"मीराबाई" इत्यस्य संस्करणे भेदः

→‎बाह्यानुबन्धाः: उद्धरणम् using AWB
पङ्क्तिः २४:
== जीवनम् ==
 
श्रूयते यत् मीरा भक्तशिरोमणेः [[जीवगोस्वामी|जीवगोस्वामिनः]] दर्शनार्थं [[वृन्दावनम्|वृन्दवनं]] गता आसीत् । गोस्वामी स्त्रीदर्शनं न करोति स्म । अतः सः न्यवेदयत् यत् "अहं स्त्रीदर्शनं परित्यक्तवान् अस्मि" इति । मीरा प्रत्यवदत् -"[[वृन्दावनम्|वृन्दावने]] [[कृष्णः|श्रीकृष्णः]] एव पुरुषः वर्तते" इति । मीरायाः एतत् मार्मिकं वचनं श्रुत्वा जीवगोस्वामी सस्नेहं मीराम् अमिलत् । एतस्याः कथायाः उल्लेखः प्रियदासस्य पद्ये लभ्यते -‘वृन्दावन आई जीव गुसाई जू सो मिले झिली, तिया मुख देखबे का पन लै छुटायो’।
 
मीरायाः ननान्दा 'अजब कुंवरबा' 'पुष्टि'मार्गीयवैष्णवसम्प्रदायम् अङ्गीकृत्य 'ब्रह्मसम्बन्ध'दीक्षां स्वीकृतवती आसीत् । परन्तु मीरा सम्प्रदायादिभ्यः दूरैव आसीत् । मीरा यदा [[वृन्दावनम्|वृन्दावने]] आसीत्, तदा [[चैतन्यमहाप्रभुः|चैतन्यमहाप्रभोः]] शिष्याभ्यां सह तस्याः मतभेदः उद्भूतः आसीत् । ततः सा व्रजभूमिं त्यक्त्वा [[द्वारका|द्वारकां]] प्रति प्रयाणं कृतवती ।
पङ्क्तिः ३१:
 
सा [[जुनागढ]]-[[गिरनारपर्वतः|गिरनारपर्वत]]-माधवपुर-[[पोरबन्दर|सुदामापुरी]]-[[सोमनाथः|सोमनाथा]]दि भूत्वा 'आरम्भडा'राज्यं प्राप्तवती । तदा तत्र 'शिवा साङ्गा' नामकस्य वाढेरवंशीयराज्ञः राज्यमासीत् । सोऽपि रणछोडरायभक्तः आसीत् । मीरा अधिकसमयपर्यन्तं तत्रैव निवसितवती । मीरया प्रेरितः 'शिवा साङ्गा' [[द्वारकाद्वीपः|द्वारकाद्वीपे]] द्वारकाधीशमन्दिरं निर्मापितवान् आसीत् । यदा मीरा [[द्वारकाद्वीपः|द्वारकाद्वीपे]] निवसति स्म, तदा तस्याः वयः ६० वर्षाणि आसन् इति केषाञ्चन मतम् । एतस्मिन् मन्दिरे एव मीरा स्वस्य शेषजीवनम् व्यतीतवती ।
 
==मीरायाः गुरुः==
बहुभिः जनैः मन्यते यत मीरायाः कोऽपि गुरुः न आसीत् इति । परन्तु सा गुरुम् अन्विष्यति स्म । ततः सा अनेकैः सन्यासिभिः मिलितवती । अन्ते ‘रैदासं’ दृष्ट्वा (उत्तरभारते सः ‘सन्तरविदास’ इति नाम्ना प्रख्यातः) तस्याः मनः सन्तुष्टम् । मीरा बहुषु पद्येषु तस्य उल्लेखं कृतवती अस्ति ।
"https://sa.wikipedia.org/wiki/मीराबाई" इत्यस्माद् प्रतिप्राप्तम्