"बेलूरु" इत्यस्य संस्करणे भेदः

कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि using AWB
पङ्क्तिः ६२:
बेलूरु –विश्वसुन्दरीणां स्थानम् इति प्रसिद्धम् अस्ति ।
 
[[कर्णाटकम्|कर्णाटकप्रदेशे]] पूर्वम् अनेकवंशीयाः प्रशासकाः आसन् । तेषु होय्सळवंशीयाः कलासक्ताः धार्मिकाः अत्यन्तं प्रसिद्धाः च आसन् । [[होय्सळाः|होय्सळानाम्]] अत्युत्तमं कार्यं बेलूरुचेन्नकेश्वरदेवालयनिर्माणम् इति सर्वविदितम् अस्ति ।
 
बेलूरुचेन्नकेश्वदेवालयः शिल्पकलासङ्ग्रहालयः अद्भुतकलाकृतीनाम् आश्रयः विश्वप्रसिद्धः च अस्ति । बेलूरुनगरे मध्यभागे एव अस्ति एषः सुन्दरः देवालयः । देवालयस्यावरणम् ४४३ पादमितदीर्घं, ३९६ पादमितविस्तृतम् । देवालयस्य प्राङ्गणम् १७८ पादमितदीर्घं, १५६ पादविस्तृतं च अस्ति । त्रिपादपरिमितोन्नतायां वेदिकायां नक्षत्राकारे प्रदेशे देवालयस्य निर्माणम् कृतमस्ति ।
पङ्क्तिः ७०:
स्तम्भेषु मदनिकाशिल्पानि अद्भुतानि । प्रायशः द्विपादोन्नताः अपूर्वाः विविधाः मदनिकाः सम्यगलङ्कृताः सन्ति । तासां नामानि अपि सन्ति । तासु रुद्रिका, चन्द्रिका, रेणुका, मोहिका, दर्पणसुन्दरी इत्याद्यः प्रसिद्धाः सन्ति । एताः ४२ सङ्ख्याकाः सन्ति । मदनिकानां सौन्दर्यम् अपूर्वं, विलासाः च मधुराः मनमोहकाः सन्ति । प्रत्येकमदनिका अपि सुन्दररचनायुक्ता आकर्षणयुक्ता च अस्ति ।
 
स्तम्भाच्छादनयोः मध्ये ३० कोणे अद्भुताः एताः कलाकृतयः प्रतिष्ठापिताः सन्ति । दर्शकाः एतासां रचनावैभवं भावानां स्मरणं कुर्वन्तः शिल्पकार्यम् सगौरवम् स्तुवन्ति ।
 
अपूर्वशिल्पकलायुक्तः अयं देवालयः स्वस्य अमोघवास्तुशिल्पद्वारा उत्तमाकलाकृतिः पवित्रस्थानम् इति च ख्यातम् अस्ति । अमरशिल्पी जकणाचारिप्रभृतिभिः निर्मितम् । अत्रत्यं शिल्पकलावैभवं द्रष्टुं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । विदेशीयाः अपि अत्र आगत्य अत्यन्तम् आनन्दम् अनुभवन्ति शिल्पविशेषतां ज्ञातुं प्रयत्नं कुर्वन्ति ।
पङ्क्तिः १०५:
* [http://www.flickr.com/photos/gopalarathnam_v/sets/72057594055749931/ बेलूरुहळेबीडु चित्राणि]
* [http://www.lonelywanderer.com/c321894.html बेलूरुहळेबीडु चित्राणि]
 
 
 
[[वर्गः:हासनमण्डलस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:कर्णाटकस्य ऐतिहासिकस्थानानि]]
[[वर्गः:कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि]]
[[वर्गः:कर्णाटकस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:भारतस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/बेलूरु" इत्यस्माद् प्रतिप्राप्तम्