"एषा तेऽभिहिता साङ्ख्ये..." इत्यस्य संस्करणे भेदः

/* शाङ्करभाष्यम् <ref> श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्र using AWB
/* शाङ्करभाष्यम् <ref> श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्र using AWB
पङ्क्तिः ११४:
द्वितीयाध्याये येषां विषयाणाम् उपस्थापनम् अभवत्, तेषु किञ्चित् क्रमभङ्गः दृश्यते इति केचन वदन्ति । ते उदाहरणं यच्छति यद्, 'एषा तेऽभिहता साङ्ख्ये' इत्याख्यः एषः श्लोकः एकत्रिंशो अभविष्यच्चेद् क्रमभङ्गः नाभविष्यत् । एकादशात् श्लोकाद् त्रिंशं श्लोकं पर्यन्तं साङ्ख्ययोगानुगुणं निष्ठा (समता) उक्ता । ततः कर्मयोगानुगुणं निष्ठायाः वर्णनम् उचितं भवेत् । एवम् एकत्रिंशाद् अष्टत्रिंशं पर्यन्तं ये श्लोकाः सन्ति, ते विषयेन सह असङ्गताः इति प्रतीयते । परन्तु तथा नास्ति । किञ्च कर्मयोगानुगुणं समतायाः ज्ञानं प्राप्तव्यं चेत्, कर्तव्याकर्तव्ययोः ज्ञानम् आवश्यकम् । अर्जुनाय युद्धं कर्तव्यम् आसीत्, युद्धत्यागः अकर्तव्यञ्च । अतः भगवान् कर्तव्याकर्तव्ययोः वर्णनं कुर्वन् एकत्रिंशाद् अष्टत्रिंशपर्यन्तं श्लोकान् कर्मयोगसन्दर्भे समतावर्णनात् प्राग् अवदत् । तात्पर्यम् अस्ति यद्, एकादशात् त्रिंशं श्लोकं पर्यन्तं वर्णिते विषये किमपि परिवर्तनं न शक्यते । सदसतोः ज्ञानेन समता प्रतिपादयन् तयोः तत्त्वयोः वास्तविकं स्वरूपं वर्णितम् । ततः एकत्रिंशाद् अष्टत्रिंशं पर्यन्तं ये श्लोकाः सन्ति, तेषु कर्तव्याकर्तव्ययोः चर्चां कृत्वा एतस्माच्छ्लोकात् कर्म कुर्वन् सिद्धौ, असिद्धौ, फलप्राप्तौ, फलाप्राप्तौ च समतायाः वर्णनम् आरभते ।
 
== शाङ्करभाष्यम् <ref> श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6 </ref> ==
शोकमोहापनयनाय लौकिको न्यायः स्वधर्ममपि चावेक्ष्य इत्याद्यैः श्लोकैरुक्तः न तु तात्पर्येण। परमार्थदर्शनमिह प्रकृतम्। तच्चोक्तमुपसंह्रियते एषा तेऽभिहिता (गीता 2.39) इति शास्त्रविषयविभागप्रदर्शनाय। इह हि प्रदर्शिते पुनः शास्त्रविषयविभागे उपरिष्टात् ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् इति निष्ठाद्वयविषयं शास्त्रं सुखं प्रवर्तिष्यते श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्ति इत्यत आह -
 
"https://sa.wikipedia.org/wiki/एषा_तेऽभिहिता_साङ्ख्ये..." इत्यस्माद् प्रतिप्राप्तम्