"धर्मशास्त्रम्" इत्यस्य संस्करणे भेदः

हनमम्
चित्रं योजनीयम् using AWB
पङ्क्तिः १:
'''धर्मशास्त्रम्''' (Dharmaśāstra) भारतीयशास्त्रेषु अन्यतमम् । भारतीयपरम्परायाम् अस्य शास्त्रस्य बहुमुख्यं प्राशस्त्यम् अस्ति । धर्मशब्दः ‘धृ’ धारणे इति धातोः व्युत्पन्नः । तत्र महाभारते ‘धारणाद्धर्म इत्याहुः धर्मो धारयते प्रजाः’ इति यद् उपवर्णितं तद् धर्मस्य यथार्थस्वरूपं संक्षेपेण प्रतिपादयति । एवं धर्मः समाजस्य धारणं नाम संरक्षणम् संवर्धनं च करोति, अर्थात् समाजकल्याणकारिणीं कामपि जीवनयापनपद्धतिं निर्दिशति । धर्मशब्दः प्रप्रथमतया ऋग्वेदे दृश्यते । अस्मिन् धर्मः इत्येतत् पदं धार्मिकविधिः, व्रतम्, आचारः इत्येतेषु अर्थेषु प्रयुक्तः अस्ति । अन्येषु सन्दर्भेषु धारकः पोषकः इत्येतौ अर्थौ बोधितः । तैत्तिरीय उपनिषदि 'धर्मञ्चर’ इति शिष्यानुशासनम्, मनुस्मृतौ 'भगवान्, सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवाणां च धर्मान्नो वक्तुमर्हसि ॥' इति, याज्ञवल्क्यस्मृतौ ’योगिश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥' इति, पराशरस्मृतौ ’चातुर्वर्ण्यसमाचारं किञ्चित् साधारणं वद । चतुर्णामपि वर्णानां कर्तव्यं धर्मकोविदैः ॥' इत्येतेषु उक्तिषु प्राक्तनभारतीयसमाजस्य चतुर्वर्णीयैः आश्रमस्थैः अनुसरणीयाः आचाराः एव धर्मपदेन उपदिष्टाः भवन्ति ।

जैमिनिमते धर्मः इत्यस्य निरूपणं, ’बोधनालक्षणोऽर्थोधर्मः’ इति कृतमस्ति । वैशेषिकसूत्रे ’अथातो धर्मं व्याख्यास्यामः’।, 'यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः’ इति व्याख्यातम् अस्ति । एवमेव ’ध्रियते अनेनेति धर्मः’, ’धर्मे सर्वं प्रतिष्ठितम्’, ’धारणात् धर्ममित्याहुः’ 'धर्मोधारयते प्रजाः’ इत्याद्याः उक्तयः धर्मस्य व्याप्तिं प्रयोजनञ्च प्रतिपादयन्ति ।

==धर्मस्य प्रकाराः==
पङ्क्तिः ९:
शरीर-कालधर्माश्च आपद्धर्मास्तथैव च ॥

एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः।<ref>पराशरधर्मसंहिता-माधवीयवृत्ति १.१७</ref>

देशधर्मः, कुलधर्मः, जातिधर्मः, वयो(आश्रम)धर्मः, गुणधर्मः, शरीर-कालधर्मः, आपद्धर्माश्च धर्मस्य प्रकाराः भवन्ति । वर्णधर्मः, आश्रमधर्मः, वर्णाश्रमधर्मः, नैमित्तिकधर्मः, गुणधर्मश्च धर्मस्य पञ्चप्रकाराः सन्ति इति मनुस्मृतेः टीकाकारः गोविन्दराजः, गौतमधर्मस्य सूत्रस्य टीकाकारः हरदत्तश्च प्रतिपादयन्ति ।

==धर्मस्य आकराः==
धर्मस्य आकराः विभिन्नेषु ग्रन्थेषु प्रतिपादिताः सन्ति । तानि,

*"वेदो धर्म मूलम् ।"

"तद्विदां च स्मृतिशीले ।" गौ.ध.सू, १,१.२

*"धर्मज्ञसमयः प्रमाणम् ।"

