"भगवद्गीता" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनम् : जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ३:
 
==वैदिकवाङ्मये श्रीमदभगवद्गीतायाः स्थानम्==
श्रीमदभगवद्गीताख्यं शास्त्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम् । वेदवत् त्रिकाण्डात्मकत्वात्,समस्तवेदार्थ समस्तवेदार्थसारसंग्रहभूतत्वात्सारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च । प्रसिद्धिश्चैतादृश्येव –
:''गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।''
:''या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥''
पङ्क्तिः ९:
:''सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।''
:''पार्थो वत्सः सुधीर्भोक्ता गीतामृतदुहे नमः ॥''
वासुदेव-पार्थयोः संवादरूपायाः गीताया अवसाने अर्जुन उवाच— "नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव" । अनेन मोहनाशः जातः यत् तदेव प्रश्नप्रतिवचनेन प्राप्तं सर्वशास्त्रार्थज्ञानफलमेतदितिसर्वशास्त्रार्थज्ञान फलमेतदिति निश्चितं दर्शितं भवति । यतो ज्ञानान्मोहनाश आत्मस्मृतिलाभश्चेति । तथा च श्रुतावनात्मविच्छोचामीत्युपन्यस्यात्मज्ञानेन सर्वग्रन्थिविप्रमोक्ष उक्तः भिद्यते हृदयद्रन्थिस्तत्र को मोहः कः शोकः एकत्वमनुपश्यतः इति च मन्त्रवर्णः । एतस्याः गीतायाः शास्त्रत्वे भगवतः स्ववचनमेव प्रमाणम्-
 
:''इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।''
पङ्क्तिः २२:
इति च मानवं वचनम् । यत् एतत्प्रमार्थतत्त्वं मत्तः श्रुतवानसि ततः कृतार्थस्त्वं भारतेति”। भाष्यस्योपोद्धाते ''तदिदं गीतशास्त्रं समस्तवेदार्थ-सारस्ंग्रहभूतं दुर्विज्ञेयार्थं तदर्थाविष्करणायानेकै विवृतपदार्थवाक्यार्थ-न्यायमत्यन्तविरुद्धानेकार्थत्वेन लौकिकैर्गृह्यमाणमुपलभ्याहं विवेकतोऽर्थ निर्धारणार्थं संक्षेपतो विवरणं करिष्यामि'' । आचार्याः अस्याः शास्त्रत्वे न विप्रतिपद्यन्ते । आचार्यान्तराणामत्र सम्मतिरेव-
 
:''नष्टधर्मज्ञानलोककृपालुभिर्ब्रह्मरुद्रेन्द्रादिभिरर्थितोज्ञानप्रदर्शनाय भगवान् व्यासोऽवततार । ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनाद्वेदार्थज्ञानाच्च् संसारे किलश्यमानानांक्लिश्यमानानां वेदानधिकारिणं स्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदार्थोपवृंहितांसर्ववेदार्थोपबृंहितां तदनुक्त केवलेश्वरज्ञानदृष्टार्थयुक्तां च सर्वप्राणिनामवगाह्मानवागाह्यरुपां केवलभगवत्स्वरुपपरां परोक्षार्थां महाभारतसंहितामचीक्लृपत ।
तच्चोक्तं-
[[Image:Bhagavad Gita, a 19th century manuscript.jpg|250px|thumb|श्रीमद्भगवद्गीतायाः एकोनविंशतितमशतमानस्य मातृकायाः पृष्ठानि]]
पङ्क्तिः ३०:
:'''अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम् ।'''
:'''ततः प्रसन्नो भगवान् व्यासो भूत्वा च तेन च ॥२॥'''
:'''अन्यावतारुपैश्चअन्यावताररुपैश्च वेदनुक्तार्थभूषितम् ।'''
:'''केवलेनात्मबोधेन दृष्टं वेदार्थ संयुक्तम् ॥३॥'''
:'''वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम् ।'''
पङ्क्तिः ४२:
: - ''इति नारदीये''
:'''भारतं चापि कृतवान् पञ्चमं वेदमुत्तमम् ।'''
:'''दशावतरार्थंदशावतारार्थं सर्वत्र केवलं विष्णुबोधकम् ॥७॥'''
परोक्षार्थं तु सर्वत्र वेदादप्युत्तमं च यत् –इति स्कान्दे । तत्र च वासुदेवार्जुन संवादरुपां सर्वभारतार्थसंग्रहां भारतपारिजातमधुभूतां गीतामुपनिवबंध ।
तच्चोक्तं- ''॥ भारतं सर्वशास्रेषु भारते गीतिका वरा ॥''
विष्णो सहस्त्रनामापि ज्ञेयं पाठयं च् तद्वयम् “ इति महाकौर्म्ये ”॥
:'''सारथ्यमर्जुनस्यादौ कुर्वग्नीतामृतंकुर्वन्गीतामृतं ददौ ।
:'''लोकत्रयोपकाराय तस्मै कृष्णात्मने नमः ॥४॥'''
'''मलनिर्मोचनं पुंसां जलस्नानं दिने दिने ।'''
'''सकृदीताम्भसिसकृद्गीताम्भसि स्नानं संसारमलनाशनम् ॥'''
'''अकृत्यमपि कुर्वाणो भुञ्जानोऽपि यथा तथा ।'''
'''कदाचिन्नारकं दुःखं गीताध्यायी न पश्यति ।'''
पङ्क्तिः ६३:
 
