"क्रोधाद्भवति सम्मोहः..." इत्यस्य संस्करणे भेदः

name, replaced: type3 = [[ → name3 = [[ using AWB
0
पङ्क्तिः १४:
 
}}-->
क्रोधाद्भवति सम्मोहः ({{IPA audio link|{{PAGENAME}}.wav}}) इत्यनेन श्लोकेन भगवान् श्री[[कृष्णः]] अधःपतनस्य कारणानि निरूपयति । पूर्वस्मिन् श्लोके विषयचिन्तनात् रागः, रागात् आसक्तिः, आसक्त्याः कामना, कामनायाः क्रोधश्च समुद्भवति इति उक्तम् । इतोऽपि अधिकानि पतनकारणानि अत्र वदति । चतुःपञ्चाशे श्लोके अर्जुनस्य तृतीयः प्रश्नः स्थितधीः (स्थितप्रज्ञः) किमासीत इति आसीत् । तस्य प्रश्नस्योत्तरं भगवान् अष्टपञ्चाशात् श्लोकात् एनं श्लोकं पर्यन्तम् अर्थात् त्रिषष्टं श्लोकं पर्यन्तं कथयति ।
 
== श्लोकः ==
 
Line २० ⟶ २२:
:'''स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥'''
 
अयं भगवद्गीतायाः द्वितीयोध्यायस्य सांख्ययोगस्य त्रिषष्टितमः श्लोकः।
==पदच्छेदः==
 
क्रोधात्, भवति, सम्मोहः, सम्मोहात्, स्मृतिविभ्रमः । स्मृतिभ्रंशात्, बुद्धिनाशः, बुद्धिनाशात्, प्रणश्यति ॥
 
==अन्वयः==
 
विषयान् ध्यायतः पुंसः तेषु सः उपजायते, सात् कामः सञ्जायते, कामात् क्रोधः अभिजायते, क्रोधात् सम्मोहः भवति, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशः, बुद्धिनाशात् प्रणश्यति ।
 
== शब्दार्थः ==
 
:विषयान् = इन्द्रियविषयान्
:ध्यायतः = चिन्तयतः
Line ५१ ⟶ ५५:
 
== अर्थः ==
 
शब्दादिविषयान् आलोचयतः पुरुषस्य तेषु आसक्तिः उपजायते । तस्याः आसक्तेः तृष्णा सञ्जायते । यदि सा तृष्णा प्रतिहता भवति तर्हि क्रोधः अभिजायते । क्रोधात् अविवेकः उत्पद्यते । अविवेकात् शास्त्राध्ययनेन गुरूपदेशेन वा प्राप्तायाः स्मृतेः भ्रंशः भवति । स्मृतिभ्रंशात् बुद्धिनाशः भवति । बुद्धिनाशात् पुरुषः नष्टो भवति ।
 
== भावर्थः ==
'क्रोधाद्भवति सम्मोहः' – क्रोधे सति सम्मोहः (मूढता) भवति । सम्मोहात् स्मृतिभ्रष्टता जायते । स्मृतिभ्रष्टतायां सत्यां बुद्धिनाशः सञ्जायते . बुद्धिनाशात् मनुष्यस्य पतनं भवति । क्रोधात् सम्मोहः (मूढता) सञ्जायते, परन्तु वास्तव्येन कामात्, क्रोधात्, लोभात्, ममतायाः च सम्मोहः समुद्भवति । यथा – कामनायाः यः सम्मोहः जायते, सः विवेकशक्तिं नाशयति । क्रोधात् यः सम्मोहः समुद्भवति सः वर्तनव्यवहारं नाशयति । लोभात् समुद्भूतः सम्मोहः सत्यासत्ययोः, धर्माधर्मयोः विचारं नाशयति । ममतायाः समुद्भूतात् सम्मोहात् पक्षपातः जायते ।
 
यदि काम-क्रोध-लोभ-ममताभ्यः सम्मोहः जायते, तर्हि भगवता किमर्थं केवलं क्रोधस्य एव उल्लेखः सम्मोहोद्भवस्य कारणत्वेन कृतः । यदि सर्वेषां कामादीनाम् अध्ययनं क्रियते, तर्हि ज्ञायते यत्, सर्वेषु स्वसुखोपभोस्य, स्वार्थवृत्तिः च प्रबलता भवति । अतः क्रोधात् यः सम्मोहः सञ्जायते सः काम-लोभ-ममतादिभ्यः समुद्भूतात् सम्मोहात् भयङ्करः भवति । अतः अत्र भगवता केवलं क्रोधस्यैव सम्मोहोद्भवकारणत्वेन उल्लेखः कृतः ।
 
