"बसवनबागेवाडी" इत्यस्य संस्करणे भेदः

मार्जनम् using AWB
कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि, replaced: [[वर्गः:बिजापुरमण्डलस्य प्रेक्षणीयस्थाना using AWB
 
पङ्क्तिः ५४:
| footnotes =
}}
 
 
'''बसवनबागेवाडी'''(Basavana Bagevadi) [[कर्णाटक]]राज्ये [[बिजापुरमण्डलम्|बिजापुरमण्डले]] विद्यमानं किञ्चन नगरम् । महात्मनः [[बसवेश्वरः|बसवेश्वरस्य]] जन्मस्थानम् एतत् । द्वादशशतके जातः एषः धार्मिकक्रान्तिकारः । [[वीरशैवमतम्|वीरशैवमतस्य]] च प्रवर्तकः । इदानीम् अपि वीरशैवानां पवित्रं तीर्थक्षेत्रम् अस्ति एतत् । तस्य जन्मस्थाने सुन्दरं मन्दिरं निर्मितम् अस्ति । कर्णाटकस्य प्रसिद्धशिवशरणक्षेत्रेषु बसवनबागेवाडि अपि अन्यतमम् । युगपुरुषः, भक्तिभण्डारी, विचारवादी, मानवतावादी, समाजवादी, समाजोद्धारकः, स्त्रीसमानतावादी [[कन्नडभाषा|कन्नड]]साहित्यस्य नूतनदृष्टिदाता, क्रान्तिकारी, महामहिमवान् बसवण्णः बसवनबागेवाडीनगरे जातः ।
Line ६७ ⟶ ६६:
[[बसवण्णः]] यत्र जातः प्रवृद्धश्र्च तद्गृहं सर्वकारेण [[राष्ट्रियस्मारकम्|राष्ट्रियस्मारकं]] कृतम् । बसवनबागेवाड्यां विशाले स्थले बसवण्णस्य सुन्दरः देवालयः निर्मितः । कर्णाटकराज्ये '''गोहत्यारहितम् एकमात्रपट्टणम्''' अस्ति बसवनबागेवाडी । अत्र [[अहिंसा]] नियमपूर्वकम् आचर्यते । बसवनबागेवाडिमध्ये दर्शनीयानि स्थानानि '''इङ्गळेश्र्वरम्, जायवाडगी, मुळवाडः''' च । एते ग्रामाः ऐतिहासिकदृष्ट्या, पौराणिकदृष्ट्या च प्रसिद्धाः ।
'''इङ्गळेश्र्वरग्रामः''' बसवनबागेवाडितः १० कि.मी दूरे अस्ति । आरम्भदिनेषु बसवनबागेवाडिं इङ्ळेश्र्वरबागेवाडि इति आह्वयन्ति स्म । बसवण्णस्य जननान्तरं बसवनबागेवाडि इति प्रसिद्धं जातम् । इङ्गळेश्र्वरं बागेवाडी च बसवण्णस्य व्यक्तित्वम् अरूपयत् । बसवण्णः अत्रैव बाल्यं यापितवान् ।
 
'''जायवाडगी''' - एतदेकं धार्मिकक्षेत्रम् । बसवनबागेवाडितः १० कि.मी दूरे एषः ग्रामः अस्ति । कृषिकाः [[वृषभः|वृषभान्]] देवालयं प्रति आनीय प्रदक्षिणं कारयन्ति । ततः एते वृषभाः दृढाः भवन्ति इति तेषां विश्र्वासः ।
Line ८८ ⟶ ८७:
==बाह्यसम्पर्कतन्तुः==
 
[[वर्गः:कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि]]
 
[[वर्गः:बिजापुरमण्डलस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:पञ्चशिवशरणानां क्षेत्राणि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/बसवनबागेवाडी" इत्यस्माद् प्रतिप्राप्तम्