वेदाश्च । आ.ध.सू,१ , १.१, २-३

*उपदिष्टो धर्मः प्रतिवेदम् । बो.ध.सू १.१.१

स्मार्तो द्वितीयः । तृतीयश्शिष्टागमः । १, १,३-४

श्रुतिस्मृतिविहितो धर्मः ।

तदलाभे शिष्टाचारः प्रमाणम् । व,ध.सू १ ४-५

*अथातो धर्मं व्याख्यास्यामः ।

श्रुतिप्रमाणको धर्मः ॥ हा.ध.सू

*वेदोऽखिलो धर्ममूलम् । स्मृतिशीले च तद्विदाम् ।

आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ म. २, ६

*वेदाः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।

एतच्चतुर्विधु प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ म, २ १-२

*श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रयमात्मनः ।

सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ या १,७

==धर्मशास्त्रसाहित्यस्य विकासः==
धर्मशास्त्रस्य सहस्राधिकाः उपलभ्यमानाः ग्रन्थाः प्रायशः २५ दशकेभ्यः पूर्वदारभ्य धारावाहितया अद्यापि लभ्याः सन्ति । धर्मशास्त्रग्रन्थाः रचनाशैलीम् अनुसृत्य सूत्र-स्मृति-टीकादिभिः विभक्ताः सन्ति । रचनाकालादारभ्य समर्थतया विभक्ताः सन्ति एते ग्रन्थाः । धर्मशास्त्रस्य ग्रन्थाः आदौ धर्मप्रचारयोग्यं प्रदेशं दर्शयन्ति । मनुस्मृतौ सरस्वती दृषद्वती नद्योः विद्यमानं मध्यभागं (प्रदेशं) ब्रह्मावर्तमिति उपदिष्टम् अस्ति । कुरुक्षेत्र-मत्स्य-पाञ्चाल-शूरसेनप्रदेशाणां प्रदेशः ब्रह्मर्षिदेशः इति । हिमवद् विन्द्यपर्वतयोः मध्ये विद्यमानं कुरुक्षेत्रं पूर्वप्रदेशः इति, प्रयागस्य पश्चिमदिशि विद्यमानं प्रदेशं मध्यदेशः इति, पूर्वपश्चिमसमुद्रयोः हिमवद् विन्द्यपर्वतयोः च विद्यमानयो मध्यविशालप्रदेशम् आर्यवर्तप्रदेशः इति च निर्दिष्टः अस्ति । एतेषु उत्तरोत्तरदेशस्यापेक्षया पूर्वदेशाः धर्मानुष्ठाय योग्याः इति ।

==धर्मशास्त्रस्य प्रमेयाः==
धर्मशास्त्रे सामान्यतया विषयाः त्रिषु विभागेषु विभक्ताः । आचारः, व्यवहारः, प्रायश्चित्तञ्च इति । वेदेषु विद्यमानाः बीजरूपविषयाः धर्मसूत्रेषु निबद्धाः सन्ति । मनोः, याज्ञवल्क्यस्य, नारदस्य, पराशरस्य च स्मृतिषु शास्त्रीयदृष्ट्या विभागः कृतः अस्ति ।

===आचारः===
पङ्क्तिः ५२:
न त्वेव तु कृतो धर्मः कर्तुर्भवति निष्फलम् ॥

अधर्मेणैधते तावत्ततो भद्राणि पश्यति ।

ततः सपत्नान् जयति समूलस्तु विनश्यति ॥

*आचारकाण्डे प्रमुखाः विषयाः वर्णधर्मः, आश्रमधर्मः, अनयोः धर्मयोः सम्बद्धाः संस्काराः च निरूपिताः ।
पङ्क्तिः ५८:
सर्वेषु धर्मशास्त्रग्रन्थेषु अस्याः वर्णव्यवस्थायाः निरूपणं कृतम् अस्ति । '''चत्वारो वर्णाः ब्राह्मणक्षत्रियवैश्यशूद्र''' इति । "ब्राह्मणोऽस्य मुखमासीत् बाहु राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्ब्भ्यां शूद्रो अजायत"<ref>ऋग्वेदः, १.९०.१२</ref> इति ऋग्वेदे अपि वर्णितम् अस्ति । वर्णविभजनस्य उद्देश्यं तु लोकस्य अभिवृद्धिः एव । उक्तं तद्यथा,

