"मैसूरु" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
पङ्क्तिः ७२:
 
मैसूरुनगरं [[कर्णाटक]]प्रान्ते स्थितं किञ्चन प्रमुखं नगरम् अस्ति । [[कर्णाटक]]स्य सांस्कृतिकराजधानी इति प्रसिद्धम् अस्ति ।
मैसूरुनगरम् सागतस्तरतः २५२५ पादपरिमितोन्नते स्थले अस्ति । उत्तमं वातावरणयुक्तं वासयोग्यं च अस्ति । पूर्वम् एतत् लघु नगरम् ऐतिहासिकं प्रशासनिककेन्द्रं च आसीत् । इदानीं महानगरम् इति ख्यातमस्ति । '''मैसूरु''' ओडेयरवंशजाः नगरस्य अभिवृध्दिकार्याणि उत्तमतया कृतवन्तः सन्ति ।
इदानीं मैसूरुनगरे विशालाः मार्गाः उन्नतानि सुन्दराणि भवनानि सुन्दराणि उद्यानानि देवस्थानानि विद्यालयाः च सन्ति । पूर्वकालतः राजगृहं, जगन्मोहनकलासङ्ग्रहालयः, प्राणिसङ्ग्रहालयः, कलासंस्कृतिस्थानानि च नगरस्य सौन्दर्यं वर्धयन्तः सन्ति ।
 
"https://sa.wikipedia.org/wiki/मैसूरु" इत्यस्माद् प्रतिप्राप्तम्