"एषा तेऽभिहिता साङ्ख्ये..." इत्यस्य संस्करणे भेदः

improved
पङ्क्तिः १:
<!--{{तलं गच्छतु}}
{{Infobox settlement
|name= {{PAGENAME}}
पङ्क्तिः १३:
| subdivision_name3 = [[नेहाभिक्रमनाशोऽस्ति...]]
 
}}-->
'''एषा तेऽभिहिता साङ्ख्ये''' ({{IPA audio link|{{PAGENAME}}.wav}}) इत्यनेन श्लोकेन भगवान् श्री[[कृष्णः]] समतायाः महिम्नं वदति । पूर्वस्मिन् श्लोके भगवान् यस्याः समतायाः उपस्थापनम् अकरोत्, तस्याः समतायाः महिम्नम् एतस्मिन् श्लोके, अग्रिमे श्लोके च करोति । सः कथयति यद्, हे पार्थ ! एषा समबुद्धिः साङ्ख्ययोगम् उक्ता, अधुना तु तां कर्मयोगानुगुणं शृणु । कर्मयोगसन्दर्भे समबुद्धियुक्तः त्वं कर्मबन्धनस्य त्यागं करिष्यसि इति ।
 
== श्लोकः ==
 
Line २० ⟶ २२:
:'''बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥'''
 
अयं भगवद्गीतायाः द्वितीयोध्यायस्य सांख्ययोगस्य नवत्रिंशत्तमः श्लोकः।
==पदच्छेदः==
एषा, ते, अभिहिता, साङ्ख्ये, बुद्धिः, योगे, तु, इमाम्, शृणु । बुद्ध्या, युक्तः, यया, पार्थ, कर्मबन्धम्, प्रहास्यसि ॥
Line १०५ ⟶ १०६:
== अर्थः ==
हे अर्जुन ! परमार्थवस्तुनि विषये एषः मार्गः तुभ्यम् उक्तः अस्ति । तत्प्राप्त्युपाये योगे तु ऊर्ध्वम् उपायं सूचयिष्यामि । यदि तां बुद्धिम् आश्रयसे तर्हि कर्मबन्धात् मुक्तो भवितुम् अर्हसि ।
 
== भावार्थः ==
'एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु' – अत्र 'तु' इत्यस्य पदस्य सम्बन्धविद्च्छेदाय उपयोगः कृतः । अर्थाद्, पूर्वं साङ्ख्ययोगस्य चर्चायां एषः विषयः तु उक्तः एव । अधुना कर्मयोगानुगुणं शृणु । अत्र 'एषा' इत्यस्य पदस्य पूर्वश्लोके वर्णितां समबुद्धिं प्रति लक्ष्यम् । तस्याः समबुद्धेः वर्णनं पूर्वं साङ्ख्ययोगे <ref> गीता, अ. २, श्लो. ११-३० </ref> कृतमस्ति । देहदेहिनोः विवेके सति समतायां सत्यां स्वतःसिद्धायाः आत्मस्थितेः अनुभवः भवति । किञ्च देहे रागः एव विषमतां जनयति । एतादृशं वर्णनं साङ्ख्ययोगवर्णनावसरे तु कृतम् अस्ति । अधुना सा एव समबुद्धिः कर्मयोगानुगुमं शृणु । 'इमाम्' इत्यस्य पदस्य उपयोगः किमर्थं चेद्, इतः परं एतस्याः समबुद्धेः कर्मयोगसन्दर्भे वर्णनं भविष्यति । सा समबुद्धिः कर्मयोगद्वारा कथं सुलभ्या ? तस्याः स्वरूपं किम् ? तस्याः महत्त्वं किम् इत्यादिषु विषयेषु भगवान् अर्जुनं श्रोतुम् आज्ञापयति ।
 
'बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि' – अर्जुनस्य मनसि युद्धे कृते पापं भविष्यति इति भयः आसीत् <ref> गीता, अ. १, श्लो. ३६, ४५ </ref> । परन्तु भगवतः कथनानुसारं कर्मसु विषमबुद्धिः (रागद्वेषौ) एव पापकारणं भवति इति । समबुद्धित्वाद् पापं न कदापि भवति । यथा अखिले संसारे पापपुण्ययोः अनेकाः क्रियाः भवन्ति, परन्तु ताषां क्रियाणां प्रभावः अस्मत्सु न भवति । किञ्च तत्र अस्माकं समबुद्धिः अस्ति । अर्थाद् तत्र पक्षपातः, आग्रहः, रागद्वेषौ च न सन्ति । तथैव समबुद्धियुक्तः भविष्यसि चेद्, त्वमपि एतानि कर्माणि बन्धनकारकाणि न भविष्यन्ति । कर्मयोगिनः लोकसङ्ग्रहार्थं सर्वाणि कर्माणि कुर्वन्ति <ref> लोकसङ्ग्रमेवापि सम्पश्यन्कृतमर्हसि, गीता, अ. ३, श्लो. २० </ref> । लोकसङ्ग्रहाय कर्मणि कृते सति अर्थात् निःस्वार्थभावेन लोकमर्यादायै कर्म क्रियते चेद् समताप्राप्तिः सुगमा भवति । समताप्राप्त्यौत्तरं कर्मयोगी कर्मबन्धनेभ्यः सुगमतापूर्वकं मुक्तः भवति ।
द्वितीयाध्याये येषां विषयाणाम् उपस्थापनम् अभवत्, तेषु किञ्चित् क्रमभङ्गः दृश्यते इति केचन वदन्ति । ते उदाहरणं यच्छति यद्, 'एषा तेऽभिहता साङ्ख्ये' इत्याख्यः एषः श्लोकः एकत्रिंशो अभविष्यच्चेद् क्रमभङ्गः नाभविष्यत् । एकादशात् श्लोकाद् त्रिंशं श्लोकं पर्यन्तं साङ्ख्ययोगानुगुणं निष्ठा (समता) उक्ता । ततः कर्मयोगानुगुणं निष्ठायाः वर्णनम् उचितं भवेत् । एवम् एकत्रिंशाद् अष्टत्रिंशं पर्यन्तं ये श्लोकाः सन्ति, ते विषयेन सह असङ्गताः इति प्रतीयते । परन्तु तथा नास्ति । किञ्च कर्मयोगानुगुणं समतायाः ज्ञानं प्राप्तव्यं चेद्, कर्तव्याकर्तव्ययोः ज्ञानम् आवश्यकम् । अर्जुनाय युद्धं कर्तव्यम् आसीत्, युद्धत्यागः अकर्तव्यञ्च । अतः भगवान् कर्तव्याकर्तव्ययोः वर्णनं कुर्वतः एकत्रिंशाद् अष्टत्रिंशपर्यन्तं श्लोकान् कर्मयोगसन्दर्भे समतावर्णनात् प्राग् अवदत् । तात्पर्यम् अस्ति यद्, एकादशात् त्रिंशं श्लोकं पर्यन्तं वर्णितस्य विषये किमपि परिवर्तनं न शक्यते । सदसतोः ज्ञानेन समता प्रतिपदयन् तयोः तत्त्वयोः वास्तविकं स्वरूपं वर्णितम् । ततः एकत्रिंशाद् अष्टत्रिंशं पर्यन्तं ये श्लोकाः सन्ति, तेषु कर्तव्याकर्तव्ययोः चर्चां कृत्वा एतस्माच्छ्लोकाद् कर्म कुर्वन् सिद्धौ, असिद्धौ, फलप्राप्तौ, फलाप्राप्तौ च समतायाः वर्णनम् आरभते ।
 