'''लोकानां विवृध्यर्थं मुखबाहूरुपादतः ।'''

'''ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥'''

====आश्रमव्यवस्था====
पङ्क्तिः ६६:
'''तदर्धकं पादिकं वा ग्रहणान्तिकमेव वा ॥'''

'''वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।'''

'''अविप्लुतब्रह्मचर्यो गृहस्थाश्रममासेत् ॥'''<ref>मनुस्मृतिः, ३.१२</ref>

*गृहस्थाश्रमः- सकलाश्रमाणाम् आधारभूतः अतिमुख्यः च आश्रमः गृहस्थाश्रमः । सकलाश्रमाणां आधारस्तम्भः भवति । अस्य आश्रमस्य वैशिष्ट्यम् एवं निरूपितम्,

पङ्क्तिः ७६:
:गृहस्थेभ्यः कानिचन कर्तव्यानि निर्दिष्टानि सन्ति । तानि भवन्ति,

अध्यापनं ब्रह्मयज्ञः, षितैयज्ञस्तु तर्पणम् ।

होमो दैवो बलिर्भौतोनृयज्ञोऽतिथिपूजनम्॥<ref>मनुस्मृतिः, ३.७०</ref>

*वानप्रस्थः- देवऋणात्,ऋषिऋणात्, पितृऋणात् च मुक्तो भूत्वा , एवं क्रमशः यजनयाजनम्, अध्ययनम्, अध्यापनम्, पुत्रप्रजननानन्तरं पौत्रस्य जननं च दृष्ट्वा जटाधारीभूत्वा आवसथाग्निना सह काननं प्रति गन्तव्यम् । वन्यफलादिकं भुक्त्वा जीवितव्यम् । प्रतिनित्यं त्रिषवणम्(त्रिवारं स्नानम्), त्रिसन्ध्याजपम्, भूमौ शयितव्यम् । आत्मसिद्धि प्राप्तुं यतमानः भवेत् । श्रुतेः, उपनिषदानां च अध्ययनं निरन्तरतया भवेत् ।

*वानप्रस्थः- देवऋणात्,ऋषिऋणात्, पितृऋणात् च मुक्तो भूत्वा , एवं क्रमशः यजनयाजनम्, अध्ययनम्, अध्यापनम्, पुत्रप्रजननानन्तरं पौत्रस्य जननं च दृष्ट्वा जटाधारीभूत्वा आवसथाग्निना सह काननं प्रति गन्तव्यम् । वन्यफलादिकं भुक्त्वा जीवितव्यम् । प्रतिनित्यं त्रिषवणम्(त्रिवारं स्नानम्), त्रिसन्ध्याजपम्, भूमौ शयितव्यम् । आत्मसिद्धि प्राप्तुं यतमानः भवेत् । श्रुतेः, उपनिषदानां च अध्ययनं निरन्तरतया भवेत् ।
*सन्यासाश्रमः- वानप्रस्तस्य अस्य च भेदः तावान् नास्ति । वानप्रस्थाश्रमे जटाधारिः भवति । अस्मिन् तु मुण्डितः भवति । अस्मिन् आत्मसाधनार्थं सर्वदा यतमानाः भवेयुः । उक्तञ्च,

वनेषु च विहृत्यैवं तृतीयं भागमायुषः ।

Line ८७ ⟶ ८६:
नागारे नासने नान्ने यस्य वै मोक्षवित्तु सः ॥<ref>वसिष्ठः, १०-२३</ref>

अरण्यनित्यस्य जितेन्द्रियस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य ।

आध्यात्म चिन्तागमानसस्य ध्रुवाह्यसौवृत्तिरुपेक्षकस्य ॥<ref>वसिष्ठः, १०-२३</ref>

*संस्काराः- संस्काराः सामान्यतया द्विधा विभक्ताः । जननपूर्वाः जननानन्तराणि च । संस्काराः षोडष उक्ताः सन्ति । तानि मनस्मृतौ उक्तानि सन्ति । यथा,गर्भादानम्, पुंसवनम्, सीमन्तोनयनम्, जातकर्म, नामकरणम्, निष्क्रमणम्, अन्नप्राशनम्, चूडाकरणम्, कर्णवेध, विद्यारम्भः, उपनयनम्, वेदारम्भः, केशान्तः, समावर्तनम्, विवाहः, अन्तेष्टिः च ।
Line ९६ ⟶ ९५:
बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥

