"शबरस्वामी" इत्यस्य संस्करणे भेदः

शबरस्य देशकालकृतयः
 
format
पङ्क्तिः १:
'''शबरस्वामि'''ना जैमिनिसूत्रस्य गूढरहस्योन्मीलकं भाष्यमनेन विदुषाभाष्यं व्यरचि। जैनमतानुसारिभिः कृतादुपसर्गादात्मानं रिरक्षिषुरसौ शबरवसतौ शबरवेषं स्वीकृत्य न्युवासेत्याख्यायिका<ref>“...His the name being Ādityadeva, while he adopted true soubriquet Śabara, when he disguised himself as a forestor to avoid Jain persecution” − Keith A. B., Karma Mīmāṃsā, p. 9.</ref> श्रूयते। अपराख्यायिकया‘<ref>‘ब्राह्मण्यामभवद्वराहमिहिरो ज्योतिर्विदामग्रणीः राजा भर्तृहरिश्च विक्रमनृपः क्षत्रात्मजायामभूत्। वैश्यायां हरिश्चन्द्रवैद्यतिलको जातश्च शङ्कुः कृती शूद्रायाममरः षडेव शबरस्वामिद्वजस्यात्मजाः॥’ (परम्परया श्रूयमाणोऽयं श्लोकः)</ref> तु विक्रमादित्यनृपतिपितायमिति ज्ञायते।
==शबरस्वामी==
 
जैमिनिसूत्रस्य गूढरहस्योन्मीलकं भाष्यमनेन विदुषा व्यरचि। जैनमतानुसारिभिः कृतादुपसर्गादात्मानं रिरक्षिषुरसौ शबरवसतौ शबरवेषं स्वीकृत्य न्युवासेत्याख्यायिका<ref>“...His the name being Ādityadeva, while he adopted true soubriquet Śabara, when he disguised himself as a forestor to avoid Jain persecution” − Keith A. B., Karma Mīmāṃsā, p. 9.</ref> श्रूयते। अपराख्यायिकया‘<ref>‘ब्राह्मण्यामभवद्वराहमिहिरो ज्योतिर्विदामग्रणीः राजा भर्तृहरिश्च विक्रमनृपः क्षत्रात्मजायामभूत्। वैश्यायां हरिश्चन्द्रवैद्यतिलको जातश्च शङ्कुः कृती शूद्रायाममरः षडेव शबरस्वामिद्वजस्यात्मजाः॥’ (परम्परया श्रूयमाणोऽयं श्लोकः)</ref> तु विक्रमादित्यनृपतिपितायमिति ज्ञायते।
===देशः===
 
अयम् उत्तरभारतीयः काश्मीरस्थः अथवा तक्षशिलास्थः आसीदिति गङ्गानाथझामहाभागः अभिप्रैति<ref>डॉक्टर रघुनाथ गिरि, “शबर”, भारतकोश, Last modified- 22 September, 2015, http://www.bharatdiscovery.org/india/शबर.</ref>। गंगासागररायमहोदयस्तु श्लोकवार्तिकप्रास्ताविके दाक्षिणात्योऽयमिति ब्रवीति− ‘ऐतिह्यविदां बहुलः समाज इमं विद्वद्धौरेयं दाक्षिणात्यमेवाभिमन्यते− इति वयमपि तथैव स्वीकुर्मः’<ref>श्लोकवार्तिकम् (प्रास्ताविकम्), पृष्ठम्- ९।</ref> इति।
 
===कालः===
 
शबरभाष्ये पाणिनिकात्यायनौ स्मृताविति पूर्वमेवोपदर्शितम्। तयोरनन्तरकालीनोऽयमिति सिद्ध्यति। पतञ्जलेरुल्लखो यद्यपि शबरेण न कृतं तथापि पतञ्जलेरर्वाचीनोऽयमिति प्रतिभाति। यतोहि महाभाष्यस्य वचनानां साक्षादनुवादः तत्र तत्र शबरभाष्ये उपलभ्यते। <ref>“The form of his name and his relation to the Vṛttikāra suggest that 400 A. D.is the earliest date to which he can be assigned” −Ibid-page 9.</ref>चतुर्थशतकोत्पन्नोऽयमिति केचन विद्वांसो वदन्ति। द्विशतकोत्पन्नोऽयमिति गजाननशास्त्री।
 
===कृतिः===
 
महाभागेनानेन जैमिनिसूत्रस्य सुविस्तृतं भाष्यं विरचितम्। भाष्यमिदं महाभाष्यवत् सरलं, सरसं, संवादात्मकञ्च। अस्मादेव भाष्यात् प्राचीनानां वृत्तिकाराणामुपवर्षादीनां भाष्यकाराणाञ्च अस्तित्वमनुमीयते, भाष्ये तत्र तत्र ‘अन्यैरुक्तम्’, ‘अपर आह’ इत्यादिवचनलाभात्। ‘सत्याषाढश्रौतसूत्रम्’ इत्यस्य भाष्यं शबरो विरचयामास इति दत्तकमीमांसानुयायिनः। दीप्तस्वामिनः पुत्रःशबरस्वामी ‘लिङ्गानुशासनम्’ इत्यस्य ‘सर्वार्थलक्षणी’ इत्याख्यां टीकां व्यररचत् इत्यपि श्रूयते। परन्तु एते टीकाकारा मीमांसाभाष्यकाराच्छबरादभिन्नाः इत्यत्र प्रमाणं नास्ति।
 
== उद्धरणम् ==
{{reflist}}
 
== सम्बद्धाः लेखाः ==
 
*[[मीमांसादर्शनम्]]
*[[प्रभाकरः]]
*[[जैमिनी]]
*[[मीमांसादर्शनस्य द्वैतोपयोगित्वम्]]
 
[[वर्गः:प्राचीनगुरवः]]
[[वर्गः:पौराणिकधार्मिकव्यक्तयः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/शबरस्वामी" इत्यस्माद् प्रतिप्राप्तम्