अनुबन्धचतुष्टयवत् शास्त्रमेतदिति विज्ञापितं भवति, सर्वेषामधिकारित्वबोधनात् । शास्त्रस्यास्य सम्बन्धाभिधेयप्रयोजनानि-मोक्ष इति निः श्रेयसप्रयोजनवत् । किं च पुरुषार्थान्तराणामविरोधेन परमप्रयोदनस्यैव मुख्य्त्वात् । स च मोक्षः परमार्थ स्वरुपबोधात् गीताशास्त्रप्रतिपादितात् । परमार्थः परमात्मा, तत्परमात्मस्वरुपावबोधस्यास्य च शास्त्रस्य साध्यसाधनलक्षणः सम्बन्धः इति अधिकारि-प्रयोजनसम्बन्धाभिधेयविशिष्टं गीताशास्त्रम । अत्र शंकरभवगत्पादाः –
''इमं द्विप्रकारं धर्म निः श्रेयसम्प्रयोजनं परमार्थतत्त्वञचपरमार्थतत्त्वञ्च वासुदेवाख्यं परब्रह्मभिधेयं विशेषतः अभिव्यञ्जयत् विशिष्टप्रयोजनसंबन्धाभिधेयवत् गीताशास्त्रम् । यतः तदर्थविज्ञानेन समस्तपुरुषार्थसिद्धिः ।''
एवं सकलपुरुषार्थसिद्धये सर्वेषां श्रेयोऽर्थिनां गीताशास्त्रस्य पठनं श्रवणं पाठनं तात्पर्यबोधं विनाऽपि कल्पते इति गीतोक्तं प्रमाणम् । ननु ज्ञानकाण्डात्मिका उपनिषदः यासां सारसंग्रहभूता गीता-
:'''सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।'''
:'''पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥'''
 
इति कथं समस्तवेदार्थसारसंग्रहात्मिकेति । किञ्च त्रिगुणात्मकत्वात् ''त्रैगुण्यविषया वेदा निस्त्रैगुण्योभवार्जुन'' इति चेन्न, काण्डत्रयात्मिकायाः गीतायाः भगवदुक्तत्वादभक्तियोगे कर्मज्ञानयोः समन्वितत्वाच्च । :''यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।''
इति कथं समस्तवेदार्थसाससंग्रहात्मिकेति । किञ्च वेद्मनां
त्रिगुणात्मकत्वात् ''त्रैगुण्यविषया वेदा निस्त्रैगुण्योभवार्जुन'' इति चेन्न, काण्डत्रयात्मिकायाः गीतायाः भगवदुक्तत्वादभक्तियोगे कर्मज्ञानयोः समन्वितत्वाच्च । :''यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।''
:''तावानर्थो वेदेषु ब्राह्मणस्य विजानतः ॥''
इति सार्थक्यं द्विविधधर्मोपदेशस्येति सर्वशास्त्रो पजीव्यत्वेन गीताया सर्वातिशायि महात्म्यम् । उपनिषदस्तावद्रहस्यविद्यात्वेन प्रसिद्धाः गीताशास्त्रं तु गुह्यतममिति तत्रैवावधृतत्वात् । अतः कृतकृत्यता चरितार्थता समग्रस्य जीवनस्य तदा यदा हि गीताशास्त्रमनुसृत्य यथोक्त कर्मयोगमाश्रित्य ज्ञानयोगेन सह भगवद्भक्तियोगेन जीवनस्य परमपुरुषार्थः साधितो भवेत् ।
"https://sa.wikipedia.org/wiki/भगवद्गीता" इत्यस्माद् प्रतिप्राप्तम्