'सम्मोहात्स्मृतिविभ्रमः' – मूढतायाः कारणेन स्मृतिनाशः भवति । अर्थात् शास्त्रेषूक्ताः आदेशाः, सद्विचारैः उद्भूताः सङ्कल्पाः च स्मृतिविभ्रमत्वात् विस्मृताः भवन्ति । यथा – शास्त्रेषूक्तम् अस्ति यत्, भोजनान्ते विषं वारि इति । सद्विचारैः ज्ञातं यत्, नित्यं प्रातःकाले व्यायामः कर्तव्यः इति । परन्तु स्मृतिविभ्रमात् एतादृशानि सद्कार्याणि विस्मृतानि भवन्ति ।
 
'स्मृतिभ्रंशाद्बुद्धिनाशो' – स्मृतिनष्टे सति बुद्धौ स्थितः विवेकः अपि लुप्तः भवति अर्थात् मनुष्ये नवीनां विचाराणां चिन्तनाय शक्तिरेव न भवति ।
'बुद्धिनाशात्प्रणश्यति' – विवेकलुप्ते सति मनुष्यः पतितः भवति । तस्मात् पतनात् रक्षणाय सर्वैः साधकैः भगवत्पराणयैः अनिवार्येण भवितव्यम् ।
 
== मर्मः ==
 
अग्रिमश्लोके, अस्मिन् श्लोके च विषयचिन्तनमात्रेण क्रमेण रागः, कामना, क्रोधः, सम्मोहः, स्मृतिनाशः, बुद्धिनाशः पतनक्रमः भगवता उपस्थापितः । तस्य पतनक्रमस्य विवेचने कदाचित् दीर्घकालः भवति, परन्तु मनुष्यस्य पतनक्रियायाः काले सः क्रमः अतीव शीघ्रं चक्रं पूर्णं करोति ।
 
==शाङ्करभाष्यम्==
 
क्रोधादिति । क्रोधाद्भवति संमोहोऽविवेकः कार्याकार्यविषयः । क्रुद्धो हि संमूढः सन्गुरुमप्याक्रोशति । संमोहात्स्मृतिविभ्रमः शास्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतॆः
स्याद्विभ्रमॊ भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तावनुपत्तिः । ततः स्मृतिभ्रंशाद्बुद्धिनाशः । बुद्वॆर्नाशः । कार्याकार्यविषयविवॆकायॊग्यतान्तःकरण्स्य बुद्धॆर्नाश उच्य्तॆ । बुद्धिनाशात्प्रणश्यति ।
तावदॆव हि पुरुषॊ यावदन्तःकरणं तदीयं कार्याकार्यविषयविवॆकयॊग्यं तदयॊग्यत्वॆ नष्ट एव पुरुषॊ भवति । अतः तस्यान्तःकरणस्य बॆद्धॆर्नाशात् प्रणशयति पुरुषार्थायॊग्यॊ भवतीत्यर्थः ॥६३॥
 
=== भाष्यार्थः ===
 
क्रोधात् सम्मोहः अर्थात् कर्तव्याकर्तव्यविषकस्य अविवेकस्य उद्भवः । यतः क्रोधी मनुष्यः मोहितः सन् गुरुं (ज्येष्ठानां) प्रति अपि अपशब्दानाम् उपयोगं करोति । मोहात् स्मृतेः विभ्रमो जायते अर्थात् शास्त्रैः, आचार्यैः च येभ्यः उपदिष्टेभ्यः संस्कारेभ्यः स्मृतिः उद्भवति स्म, तेषां संस्काराणाम् अनुगुणं कार्यं कर्तुम् अवरसे प्राप्ते सत्यपि उपदेसानुगणं कार्यं न भवति ।
 
एवं स्मृतिविभ्रमे सति बुद्धिनाशो जायते । अन्तःकरणे कार्याकार्ययोः विवेचनयोग्यतायाः नाश एव बुद्धिनाशः उच्यते । बुद्धिनाशत्वात् मनुष्यः नष्टो भवति । यतो हि सः तावत्पर्यन्तं मनुष्यः अस्ति, यावत्पर्यन्तं तस्य अन्तःकरणं कार्याकार्ययोः विवेचने समर्थम् अस्ति । कार्याकार्ययोः विवेचनायाम् असमर्थः मनुष्यः नष्टप्रायः भवति । अर्थात् तस्मिन् मनुष्यतायाः हीनता भवति इति । एवं मनुष्यस्य अन्तःकरणस्य विवेकशक्तरूपिण्याः बुद्धेः नाशे पुरुषः नष्टो भवति । अर्थात् सः पुरुषार्थेभ्यः अयोग्यः सिद्ध्यति ।
 
{{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः = [[ध्यायतो विषयान्पुंसः...]] |अग्रिमश्लोकः =[[रागद्वेषवियुक्तैस्तु...]]}}
"https://sa.wikipedia.org/wiki/क्रोधाद्भवति_सम्मोहः..." इत्यस्माद् प्रतिप्राप्तम्