"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) NehalDaveND इत्यनेन शीर्षकं परिवर्त्य मीमांसा पृष्ठं मीमांसादर्शनम् प्रति स्थानान्तरितम्: दर्शन... |
No edit summary |
||
पङ्क्तिः १:
{{हिन्दूधर्मः}}
[[चित्रम्:Yajna1.jpg|thumb|यज्ञप्रक्रिया]]
'''मीमांसादर्शनं''' ({{IPA audio link|{{PAGENAME}}.wav}} ({{IPAc-en|ˈ|m|iː|m|ɑː|n|s|ɑː}})) ({{lang-hi|मीमांसा}}, {{lang-en|Mīmāṃsā}}) [[भारतीयदर्शनशास्त्रम्|भारतीयदर्शनेषु]] अन्यतमम् । इदं दर्शनं मूलतः अनीश्वरवादि दर्शनमस्ति । यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरूपेण स्वीकर्तुं
''मन्'' धातोर्निष्पन्नो ''मीमांसा'' शब्दः पूज्यविचार-यथार्थवस्तुरूप-अनुसन्धानादिषु अर्थेषु गृह्यते । [[वेदः|वेदस्य]] कर्मसिद्धान्तानुगतव्याख्या मीमांसादर्शनस्य प्रधानलक्ष्यमस्ति । दर्शनशास्त्रे वेदस्य रूपद्वयं प्रसिद्धमस्ति –कर्मकाण्डः ज्ञानकाण्डश्चेति । ज्ञानकाण्डः उत्तरमीमांसाया विषयोऽस्ति, यत्र वेदस्य ज्ञानपरकं विश्लेषणं कृतम् । किन्तु कर्मकाण्डः पूर्वमीमांसायाः विषयो वर्तते, अतः '''पूर्वमीमांसा''' एव कर्ममीमांसा इत्यपि कथ्यते ।
मीमांसदर्शने वेदविहितं कर्म एव [[धर्मः|धर्म]]रूपेण प्रतिपादितम् । तदेव इहलौकिकानां पारलौकिकानां च सुखानां साधनमस्ति । यदा कर्म एव सुखदुःखयोः मूलकारणं भवति तदा तस्य सूक्ष्मविश्लेषणकारकं शास्त्रं कर्ममीमांसैव उपयुक्तं प्रतीयते । मीमांसादर्शनम् अतिप्राचीनम् अस्ति । ब्राह्मणग्रन्थैः
मीमांसादर्शनस्य सर्वाधिकं महत्त्वपूर्णं तत्त्वं धर्मविचारोऽस्ति । धर्मस्य आधारशिला कर्मकाण्डम् आधारीकृत्य तिष्ठति । उत्तरमीमांसाम् अतिरिच्य [[चार्वाकदर्शनम्|चार्वाक]]-[[जैनदर्शनम्|जैन]]-[[बौद्धदर्शनम्|बौद्धैः]] वैदिककर्मकाण्डस्य खण्डनं कृतम् । आत्मनो नित्यता इतरवैदिकदर्शने यथा स्वीक्रियते तथैवात्रापि अभीष्टा वर्तते । मीमांसादर्शनस्य मतानुसारं मृत्यूत्तरमपि [[आत्मा]] स्वकीयानां शुभाशुभकर्मणां फलानि प्राप्नोति । मीमांसायां 'स्वर्ग' नामकस्य स्वतन्त्रतत्त्वस्य
यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषाेपनीतं च तत् सुखं स्वःपदास्पदम् ।। इति । एतत्कृते 'अपूर्व' [[चित्रम्:Yagya at Old Durga Mandir of Banaras 1.jpg|thumb|दुर्गापूजा]]
जीवनस्वर्गयोरन्तराले कर्मकाण्डजन्यम् अपूर्वमेव सेतुरूपमस्ति । अपूर्वमेव पापपुण्ययोराशयः वर्तते । [[वेदः]] कर्मविधानं करोति । वेदाः
== मीमांसाशास्त्रपरिचयः ==
Line १६२ ⟶ १६५:
== मीमांसादर्शने ईश्वरविचारः ==
यद्यपि मीमांसादर्शने ईश्वरतत्त्वम् अभीष्टं नास्ति, तथापि कर्मफलदायकं किमपि अचेतनं तत्त्वं न भवितुं शक्नोति । स्वर्गादिफलानां प्रदाता तु यज्ञोऽस्ति । तथापि यज्ञपतिरूपेण ईश्वरः स्वीकर्त्तुं शक्यते । अत एव अर्थसंग्रहकारः मोक्षावस्थायां –‘कर्मफलाभावो तदैव भवति यदा कर्मफलसमर्पणं भवेत्’ इति श्रुत्यर्थमगवत्य सर्वकर्मफलानाम् ईश्वराय समर्पणनैव मोक्षो भवतीति उल्लेखं कृतवान् । 'सेश्वरमीमांसा’ नामकस्य ग्रन्थस्यापि इदमेवोद्देश्यमस्ति । प्रभाकरविजयेऽपि स्पष्टरूपेण ईश्वरोऽभिमतः । तथापि मीमांसकानाम् ईश्वर्ः श्रुतिसिद्धौ वर्तते, न तु अनुमानसिद्धः । सूत्रकारेण भाष्यकारेण च एतद्विषये चर्चा न कृता ।
== मीमांसादर्शने मोक्षविचारः ==
मीमांसादर्शने जगता सह आत्मनः सम्बन्धस्य नाशः मोक्षोऽभिमतः । अस्य मतस्यानुसारेण आत्मा शरीरेण युक्तो भूत्वा एव बाह्यविषयाणाम् उपभोगं करोति । अनेन सम्बन्धेन आत्मा संसारसमुद्रे निमग्नोऽस्ति । अत एव भोगायतनं शरीरं भोगसाधनम् इन्द्रियं भोगविषयाः पदार्थाश्च अभिमताः । एभिस्त्रिभिः आत्मनः आत्यन्तिकम् एकान्तिकं वा सम्बन्धविच्छेद एव मोक्षोऽस्ति । मीमांसकमते आत्मनि चैतन्यं स्वाभाविकं नास्ति । मोक्षस्य प्रारंभिककाले सुखदुः खादीनां पूर्णविनाशो जायते स चात्मा स्वविशुद्धस्वरूपेऽवतिष्ठति । निवृत्तिमूलकतायां स्वीकृतायामपि मीमांसकमते मोक्षप्राप्त्यर्थं नित्यनैमित्तिकम् अनुष्ठानम् अपेक्षितमस्ति । काम्य-निषिद्ध-कर्मणाम् अनुष्ठानं मोक्षस्य साधनं नास्ति । नित्यनैमित्तिककर्मणां सम्पादनेन सह आत्मज्ञानरूपि सहकारि कारणमेव मोक्षस्य प्रधानं साधनं वर्तते । एवं मीमांसा कर्त्तव्यशास्त्रस्य दृष्टिकोणेन ज्ञानकर्ममसुच्चयस्य पक्षपातिनी अस्ति । अात्मविषयकबाेधस्य दृढत्वं तु वेदान्तनिषेवणेन सम्पादनीयमिति वार्त्तककाराणां कुमारिलभट्टपादानां निर्देशाे वर्तते ।
==मीमांसादर्शनस्य आचार्यपरम्परा==
|