"हिमालयः" इत्यस्य संस्करणे भेदः

अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १२२:
== '''हिमालये विद्यमानानि तीर्थक्षेत्राणि''' ==
 
कैलासक्षेत्रं मानसक्षेत्रं च हिमालये विद्यमाने सर्वश्रेष्ठे तीर्थक्षेत्रे । तत्र प्रवासः अत्यन्तं कष्टकरः । [[अमरनाथः]] १३,००० पादं यावत् उन्नते स्थाने अस्ति । तत्र गमनमार्गः अपि अत्यन्तं दुर्गमः । तथापि सहस्रशः जनाः कैलास-मानसयात्रां कुर्वन्ति । पञ्जाबे स्थितं ज्वालामुखीक्षेत्रम् अपि अन्यदेकं पवित्रं क्षेत्रम् अस्ति । दक्षयज्ञक्षेत्रं हरिद्वारम् अपि हिमालयस्य उपत्यकायाम् एव अस्ति । हरिद्वारतः हृषीकेशमार्गेण देवप्रयागं, ततः यमुनोत्रीं, गङ्गोत्रीं, केदारं, बदरीं च गच्छन्ति यात्रिकाः । एतत् सर्वम् अपि क्षेत्रं १०,०००-१५,०००पादं यावत् उन्नते स्थाने अस्ति, हिमावृतं च भवति । नेपालेनेपालदेशे पशुपतिनाथः, मुक्तिनाथः, दामोदरकुण्डं, गण्डकी, मत्स्येन्द्रनाथः, स्वयम्भूनाथः, बोधनाथःबौद्धनाथः देवघट्ट इत्यादीनि पवित्राणि क्षेत्राणि सन्ति । दामोदरकुण्डात् प्रवहन्त्यां गण्डकीनद्यां सालिग्रामशिला उपलभ्यते । एवं प्रतिपदं पवित्रस्थानानि सन्ति हिमालये ।
वातावरणदृष्ट्या हिमालयस्य उपकारः महान् एव । कतिपय वर्षेभ्यः पूर्वं रष्यादेशे सञ्जातात् अणुविद्युत्स्थावरस्य अग्निदुरन्तात् उद्भूय प्रस्थितानि अणुविकिरणानि अवरुध्य अस्मान् अरक्षत् हिमालयः एव । यदि तत्र हिमालयः न स्यात् तर्हि भारतस्य वायुः विषमयः अभविष्यत् । दक्षिणतः आगच्छन्तीं वृष्टिम् अवरुध्य भारते विपुलवृष्टिं कारयति हिमालयः एव । हिमालयात् प्रवहन्तीनां नदीनां कारणतः भारतं सुजलं सुफलं सञ्जातम् । अस्माकं जीवनं हिमालयम् अवलम्ब्य स्थितम् इति उक्ते न सा अतिशयोक्तिः ।
 
"https://sa.wikipedia.org/wiki/हिमालयः" इत्यस्माद् प्रतिप्राप्तम्