स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।

महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः॥

====व्यवहारः====
Line १०३ ⟶ १०२:
'''धर्मशास्त्रानुसारेण क्रोधलोभे विवर्जितः ।'''

स्मृत्यानुसारं नृपः न्यायदानं कुर्यात् । अतः न्यायनिर्णयार्थं वेदधर्मशास्त्रपारङ्गतानाम्, सत्यवादिनाम्, निष्पक्षपातिनाम्, विद्वज्जनानां च समूहः भवतिस्म । समूहे विद्यमानानां सख्यायाः विषये स्मृतिग्रन्थेषु ऐक्यमत्यं नास्ति । समूहे नृपाः, गौरवस्थकुटुम्बिनः, वृद्धवणिक्, धनिकाः च भवेयुः । नृपस्य अनुपस्थाने कश्चित् न्यायाधीशः नृपेणैव निर्दिष्टाः भवति । एवं ग्रामेषु मण्डलादिषु च निर्दिष्टाः भवन्ति । न्यायालयादिषु गणक, लेखकः, साध्यपालि इति च त्रयः अधिकार्यः आसन् । समस्यायाः निर्णयदाने प्रतिज्ञा, उत्तरम्, संशयहेतुपरामर्शः, निर्णयप्रमाणञ्च परीक्ष्य निर्णयः देयः भवतिस्म । प्रमाणं द्विविधं, मानुषम्, दैविकञ्चेति । मानुषप्रमाणस्य अभावे दैविकप्रमाणं स्वीकुर्वन्तिस्म ।

व्यवहारः अष्टादशेषु विभागेषु विभक्ताः । ऋणम्, दानम्, निक्षेपः, अस्वामिविक्रयः, सम्भूयसमुत्थानम्, दत्तानपाकर्म, वेतनादानम्, संविद्व्यतिक्रमः, क्रयविक्रयः, स्वामिपालविवादः, सीमाविवादः, दण्डपारुष्य, वाक्पारुष्य, स्तेय, साहसम्, स्त्रीसङ्ग्रहणम्, स्त्रीपुंधर्मः, विभागः, द्यूतसमाह्वयः इति व्यवहारस्य विभागः ।

====प्रायश्चित्तम्====
Line १०९ ⟶ १०८:
'''प्रायो नाम तप-प्रोक्तं चित्तं निश्चय उच्यते ।'''

'''तपो निश्चयसंयुक्तं प्रायश्चित्तमितिस्मृतम् ॥'''

आत्मशुद्ध्यर्थम् उक्तानि सन्ति प्रायश्चित्तानि । अतः मनस्मृतौ,याज्ञवल्क्यस्मृतौ , गतमस्य, बोधायनस्य, आपस्तम्भस्य, वसिष्ठधर्मसूत्रादिषुच प्रायश्चित्तस्य विषये निरूपितम् अस्ति । प्रायश्चित्तेषु दैहिकप्रायश्चित्तानि विहाय जपतपादयः, कृच्छ्रः, अतिकृच्छाः, पराकः, चान्द्रायणादीनि प्रायश्चित्तानि निरूपितानि । प्रायश्चित्तस्य विषये भवदेवभट्टस्य प्रायश्चित्तप्रकरणम्, शूलपाणेः प्रायश्चित्तविवेकः च मुख्यौ ग्रन्थौ भवतः । रघुनन्दनस्य कृतिषु महापातकाः, उपपातकाः च वैज्ञानिकदृष्ट्या निरूपिताः । हनमम्, अभक्ष्यभक्षणम्, अगम्यगमनादिषु विषयेषु स्पष्टतया निरूपितवान् अस्ति ।

Line १२२ ⟶ १२१:

[[वर्गः:धर्मशास्त्रम्]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/धर्मशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्