==शाङ्करभाष्यम्==
 
=== भाष्यार्थः ===
 
'स्वधर्ममपि चावेक्ष्य' – इत्यादिभिः श्लोकैः शोकः, मोहश्च दूरीकर्तुं लौकिकन्यायः उक्तः, परन्तु पारमार्थिकदृष्टा नोक्तः । अत्र परमार्थदर्शनस्य प्रकरणत्वाद् अधुना शास्त्रविषयस्य विभागं प्रदर्शयितुम् 'एषा तेऽभिहिता' इत्यनेन श्लोकेन तस्य परमार्थदर्शनस्य उपसंहारं करोति । यतो हि अत्र शास्त्रस्य विषयस्य विभागे प्रदर्शिते सति अग्रे 'ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्' इत्यादिना या द्विधा निष्ठोपस्थापकं शास्त्रम् अस्ति, तद् सुखपूर्वकम् अवगम्यं भविष्यति । श्रोतारः अपि विशषविभागपूर्वकम् अनायासेन तां ग्रहितुं शक्ष्यन्ति । अतः वदति –
 
अहं साङ्ख्ययोगसन्दर्भे अर्थात् परमार्थवस्तूनाम् अभिज्ञाविषये बुद्धिम् अर्थात् ज्ञानम् उक्तवान् । तज्ज्ञानं ये संसारहेतवः अर्थात् शोक-मोहादयः दोषाः सन्ति, तेषां निवृत्तेः साक्षात्कारणम् अस्ति । तस्य ज्ञानस्य प्राप्तेः उपायत्वेन कर्मयोगसन्दर्भे अर्थात् आसक्तिरहिते सति सुखदुःखादीनां द्वन्द्वानां त्यागपूर्वकम् ईश्वराधनाय कृतस्य कर्मणः कर्मयोगसन्दर्भे, समाधियोगसन्दर्भे च तां बुद्धिं (ज्ञानं) वदामि इति । तां बुद्धिं शृणु – रुच्युत्पादनाय तस्याः बुद्धेः स्तुतिः क्रियते – हे अर्जुन ! यस्य योगविषयकस्य बुद्धियुक्तः त्वं धर्माधर्मनामकं कर्मरूपं बन्धनम् ईश्वरकृपया प्राप्तेन ज्ञानेन नंक्ष्यसि इत्यभिप्रायः ।
=== भाष्यार्थः ===
 
बुद्धेः अपरं नाम ''सङ्ख्या'' अस्ति, अतः बुद्धेः धारकस्य आत्मतत्त्वस्य नाम ''साख्यम्'' इति । ज्ञातव्यस्य आत्मतत्त्वस्य विषये ज्ञातुं या बुद्धिः आवश्यकी, तस्याः विषये ''न त्वेवाहम्'' इत्यस्माद् आरभ्य 'तस्मात् सर्वाणि भूतानि' इत्येतं श्लोकं पर्यन्तम् उक्ता अस्ति । इतः आत्मज्ञानसहिताय मोक्षसाधनभूताय कर्मानुष्ठानाय यः बुद्धियोगः उच्यमानः अस्ति, सः अत्र ''योगः'' इत्यनेन शब्देन उच्यते । यतो हि अग्रे गत्वा वक्ष्यते यद्, ''दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय'' तस्मिन् योगविषये या बुद्धिः वक्तव्या अस्ति, यया बुद्ध्या युक्तः सन् त्वं कर्मबन्धनस्य नाशं कर्तुं शक्ष्यसि, तां बुद्धिं त्वं शृणु । कर्मभिः जातानां बन्धनानां नाम एव 'कर्मबन्ध' इति । अतः कर्मबन्धनस्य अर्थः संसारबन्धनम् अस्ति ।
 
 
{{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः = [[सुखदुःखे समे कृत्वा...]] |अग्रिमश्लोकः =[[नेहाभिक्रमनाशोऽस्ति...]]}}
"https://sa.wikipedia.org/wiki/एषा_तेऽभिहिता_साङ्ख्ये..." इत्यस्माद् प्रतिप्राप्तम्