स्वसंस्कृतिं, परम्परां वा निकषा आगन्तुकामाः सन्ति, ते एनमभ्यासक्रमं पठन्ति । एतस्मिन्नन्तर्गताः केचन मुख्यविषयाः अधोनिर्दिष्टाः -
पङ्क्तिः ५३:
* Studies in Tribal Culture of Gujarat ([[गुजरातराज्यम्|गुजरातराज्यस्य]] आदिवासिसंस्कृत्यध्ययनम्)
 
[[गुजरातराज्यम्|गुजरातराज्यस्य]] आदिवासिविषयकसंशोधनमत्र भवति । अस्योद्देशः नगरग्रामयोः विकासेन सह आदिवासीनां संस्कृतेरपि रक्षणं भवतु, विकासश्च भवतु इति ।
 
* Yoga and Meditation (योगशिक्षणम्)
 
अत्र योगविषयस्याध्ययनम् अपि भवति ।
 
G.U.S.A.P इत्यस्मिन् अन्ये विषयाः अपि सन्ति, ये विदेशीयान् अपि आकर्षयन्ति ।
पङ्क्तिः ६३:
==== सङ्गणकप्रयोगशाला ====
 
विश्वविद्यालये १० जी.बी. 'फाइबर्-ओप्टिक्' अन्तर्जालसम्पर्कः (Internet Connection) अस्ति । विश्वविद्यालयेन १००० M.B/s गतेः अन्तर्जालसम्पर्कः B.S.N.L. तः स्वीकृतः अस्ति । एषः अन्तर्जालसम्पर्कः ४० भवनेषु २४०० सङ्गणकैः सह योजितः अस्ति । अत्र विद्यार्थिनः अल्पमूल्ये अन्तर्जालोपयोगं कुर्वन्ति ।
 
==== ग्रन्थालयः ====
 
ग्रन्थालयोऽपि आधुनिकप्रौद्योगिक्या सज्जितः अस्ति । अत्र ई-सरिताप्रकल्पान्तर्गतं Soul इति तन्त्रांशे (Software) पुस्तकसूचिः अन्तर्जाले आरोपिता अस्ति । अत्र विद्यार्थिनः स्वोपयुक्तं पुस्तकं सरलतया अन्वेषितुं शक्नुवन्ति । तथा पुस्तकस्य आदानप्रदानकार्यं समयव्ययं विना भवितुमर्हति । विद्यार्थिनः अत्र स्थित्वापि पुस्तकं पठितुं शक्नुवन्ति ।
 
==== परीक्षाप्रक्रिया ====
 
परीक्षाप्रक्रिया मुख्यरूपेण अन्तर्जालपरीक्षापद्धत्या एव भवति । तथा O.M.R. पद्धत्या अपि परीक्षा भवति । विद्यार्थिनां सम्पूर्णपरिचयस्य सूचनाधारः (Database) गुणपत्रकान्तर्निहिते chip मध्ये भवति । chip मध्ये रक्षितः परिचयः साक्षात्कारादिस्थलेषूपयुक्तो भवति ।
 
परीक्षाविभागः परीक्षापरिणामं लघुसन्देशद्वारा (SMS) तथा विश्वविद्यालयजालस्थाने (University Website) प्रकटयति ।
पङ्क्तिः ७७:
==== छात्रावाससुविधा ====
 
बहिस्थात् ये विद्यार्थिनः आगच्छन्ति, तेभ्यः छात्रावाससुविधाप्यत्रास्ति । अत्र द्वौ विशालौ छात्रालयौ स्तः । एकः छात्रेभ्यः, द्वितीयः छात्राभ्यश्च । अत्रैव पत्रालय-वित्तकोष-अल्पाहारगृहादयः सन्ति ।
 
==== विद्यार्थिसहायकेन्द्रम् ====
 
विद्यार्थिसहायकेन्द्रस्य नाम I.V.R.S (Interactive Voice Response System) अस्ति । अत्र दूरवाण्या विद्यार्थिनः स्वप्रश्र्नानाम् उत्तराणि प्राप्नुवन्ति । तस्य क्रमाङ्कः - ०७९-६६१२३१००, ०७९-६६१२३०००.
 
अनेन ज्ञायते यत्, गुजरातविश्वविद्यालयः ज्ञानपिपासूनां आकर्षणाय महत्परिश्रमं करोति, तथा स्वस्य अभ्यासक्रमे नावीन्यं निर्वहति । एतादृशाणि कार्याणि एव एनं विश्वविद्यालयं भारते प्रसिद्धिं ददति ।
पङ्क्तिः ९६:
 
== बाह्यानुबन्धाः ==
 
* [http://www.gujaratuniversity.org.in/ गुजरातविश्वविद्यालयस्य अधिकृतं जालस्थानम्]
 
* http://timesofindia.indiatimes.com/topic/gujarat-university
 
== उद्धरणम् ==
== सन्दर्भः ==
{{reflist|2}}
 
{{शिखरं गच्छतु}}
 
[[वर्गः:गुजरातराज्यस्य विश्वविद्यालयाः]]
{{शिखरं गच्छतु}}
"https://sa.wikipedia.org/wiki/गुजरातविश्वविद्यालयः" इत्यस्माद् प्रतिप्राप्तम्